चतुर्युगस्वरूपवर्णनम्
ऋषय ऊचुः
चतुर्युगस्वरूपं तु माहात्म्यं चैव सूतज ॥
प्रमाणं वद कार्त्स्न्येन परं कौतूहलं हि नः
॥१॥सूत उवाच
इममर्थं पुरा पृष्टो वासवेन बृहस्पतिः ॥
यथा प्रोवाच विप्रेंद्रास्तद्वो वक्ष्यामि सांप्रतम्
॥२॥पुरा शक्रं समासीनं सभायां त्रिदशैः सह ॥
सह शच्या महात्मानमुपासांचक्रिरे सुराः
॥३॥गन्धर्वाप्सरसश्चैव सिद्धविद्याधराश्च ये ॥
गुह्यकाः किंनरा दैत्या राक्षसा उरगास्तथा
॥४॥कलाः काष्ठानिमेषाश्च नक्षत्राणि ग्रहास्तथा ॥
सांगा वेदास्तथा मूर्तास्तीर्थान्यायतनानि च
॥५॥तथा चक्रुः कथाश्चित्रा देवदानवरक्षसाम् ॥
राजर्षीणां पुराणानां ब्रह्मर्षीणां विशेषतः
॥६॥कस्मिंश्चिदथ संप्राप्ते प्रस्तावे त्रिदशेश्वरः ॥
पप्रच्छ विनयोपेतो विप्रश्रेष्ठं बृहस्पतिम्
॥७॥भगवञ्छ्रोतुमिच्छामि प्रमाणं युगसंभवम् ॥
माहात्म्यं च स्वरूपं च यथावद्वक्तुमर्हसि
॥८॥बृहस्पति रुवाच
अहं ते कीर्तयिष्यामि माहात्म्यं युगसंभवम् ॥
यत्प्रमाणं स्वरूपं च शृणुष्वावहितः स्थितः
॥९॥अष्टाविंशतिसहस्राणि लक्षाः सप्तदशैव तु ॥
प्रमाणेन कृतं प्रोक्तं यत्र शुक्लो जनार्दनः
॥१०॥चतुष्पादस्तथा धर्मः सुसंपूर्णा वसुन्धरा ॥
कामक्रोधविनिर्मुक्ता भयद्वेषविवर्जिताः ॥
जनाश्चिरायुषस्तत्र शान्तात्मानो जितेन्द्रियाः ॥
पञ्चतालप्रमाणाश्च दीप्तिमन्तो बहुश्रुताः
॥१२॥तत्र षोडशसाहस्रं बालत्वं जायते नृणाम् ॥
ततश्च यौवनं प्रोक्तं द्वात्रिंशद्यावदेव हि
॥१३॥ततः परं च वार्द्धक्यं शनैः संजायते नृणाम् ॥
लक्षांते परमं यावदन्येषामधिकं क्वचित्
॥१४॥तत्र सत्त्वाश्च ये केचित्पशवः पक्षिणो मृगाः ॥
दैवीं वाचं प्रजल्पंति न विरोधं व्रजंति च ।
ा१५ ॥
क्रीडंति नकुलैः सर्पा बिडाला मूषकैः समम् ॥
पञ्चाननैर्मृगा नित्यमुलूकाश्चापि वायसैः
॥६॥अकृष्टा च मही सस्यं जनयत्यति भूरिशः ॥
व्रीहिमुद्गयवप्रायं सुस्वादु बलवृद्धिदम्
॥७॥सर्वर्तुफलिनो वृक्षाः सपुष्पफलधारिणः ॥
सुपत्राः कंटकैर्हीनाः कल्पपादपसंनिभाः
॥८॥धेनवश्च प्रयच्छंति वांछितं स्वादु सत्पयः ॥
सर्वेष्वपि हि कालेषु भूरि सर्प्पिःप्रदं नृणाम्
॥१९॥न तत्र विधवा नारी जायते न च दुर्भगा ॥
काकवंध्या सुतैर्हीना न च शीलविवर्जिता
॥२०॥यथाजन्म तथा मृत्युः क्रमात्संजायते नृणाम् ॥
न वीक्षते पिता पुत्रं मृतं क्वापि कदाचन
॥२१॥न प्रेतत्वं च लोकानां मृतानां तत्र जायते ॥
न चापि नरके वासो न च रोगव्यथा क्वचित्
॥२२॥वेदांतगा द्विजाः सर्वे नित्यं स्वाध्यायशीलिनः ॥
वेदव्याख्यानसंहृष्टा ब्रह्मज्ञानविचक्षणाः
॥२३॥क्षत्रियाश्चापि भूपालमेकं कृत्वा सुभक्तितः ॥
तदादेशात्प्रभुंजंति महीं धर्मेण नित्यशः
॥२४॥वैश्या वैश्यजनार्हाणि चक्रुः कर्माणि भूरिशः ॥
पशुपालनपूर्वाणि क्रयविक्रयजानि च
॥२५॥मुक्त्वैकां द्विजशुश्रूषा न शूद्रास्तत्र चक्रिरे ॥
किंचित्कर्म सुरश्रेष्ठ श्रद्धया परया युताः
॥२६॥न तत्र चांत्यजो जज्ञे न च संकरसंभवः ॥
नापवित्रो न वर्णानां पञ्चमो दृश्यते भुवि
॥२७॥यजनं याजनं दानं व्रतं नियम एव च ॥
तीर्थयात्रां नरास्तत्र निष्कामा एव कुर्वते
॥२८॥एवंविधं सहस्राक्ष मया ते परिकीर्तितम् ॥
आद्यं कृतयुगं पुण्यं सर्वलोकसुखावहम्
॥२९॥ततस्त्रेतायुगं नाम द्वितीयं संप्रवर्तते ॥
वर्षाणां षण्णवत्याढ्या लक्षा द्वादश संख्यया
॥३०॥सोऽपि साक्षाजगन्नाथः श्वेतद्वीपाश्रयाश्रितः ॥
तत्र रक्तत्वमायाति भग वान्गरुडध्वजः
॥३१॥त्रिपादस्तत्र धर्मः स्यात्पादेनैकेन पातकम् ॥
तेनापि जायते स्पर्द्धा वर्णानामितरेतरम्
॥३२॥ततः फलानि वांछंति तीर्थयात्रोद्भवानि ते ॥
व्रतानां नियमानां च स्वर्गवासादिहेतवः
॥३३॥ततः कामवशान्मोहं सर्वे गच्छंति मानवाः ॥
मोहाद्द्रोहं ततो गत्वा पापं कुर्वंत्यनुक्रमात्
॥३४॥ततस्तु रौरवादीनि नरकाणि यमः स्वयम् ॥
सज्जीकरोति देवेन्द्र ह्येकविंशतिसंख्यया
॥३५॥कर्मानुसारतस्तानि सेवयंति नराधमाः ॥
केचिदन्ये महेन्द्रादिलोकान्मोक्षं तथा परे
॥३६॥त्रिविधाः पुरुषास्तत्र श्रेष्ठाश्चाधममध्यमाः ॥
त्रिविधानि च कर्माणि प्रकुर्वंति सुरेश्वर
॥३७॥उन्नतास्तालमात्रेण तेजोवीर्यसमन्विताः ॥
चक्रुश्च कृषिकर्माणि वैश्याश्चैवान्नलिप्सया
॥३८॥उप्तक्षेत्रं सकृच्चापि सप्तवारं लुनंति ते ॥
यथर्तु फलिनो वृक्षा यथर्तु कुसुमान्विताः
॥३९॥यथर्तु पत्रसंयुक्तास्तत्र स्युः सुमनोहराः ॥
अग्निष्टोमादिका यज्ञाः प्रवर्तंते सहस्रशः
॥४०॥इतरेतरसंस्पर्धैः क्रियमाणा नृपोत्तमैः ॥
ब्राह्मणैश्च सुरश्रेष्ठ स्वर्गलोकमभीप्सुभिः
॥४१॥तीर्थयात्रां व्रतं दानं नियमं संयमं तथा ॥
परलोकमभीप्संतस्तत्र कुर्वंति मानवाः
॥४२॥सहस्रेण तु वर्षाणां तत्र स्याद्यौवनं नृणाम् ॥
सहस्रपञ्चकं यावदूर्ध्वं वार्द्धक मुच्यते
॥४३॥रजकश्चर्मकारश्च नटो बुरुड एव च ॥
कैवर्त्तमेदभिल्लाश्च चंडालाः शूद्रमानवाः
॥४४॥संभवंति युगे तस्मिन्यो निसंसर्गतो विभो ॥
तथान्ये संख्यया हीना एतेभ्यो निंदिता नराः
॥४५८॥इन्द्र उवाच
उत्पत्तिः कथमेतेषामंत्यजानां द्विजो त्तम ॥
यथावद्वद कार्त्स्न्येन अत्र कौतूहलं महत्
॥४६॥बृहस्पतिरुवाच
एतेषामष्टधा सृष्टिर्जायतेंऽत्यजसंभवा ॥
योनि दोषात्सुरश्रेष्ठ जातेर्वक्ष्याम्यहं स्फुटम्
॥४७॥ब्राह्मण्यां क्षत्रियाज्जातः सूत इत्यभिधीयते ॥
सूतेन रजकश्चैव रजकेन च चर्मकृत्
॥४८॥चर्मकारेण संजज्ञे नटश्चांत्यजसंज्ञकः ॥
चत्वारः क्षेत्रसंभूता एते क्षेत्रे द्विजन्मनाम्
॥४९॥तथा च मागधो जज्ञे वैश्येन द्विजसंभवे ॥
क्षेत्रे मागधवीर्येण बुरुडो मरुदुत्तम
॥५०॥बुरुडेन च कैवर्तः कैवर्तेन च मेदकः ॥
चत्वारो वैश्यसंभूता एते क्षेत्रे द्विजन्मनाम् ॥
प्रजायन्ते सुरश्रेष्ठ सवकर्मसु गर्हिताः
॥५१॥तथा शूद्रेण संजज्ञे ब्राह्मण्यां सुरसत्तम ॥
भिल्लाख्यश्चापि भिल्लेन चंडालश्च प्रजायते
॥५२॥एतौ द्वावपि शूद्रेण भवतो द्विजसंभवे ॥
क्षेत्रे सर्वसुराधीश सत्यमेतन्मयोदितम्
॥५३॥एतत्त्रेतायुगे प्रोक्तं मया ते सुरसत्तम ॥
आकर्णय प्रयत्नेन द्वापरस्याधुना स्थितिम्
॥५४॥लक्षाष्टकप्रमाणेन तद्युगं परिकीर्तितम् ॥
चतुःषष्टिसहस्राणि वर्षाणां परिसं ख्यया ॥
कपिशो जायते तत्र भगवान्गरुडध्वजः
॥५५॥द्वौ पादौ चैव धर्मस्य द्वौ पापस्य व्यवस्थितौ ॥
तत्र स्याद्यौवनं नृणां गते वर्षशतेऽ खिले
॥५६॥ततोऽन्यैः समतिक्रांतैर्वार्धक्यं पञ्चभिः शतैः ॥
तत्र सत्यानृता लोका देवा भूपास्तथा परे
॥५७॥नार्यश्चापि सुरश्रेष्ठ तत्स्व रूपाः प्रकीर्तिताः ॥
पंचहस्तप्रमाणेन चतुर्हस्तास्तथा परं
॥५८॥नातिरूपेण संयुक्ता न च रूपविवर्जिताः ॥
अव्यक्तजल्पकाश्चापि पशवः पक्षिणो मृगाः
॥५९॥नातिपुष्पफलैर्युक्ता वृक्षाश्चापिसुरेश्वर ॥
सस्यानि तानि जायन्ते तत्र चोप्तानिकर्षुकैः
॥६०॥वर्षंति जलदाः कामं भवन्त्योषधयोऽखिलाः ॥
यत्किंचिद्भूतले ज्ञानं शास्त्रं वा सुरसत्तम ॥
तत्तत्र समभावेन न सत्यं नैव चानृतम्
॥६१॥तीर्थानां च मखानां च द्वापरे सुरसत्तम ॥
फलं भावानुरूपेण दानानां च प्रजायते
॥६२॥एतत्तव समाख्यातं युगं द्वापरसंज्ञकम् ॥
मया सर्वं सुराधीश यथादृष्टं यथा श्रुतम्
॥६३॥शृणुष्वावहितो भूत्वा वदतो मम सांप्रतम् ॥
रौद्रं कलियुगंनाम यत्र कृष्णो जनार्दनः
॥६४॥द्वात्रिंशच्च सहस्राणि वर्षाणां कथितं विभो ॥
तथा लक्षचतुष्केण साधुलोकविवर्जितम्
॥६५॥तत्रैकपादयुक्तश्च धर्मः पापं त्रिभिः स्मृतम् ॥
पूर्वार्धेभ्यः परं सर्वं संभविष्यति पात कम्
॥६६॥न शृण्वंति पितुः पुत्रा न स्नुषा भ्रातरो न च ॥
न भृत्या न कलत्राणि यत्र द्वेषः परस्परम्
॥६७॥यत्र षोडशमे वर्षे नराः पलित यौवनाः ॥
तत्र द्वादशमे वर्षे गर्भं धास्यति चांगना
॥६८॥आयुः परं मनुष्याणां शतसंख्यं सुरेश्वर ॥
नागानां च तरूणां च वर्षाणां यत्र नाधिकम्
॥६९॥द्वात्रिंशद्धयमुख्यानां चतुर्विंशतिः खरोष्ट्रयोः ॥
अजानां षोडश प्रोक्तं शुनां द्वादशसंख्यया
॥७०॥चतुष्पदानामन्येषां विंशतिः पंचभिर्युता ॥
यत्र काकाश्च गृध्राश्च कौशिकाश्चिरजीविनः
॥७१॥तथा पापपरा लोका दुःस्थिताश्च विशेषतः ॥
तथा कण्टकिनो वृक्षा रूक्षाः पुष्पफलच्युताः ॥
सेवितास्तेऽपि गृध्राद्यैर्यत्र च्छायाविवर्जिताः
॥७२॥यत्र धर्मो ह्यधर्मेण पीड्यते सुरसत्तम ॥
असत्येन तथा सत्यं भूपाश्चौरैः सदैव तु
॥७३॥गुरवश्च तथा शिष्यैः स्त्रीभिश्च पुरुषाधमाः ॥
स्वामिनो भृत्यवर्गैश्च मूर्खैश्चापि बहुश्रुताः
॥७४॥यत्र सीदंति धर्मिष्ठा नराः सत्यपरायणाः ॥
दान्ता विवेकिनः शान्तास्तथा परहिते रताः
॥७५॥आधयो व्याधयश्चैव तथा पीडा महाद्भुता ॥
सदैव संस्थिता यत्र साधुपीडनवांछया
॥७६॥अल्पायुषस्तथा मर्त्या जायंते वर्णसंकरात् ॥
ये केचन प्रजीवंति दुःखेन ते समन्विताः
॥७७॥न वर्षति घनः काले संप्राप्तेऽपि यथोचिते ॥
न सस्यं स्यात्सुवृष्टेपि कर्षुकस्यापि वांछितम्
॥७८॥न च क्षीरप्रदा गावो यद्यपि स्युः सुपोषिताः ॥
न भवंति प्रभू ताश्च यत्नेनापि सुरक्षिताः
॥७९॥आविकानां तथोष्ट्रीणां यत्र क्षीरप्रशंसकाः ॥
लोका भवंति निःश्रीकास्तथा ये च मलिम्लुचाः ६.२७.८० ॥
तथा तपस्विनः शूद्राः शूद्रा धर्मपरायणाः ॥
शूद्रा वेदविचारज्ञा यज्ञकर्मणि चोद्यताः
॥८१॥शूद्राः प्रतिग्रहीतारः शूद्रा दानप्रदास्तथा ॥
शूद्राश्चापि तथा वन्द्याः शद्रास्तीर्थेषु संस्थिताः
॥८२॥पंचगर्तान्खनंत्येव मृत्युकाले नराधमाः ॥
शिरसा हस्तपादाभ्यां मोहात्संनष्टचेतनाः
॥८३॥वेदविक्रयकर्तारो ब्राह्मणाः शौचवर्जिताः
॥८४॥स्वाध्यायरहिताश्चैव शूद्रान्ननिरताः सदा ॥
असत्प्रतिग्रहाः प्रायो जिह्वालौल्यसमुत्सुकाः
॥८५॥पाखंडिनो विकर्मस्थाः परदारोपजीविनः ॥
कार्यकारणमाश्रित्य यत्र स्नेहः प्रजायते
॥८६॥न स्वभावात्सहस्राक्ष कथंचिदपि देहिनाम् ॥
यास्यंति म्लेच्छभावं च सर्वे वर्णा द्विजातयः
॥८७॥नष्टोत्सवाविधर्माणो नित्यं संकरकारकाः ॥
सार्धहस्तत्रयाः पूर्वं भविष्यंति युगादितः
॥८८॥ततो ह्रासं प्रयास्यंति वृद्धिं याति कलौ युगे ॥
भविष्यन्ति ततश्चांते मनुष्या बिलशायिनः
॥८९॥अल्पत्वाद्दुर्लभत्वाच्च अशक्ता गृहकर्मणि ॥
भविष्यंत्यफला यज्ञास्तथा वेदव्रतानि च
॥९०॥नियमाः संयमाः सर्वे मंत्रवादास्तथैव च ॥
तीर्थानि म्लेच्छसंस्पर्शाद्दूषितानि शतक्रतो
॥९१॥स्वस्वभावविहीनानि हीनानि च तथा जलैः ॥
कुत्सिता मंत्रवादा ये कुत्सिताश्च तपस्विनः
॥९२॥तत्र ते संभविष्यंति कुत्सिता ये च मानवाः ॥
कुलीनमपि संत्यज्य वरं रूपवयोन्वितम्
॥९३॥वित्तलोभात्प्रदास्यंति कुत्सिताय नराः सुताम् ॥
कन्यकाः प्रसविष्यंति कन्यकाः सुरतोत्सुकाः
॥९४॥कन्यकाः प्रकरिष्यंति पुरुषैः सह संगतिम् ॥
भर्तारं वंचयिष्यंति कुलीना अपि योषितः
॥९५॥सर्वकृत्येषु दुःशीलाः।
सुयत्नेनापि रक्षिताः ॥
निर्दयाश्चापि भूपालाः पीडयिष्यंति कर्षुकान्
॥९६॥पीडयिष्यंति निर्दोषान्वित्तलोभादसंशयम् ॥
वधार्हमपि संप्राप्य वित्तलोभान्मलिम्लुचम्
॥९७॥संत्यक्ष्यंति युगे तस्मिन्प्राणिद्रोहेऽपि वर्तिनम् ॥
क्षात्रधर्मं परित्यज्य करिष्यंति तथा रणम्
॥९८॥बृहस्पतिरुवाच
एतद्वः सर्वमाख्यातं युगानां लक्षणं मया ॥
प्रमाणं च सुरश्रेष्ठ चतुर्णामप्यसंशयम्
॥९९॥यश्चैतत्कीर्तयेन्मर्त्यः सदैव सुसा माहितः ॥
स नूनं मुच्यते पापादाजन्ममरणांतिकात्
॥१००॥शृणुयाद्वा नरो यश्च श्रद्धापूतेन चेतसा ॥
सोऽपि मुच्येन्न सन्देहः पापाच्च दिवसोद्भवात्
॥१०१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे हाटकेश्वरक्षेत्रमाहात्म्ये चतुर्युगस्वरूपवर्णनंनाम सप्तविंशोऽध्यायः ॥ २७ ॥