तास्तथेति प्रतिज्ञाय चक्रुस्तच्छक्रशासनम्
सूत उवाच
तास्तथेति प्रतिज्ञाय चक्रुस्तच्छक्रशासनम् ॥
सूतिकागृहधर्मे यत्तच्चक्रुस्तस्य सर्वशः
॥१॥अथान्यदिवसे बालो द्वादशार्कसमद्युतिः ॥
संजज्ञे तेन वीर्येण द्विभुजैक मुखः शुभः
॥२॥यथासौ जातमात्रस्तु प्ररुरोद सुदुःखितः ॥
तच्छ्रुत्वा रुदितं सर्वाः कृत्तिकास्तमुपागताः
॥३॥महासेनोऽपि संवीक्ष्य मातॄस्ताः समुपागताः ॥
सोत्कण्ठः षण्मुखो जातो द्वादशाक्षभुजस्तथा
॥४॥एकैकस्याः पृथक्तेन प्रपपौ प्रयतः स्तनम् ॥
द्वाभ्यामालिंगयामास भुजाभ्यां स्नेहपूर्वकम्
॥५॥एतस्मिन्नंतरे प्राप्ता ब्रह्मविष्णुशिवादयः ॥
सर्वे देवाः सहेन्द्रेण गन्धर्वाप्सरसस्तथा
॥६॥महोत्सवोऽथ संजज्ञे तस्मिन्स्थाने निरर्गलः ॥
गीतवाद्यप्रणादेन येनविश्वं प्रपूरितम्
॥७॥रंभाद्या ननृतुस्तस्य विलासिन्यो दिवौकसाम् ॥
जगुश्च मुख्यगन्धर्वा श्चित्रांगदमुखाश्च ये
॥८॥ततस्तु देवताः सर्वास्तस्य नाम प्रचक्रिरे ॥
स्कन्दनाद्रेतसो भूमौ स्कन्द इत्येव सादरम्
॥९॥अथ तस्य कुमा रस्य तदा तत्राभिषेचनम् ॥
सेनापत्यं कृतं साक्षाद्देवानां शंभुना स्वयम्
॥१०॥तस्य शक्तिः स्वयं दत्ता विधिनाऽद्भुतदर्शना ॥
अमोघा विजयार्थाय दैत्यपक्षक्षयाय च
॥११॥मयूरो वाहनार्थाय त्र्यंबकेण सुशीघ्रतः ॥
दिव्यास्त्राणि महेन्द्रेण विष्णुनाथ महात्मना
॥१२॥ततोऽभीष्टानि शस्त्राणि देवैः सर्वैः पृथक्पृथक् ॥
तस्य दत्तानि संतुष्टैस्तथा मातृगणैरपि
॥१३॥ततस्तमग्रतः कृत्वा सेनानाथं सुरेश्वराः ॥
जग्मुः ससैनिकास्तत्र तारको यत्र संस्थितः
॥१४॥तारकोऽपि समालोक्य देवान्स्वयमुपागतान् ॥
युद्धार्थं हर्षसंयुक्तः सम्मुखः सत्वरं ययौ
॥१५॥ततोऽभूत्सुमहद्युद्धं देवानां दानवैः सह ॥
कोपसंरक्तनेत्राणां मृत्युं कृत्वा निवर्तनम्
॥१६॥अथ स्कन्देन संवीक्ष्य दूरस्थं तारकं रणे ॥
समाहूय ततो मुक्ता सा शक्तिस्तस्य मृत्यवे
॥१७॥अथासौ हृदयं भित्त्वा तस्य दैत्यस्य दारुणा ॥
चमत्कारपुरोपांते पतिता रुधिरोक्षिता
॥१८॥तारकस्तु गतो नाशं मुक्तः प्राणैश्च तत्क्षणात् ॥
ततो देवगणाः सर्वे संहृष्टास्तं महाबलम्
॥१९॥स्तोत्रैर्बहुविधैः स्तुत्वा प्रोचुस्तस्मिन्हते सति ॥
गताश्च त्रिदिवं तूर्णं सह शक्रेण निर्भयाः ।
स्कन्दोऽपि तां समादाय शक्तिं तत्र पुरोत्तमे ॥
स्थापयामास येनैव रक्तशृंगोऽभवद्दृढः
॥२१॥ऋषय ऊचुः
रक्तशृंगः कथं तेन निश्चलोऽपि दृढीकृतः ॥
कस्य वाक्येन नो ब्रूहि विस्तरेण महामते
॥२२॥सूत उवाच
यदा वै भूमिकम्पस्तु संप्रजातः सुदारुणः ॥
रक्तशृङ्गः प्रचलितः स्वस्थानादतिवेगतः
॥२३॥तस्य दैत्यस्य पातेन यथान्ये पर्व तोत्तमाः ॥
अथ हर्म्याणि सर्वाणि चमत्कारपुरे तदा
॥२४॥शीर्णानि चलिते तस्मिन्पर्वते व्यथिता द्विजाः ॥
प्रायशो निधनं प्राप्तास्तथाऽन्ये मूर्छयार्दिताः
॥२५॥हतशेषास्ततो विप्रा गत्वा स्कन्दं क्रुधान्विताः ॥
प्रोचुश्च किमिदं पाप त्वया कृतमबुद्धिना
॥२६॥नाशं नीता वयं सर्वे सपुत्रपशुबाधवाः ॥
तस्माच्छापं प्रदास्यामो वयं दुःखेन दुःखिताः
॥२७॥स्कन्द उवाच
हिताय सर्वलोकानां मयैतत्समनुष्ठितम् ॥
यद्धतो दानवो रौद्रो नान्यथा द्विजसत्तमाः
॥२८॥प्रसादः क्रियतां तस्मान्मान्या मे ब्राह्मणाः सदा ॥
मृतानपि द्विजान्सर्वानहं तानमृताश्रयात्
॥२९॥पुनर्जीवितसंयुक्तान्करिष्यामि न संशयः ॥
तथा सुनिश्चलं शैलं करिष्यामि स्वशक्तितः
॥३०॥एवमुक्त्वा समादाय तां शक्तिं रुधिरोक्षिताम् ॥
चक्रे स्थापनमस्यास्तु रक्तशृङ्गस्य मूर्धनि
॥३१॥ततः प्रोवाच संहृष्टो देवतानां चतुष्टयम् ॥
आंबवृद्धां तथैवाम्रां माहित्थां च चमत्करीम्
॥३२॥युष्माभिर्निश्चलः कार्यो भूयोऽयं नगसत्तमः ॥
प्रलयेऽपि यथा स्थानाद्रक्तशृङ्गश्चलेन्नहि
॥३३॥सदैव ख्यातिमायातु मन्नाम्ना पुरमुत्तमम्
॥३२॥युष्माकं ब्राह्मणाः सर्वे पूजां दास्यंति सर्वदा
॥३४॥बाढमित्येव ताः प्रोच्य चतुर्दिक्षु ततश्च तम् ॥
शूलाग्रैः सुदृढं चक्रुः स्कन्दवाक्येन हर्षिताः ॥
ततश्चामृतमादाय मृतानपि द्विजोत्तमान् ॥
स्कन्दो जीवापयामास द्विजभक्तिपरायणः
॥३६॥ततस्ते ब्राह्मणास्तत्र संहृष्टा वरमुत्तमम् ॥
ददुस्तस्य स च प्राह मन्नामैतत्पुरोत्तमम् ॥
सदैव ख्यातिमायातु एतन्मे हृदि वांछितम्
॥३७॥ऋषय ऊचुः
एतत्स्कन्दपुरंनाम तव नाम्ना भविष्यति ॥
चमत्कारपुरं तद्वत्सांप्रतं सुरसत्तम
॥३८॥पूजां तव करिष्यामः कृत्वा प्रासादमुत्त मम् ॥
तथैव देवताः सर्वाश्चतस्रोऽपि त्वया धृताः
॥३९॥सर्वाः संपूजयिष्यामः सर्वकृत्येषु सादरम् ॥
एतां चं तावकीं शक्तिं सदा सुरवरोत्तम ॥
विशेषात्पूजयिष्यामः षष्ठ्यां श्रद्धासमन्विताः
॥४०॥सूत उवाच
एवं स ब्राह्मणैः प्रोक्तो महासेनो महाबलः ॥
स्थितस्तत्रैव तद्वा क्याज्ज्ञात्वा तत्क्षेत्रमुत्तमम्
॥४१॥यस्तं पूजयते भक्त्या चैत्रषष्ठ्यां सुभावतः ॥
शुक्लायां तस्य संतुष्टिं कुरुते बर्हिवाहनः
॥४२॥तस्यां शक्तौ नरो यश्च कुर्यात्पृष्ठिनिघर्षणम् ॥
पूजयित्वा तु पुष्पाद्यैः सम्यक्छ्रद्धासमन्वितः ॥
स न स्याद्रोगसंयुक्तो यावत्संवत्सरं द्विजाः
॥४३॥एवं तत्र धृता शक्तिस्तेन स्कन्देन धीमता ॥
रक्तशृंगस्य रक्षार्थं तत्पुरस्य विशेषतः
॥४४॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये स्कन्दस्थापितशक्तिमाहात्म्यवर्णनंनामैकसप्ततितमोऽध्यायः ॥ ७१ ॥