मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १६२

3
नागरखण्डः · 162

पुरश्चरणसप्तमीव्रतविधानवर्णनम्

सूत उवाच

एवं नाम्नि कृते तस्य भास्करस्यांशुमालिनः ॥

द्विजानां पुरतः पुष्पः कथयामास चेष्टितम्

॥१॥

आत्मीयं कुत्सितं तेषां मणिभद्रवधो यथा ॥

विहितो विहिता पत्नी तस्य व्याजेन कृत्स्नशः

॥२॥

ततस्ते ब्राह्मणाः प्रोचुस्तच्छ्रुत्वा कोपसंयुताः ॥

सीत्कारान्प्रचुरान्कृत्वा धिक्त्वां पाप प्रगम्यताम्

॥३॥

आत्मीयं हेम चादाय न ते शुद्धिर्भविष्यति

॥४॥

ब्रह्मघ्नस्त्वं यतः प्रोक्तास्त्रयो वर्णा द्विजोत्तमाः ॥

ब्राह्मणः क्षत्रियो वैश्यः स्मृतिशास्त्रप्रपाठकैः

॥५॥

सूत उवाच

ततस्तु दुःखितः पुष्पो बाष्पसंपूरितेक्षणः ॥

ब्रह्मस्थानाद्विनिर्गत्य प्ररुरोद सुदुःखितः

॥६॥

रोरूयमाणमालोक्य ततस्ते नागरा द्विजाः ॥

दयां च महतीं कृत्वा ततः प्रोचुः परस्परम्

॥७॥

नानाविधानि शास्त्राणि स्मृतयश्च पृथग्विधाः ॥

पुराणानि समस्तानि वीक्षध्वं सुसमाहिताः

॥८॥

कुत्रचित्क्वचिदेवास्य कथंचिच्छुद्धिरस्ति चेत् ॥

न तच्च विद्यते शास्त्रमस्मिन्स्थाने न चास्ति यत्

॥९॥

न स्मृतिर्न पुराणं च वेदांतं वा द्विजोत्तमाः ॥

न चास्ति ब्राह्मणः सोऽत्र सर्वज्ञप्रतिमो न यः

॥१०॥

तस्माच्चिन्तयत क्षिप्रमस्य शुद्धिप्रदं हि यत् ॥

तच्च प्रमाणतां नीत्वा शुद्धिरस्य प्रदीयते

॥११॥

अथैको ब्राह्मणः प्राह चंडशर्मेति विश्रुतः ॥

मया स्कांदपुराणेऽस्मिन्पुरश्चरणसंश्रिता

॥१२॥

पठिता सप्तमी या च पुरश्चरणसंज्ञिता ॥

पुरश्चरणतः पापं विहितं तु यथा व्रजेत्

॥१३॥

सम्यक्तथापि विप्रेंद्रास्ततो याति न संशयः ॥

तस्मात्करोतु तामेष पुरश्चरणसप्तमीम्

॥१४॥

अपरं भूभुजादेशान्मणिभद्रो निपातितः ॥

वधकैस्तस्य तत्पापं यदि पापं प्रजायते

॥१५॥

राजा भूत्वा न यः सम्यग्विचारयति वादिनम् ॥

तस्य तत्पातकं घोरं राज्ञश्चैव प्रजायते

॥१६॥

तथास्य पत्न्यास्तत्पापं जानंत्या यत्तयोदितम् ॥

मत्पित्रा ब्राह्मणैर्दत्तोऽयं पुरा वह्निसंनिधौ

॥१७॥

विडंबितेन चानेन कृतप्रतिकृतं कृतम् ॥

तस्मान्न चास्य दोषः स्याद्यतः प्रोक्तं मुनीश्वरैः

॥१८॥

कृते प्रतिकृतं कुर्याद्धिंसने प्रतिहिंसनम् ॥

न तत्र जायते दोषो यो दुष्टे दुष्टमाचरेत्

॥१९॥

ब्राह्मणा ऊचुः

यद्येवं वद विप्रास्य पुरश्चरणसंज्ञिताम् ॥

सप्तमीमद्य विप्रेंद्र वराकस्य विशुद्धये

॥२०॥

सूत उवाच

अथास्य कथयामास सप्तमीं तां द्विजोत्तमाः ॥

चंडशर्माभिधानस्तु कृत्वा तस्योपरि कृपाम्

॥२१॥

तेनापि विहिता सम्यग्यथा तस्य मुखाच्छ्रुता ॥

ततः संवत्सरस्यांते विपाप्मा समपद्यत

॥२२॥

ऋषय ऊचुः

पुरश्चरणसंज्ञां तु सप्तमीं वद सूतज ॥

विधिना केन कर्तव्या कस्मिन्काल उपस्थिते

॥२३॥

सूत उवाच

अहं वः कीर्तयिष्यामि रोहिताश्वस्य भूपतेः ॥

मार्कंडेन पुरा प्रोक्ता पृच्छयमानेन भक्तितः

॥२४॥

सप्तकल्पस्मरो विप्रा मार्कंडाख्यो महामुनिः ॥

रोहिताश्वेन पृष्टः स हरिश्चंद्रात्मजेन च

॥२५॥

रोहिताश्व उवाच

अज्ञानाज्ज्ञानतो वापि यत्पापं कुरुते नरः ॥

उपायं तस्य नाशाय किंचिन्मे वद सन्मुने

॥२६॥

मार्कंडेय उवाच

मानसं वाचिकं चैव कायिकं च तृतीयकम् ॥

त्रिविधं पातकं लोके नराणामिह जायते

॥२७॥

तत्रोपाया विनाशाय तस्य संपरिकीर्तिताः ॥

तानहं ते प्रवक्ष्यामि शृणुष्व नृपसत्तम

॥२८॥

मानसं चैव यत्पापं नराणामिह जायते ॥

पश्चात्तापे कृते तस्य तत्क्षणादेव नश्यति

॥२९॥

वाचिकं चैव यत्पापं नाभुक्त्वा तत्प्रणश्यति ॥

पुरश्चरणबाह्यं तु सत्यमेतन्मयोदितम्

॥३०॥

निवेद्य ब्राह्मणेंद्राणां तदुक्तं च समाचरेत् ॥

प्रायश्चित्तं यथोक्तं तु ततः शुद्धिमवाप्नुयात्

॥३१॥

अथवा पार्थिवो ज्ञात्वा कुरुते तस्य निग्र हम् ॥

तेन शुद्धिमवाप्रोति यद्यपि स्यात्स किल्विषी

॥३२॥

लज्जया ब्राह्मणेंद्राणां यो न ब्रूते कथंचन ॥

न च राजा विजानाति शरीरस्थेन यो म्रियेत् ॥

तस्य निग्रहकर्ता च स्वयं वैवस्वतो यमः

॥३३॥

तस्मात्सर्वप्रयत्नेन कृत्वा पापं विजानता ॥

प्रायश्चित्तं तु कर्तव्यं यथोक्तं ब्राह्मणो दितम्

॥३४॥

रोहिताश्व उवाच

सर्वेषामेव पापानां विहितानां मुनीश्वर ॥

किंचिद्व्रतं समाचक्ष्व दानं वा होममेव वा ॥

विपाप्मा जायते येन पुरश्चरणवर्जितम्

॥३५॥

नित्यं पापानि कुरुते नरः सूक्ष्माणि सर्वतः ॥

प्रायश्चित्तानि सर्वेषां कर्तुं शक्तिः कथं भवेत्

॥३६॥

मार्कंडेय उवाच

अस्ति राजन्व्रतं पुण्यं पुरश्चरणसंज्ञितम् ॥

पुरश्चरणसंज्ञा तु सप्तमी सूर्यवल्लभा

॥३७॥

यया संचीर्णया राज न्कायस्थो यमसंभवः ॥

विचित्रो मार्जयेत्पापं कृतं जन्मनि संचितम्

॥३८॥

तस्मात्कुरु महाराज तथाशु वचनं मम ॥

येन वा मुच्यते पापा त्सर्वस्मात्कायसंभवात्

॥३९॥

रोहिताश्व उवाच

पुरश्चरणसंज्ञा तु सप्तमी मुनिसत्तम ॥

विधिना केन कर्तव्या कस्मिन्काले वद स्व मे

॥४०॥

मार्कंडेय उवाच

माघमासे सिते पक्षे मकरस्थे दिवाकरे ॥

सूर्यवारेण सप्तम्यां व्रतमेतत्समाचरेत्

॥४१॥

पाखंडैः पतितैः सार्धं तस्मिन्नहनि नालपेत् ॥

भक्षयित्वा नृपश्रेष्ठ प्रभाते दन्तधावनम् ॥

मंत्रेणानेन पश्चाच्च कर्तव्यो नियमो नृप

॥४२॥

पुरश्चरणकृत्यायां सप्तम्यां दिवसाधिप ॥

उपवासं करिष्यामि अद्य त्वं शरणं मम

॥४३॥

ततोऽपराह्णसमये स्नात्वा धौतांबरः शुचिः ॥

प्रतिमां पूजयेद्भक्त्या दिनाधिपसमुद्भवाम्

॥४४॥

रक्तैः पुष्पैर्महावीर पादाद्यं पूजयेत्ततः ॥

पतंगाय नमः पादौ मार्तंडायेति जानुनी

॥४५॥

गुह्यं दिवसनाथाय नाभिं द्वादश मूर्तये ॥

बाहू च पद्महस्ताय हृदयं तीक्ष्णदीधिते

॥४६॥

कंठं पद्मदलाभाय शिरस्तेजोमयाय च ॥

एवं संपूज्य विधिवद्धूपं कर्पूरमाददेत्

॥४७॥

गुडौदनं च नैवेद्यं रक्तवस्त्राभिवेष्टितम् ॥

रक्तसूत्रेण दीपं च तथैवारार्तिकं नृप

॥४८॥

शंखे तोयं समादाय रक्तचन्दनमिश्रितम् ॥

सफलं च ततः कृत्वा अर्घ्यं दद्यात्ततः परम्

॥४९॥

कुकृतं यत्कृतं किंचिदज्ञानाज्ज्ञानतोऽपि वा ॥

प्रायश्चित्तं कृतं देव ममार्घ्यश्च प्रगृह्यताम्

॥५०॥

ततः संपूजयद्विप्रं गन्धपुष्पानुलेपनैः ॥

दत्त्वा तु भोजनं तस्मै दक्षिणां च स्वशक्तितः ॥

प्राशनं कायशुद्ध्यर्थं पञ्चगव्यस्य चाचरेत्

॥५१॥

कृतांजलिपुटो भूत्वा समुद्वीक्ष्य दिवाकरम् ॥

दिवाकरं गतश्चैव मन्त्रमेतं समुच्चरेत्

॥५२॥

इदं व्रतं मया देव गृहीतं पुरतस्तव ॥

अविघ्नं सिद्धिमायातु प्रसादात्तव भास्कर

॥५३॥

ततश्च फाल्गुने मासि संप्राप्ते मुनिसत्तम ॥

कुन्देन पूजयेद्देवं तेनैव विधिना ततः

॥५४॥

धूपं च गुग्गुलुं दद्यान्नैवेद्यं भक्तमेव च ॥

प्राशनं गोमयं प्रोक्तं सर्वपापविशुद्धये

॥५५॥

चैत्रे मासि तु संप्राप्ते सुरभ्या पूज्येद्धरिम् ॥

नैवेद्यं गुणिकाः प्रोक्ता धूपं सर्जरसोद्भवम्

॥५६॥

कुशोदकं च संप्राश्य कायशुद्धिमवाप्नुयात् ॥

वैशाखे किंशुकैः पूजां यथावच्च घृताशनैः

॥५७॥

नैवेद्यं च सुरामांसं धूपं च विनिवेदयेत् ॥

दधिप्राशनमेवात्र कर्तव्यं कायशुद्धये

॥५८॥

पुष्पपाटलया पूजा विधातव्या रवेर्नृप ॥

नैवेद्ये सक्तवः प्रोक्ताः प्राशनं च घृतं स्मृतम्

॥५९॥

कपिलाया महावीर सर्वपापविशुद्धये ॥

आषाढे मुनिपुष्पैश्च पूजयेद्भास्करं नृप

॥६०॥

नैवेद्ये घारिका प्रोक्ता प्राशनं मधुसर्पिषोः ॥

धूपं चैवागरुं दद्यात्परया श्रद्धया युतः

॥६१॥

श्रावणे तु कदंबेन पूजनं तीक्ष्णदीधितेः ॥

नैवेद्ये मोदकाश्चैव तगरं धूप माददेत्

॥६२॥

गोशृंगोदकमादाय सद्यः पापात्प्रमुच्यते ॥

जात्या भाद्रपदे पूजा क्षीरनैवेद्यमाददेत्

॥६३॥

धूपं नखसमुद्भूतं प्राशनं क्षीरमेव च ॥

आश्विने कमलैः पूजा नैवेद्ये घृतपूरिका

॥६४॥

धूपं कुंकुमजं प्रोक्तं कर्पूरप्राशनं स्मृतम्

॥६५॥

तुलस्या कार्तिके पूजा भास्करस्य प्रकीर्तिता ॥

नैवेद्ये चैव खंडाख्यं धूपं कौसुंभिकं नृप

॥६६॥

प्राशनं च लवंगाख्यं सर्वपापविशोधनम् ॥

भृंगराजेन पूजा च सौम्ये मासि समाचरेत्

॥६७॥

नैवेद्ये फेणिका देया धूपं गुडसमुद्भवम् ॥

कंकोलप्राशनं चैव भास्करस्य प्रतुष्टये

॥६८॥

शतपत्रिकया पूजा पौषे मासि रवेः स्मृता ॥

सहजं धूपमादिष्टं नैवेद्ये शुष्कली तथा

॥६९॥

प्राशने पूर्वमुक्तानि सर्वाण्येव समाचरेत् ॥

समाप्तौ च ततो दद्यात्षड्भागं गृहसंभवम्

॥७०॥

ब्राह्मणाय नृपश्रेष्ठ सर्वपापविशुद्धये ॥

इष्टभोज्यं ततः कार्यं स्वशक्त्या पार्थिवोत्तम

॥७१॥

एवं तु कुरुते योऽत्र सप्तमीं भास्करोद्भवाम् ॥

सर्वपापविनिर्मुक्तो निर्मलत्वं स गच्छति

॥७२॥

ब्राह्मणा ऊचुः

एवं पुरा वै कथिता रोहिताश्वाय धीमते ॥

मार्कंडेन महाभाग तस्मात्त्वमपि तां कुरु

॥७३॥

येन संजायते सम्यक्पुरश्चरणमेव ते

॥७४॥

सूत उवाच

तस्य तद्वचनं श्रुत्वा पुष्पोऽपि द्विजसत्तमाः ॥

तां चक्रे सप्तमीं हृष्टो यथा तेन निवेदिता

॥७५॥

षड्भागं प्रददौ तस्मै ब्राह्मणाय महात्मने ॥

स्ववित्तस्य गृहस्थस्य कुप्याकुप्यस्य कृत्स्नशः

॥७६॥

सोऽपि जग्राह तद्वित्तं प्रहृष्टेनांतरात्मना ॥

सुवर्णमणि रत्नानि संख्यया परिवर्जितम्

॥७७॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये पुरश्चरणसप्तमीव्रतविधानवर्णनंनाम द्विषष्ट्युत्तरशततमोऽध्यायः ॥ १६२ ॥