मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ७४

3
नागरखण्डः · 74

प्रतिष्ठावृत्तांतवर्णनम्

सूत उवाच

धृतराष्ट्रेण भूपेन शतपुत्रान्वितेन च ॥

लिंगानां स्थापितं तत्र शतमेकोत्तरं द्विजाः

॥१॥

तथा च पांडवैः सर्वैः स्थापितं लिंगपंचकम् ॥

द्रौपद्या चाऽथ कुन्त्याऽथ गांधार्याऽथ यदृच्छया

॥२॥

भानुमत्या च गौरीणां स्थापितं च चतुष्टयम् ॥

विदुरेणाथ शल्येन कलिं गेन युयुत्सुना

॥३॥

बाह्लीकेन सपुत्रेण कर्णेनाथ ससूनुना ॥

तथा शकुनिना तत्र द्रोणेन च कृपेण च

॥४॥

अश्वत्थाम्ना पृथक्त्वेन लिङ्गमेकैकमुत्तमम् ॥

स्थापितं परया भक्त्या वरप्रासादमाश्रितम्

॥५॥

तथा संस्थापितं तत्र विष्णुना प्रभविष्णुना ॥

लिंगं प्रासादमाधाय प्रोत्तुंगशिखरान्वितम्

॥६॥

सात्वतेनापि सांबेन बलभद्रेण धीमता ॥

प्रद्युमेनानिरुद्धेन तथान्यैर्मुख्ययादवैः

॥७॥

चारुदेष्णादिभिः पुत्रै रुक्मिण्या दशभिः सुतैः ॥

लिंगानां दशकं मुख्यं स्थापितं श्रद्धयान्वितैः

॥८॥

एवं संस्थाप्य लिङ्गानि ते सर्वे कुरुपांडवाः ॥

यादवाश्च सुसंहृष्टा कृतकृत्यास्तदा।

ऽभवन्

॥९॥

तत्र स्थित्वा चिरं कालं दत्त्वा दानान्यनेकशः ॥

धनाढ्यान्ब्राह्मणान्कृत्वा चमत्कारपुरोद्भवान्

॥१०॥

दत्त्वा तेभ्यो वरान्नागान्ह याञ्जात्याननेकशः ॥

सद्ग्रामाणि विचित्राणि क्षेत्राणि च सुधेनवः

॥११॥

महोक्षांश्च सुवस्त्राणि भूस्थानान्याश्रयांस्तथा ॥

दासीदासांस्तथा भृत्यान्दानानि विविधानि च

॥१२॥

तत आमन्त्र्य तान्सर्वान्प्रणिपत्य मुहुर्मुहुः ॥

स्वस्थानं प्रति संहृष्टाः प्रजग्मुः सर्व एव ते

॥१३॥

सूत उवाच

एतद्वः सर्वमाख्यातं स्थापितं तेन भूभुजा ॥

तथा तद्धृतराष्ट्रेण लिंगं पातकनाशनम्

॥१४॥

तथान्यैरपि भूपालैः प्राधान्येन व्यवस्थितैः ॥

पाण्डवैर्यादवैश्चैव पृथक्त्वेन व्यवस्थितैः

॥५॥

यस्तानि पुरुषः सम्यक्पूजयेद्भक्तिभावितः ॥

स लभेच्चाखिलान्कामान्वांछितान्स्वेन चेतसा

॥१६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठेनागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये कौरवपाण्डवयादवकृतलिंग प्रतिष्ठावृत्तांतवर्णनंनाम चतुःसप्ततितमोऽध्यायः ॥ ७४ ॥