शर्मिष्ठातीर्थमाहात्म्यवर्णनम्
सूत उवाच
एवं स निश्चयं कृत्वा पार्थिवो द्विजसत्तमाः ॥
नात्यजत्तां तथोक्तोऽपि दैवज्ञैर्विषकन्यकाम् ॥
दीयमानामपि प्रीत्या न च गृह्णाति भूभुजा
॥१॥शर्मणष्ठीवनं यस्मात्तया स्वपितुराहितम् ॥
शर्मिष्ठेति सुविख्याता ततः सा ह्यभवद्भुवि
॥२॥एतस्मिन्नंतरे तस्य शत्रवः पृथिवीपतेः ॥
सर्वतः पीडयामास राष्ट्रं क्रोधसमन्विताः
॥३॥अथा सौ पार्थिवः क्रुद्धः स्वसैन्यपरिवारितः ॥
युद्धाय निर्ययौ स्थानान्मृत्युं कृत्वा निवर्तने
॥४॥ततः संप्राप्य ताञ्छत्रूंश्चकार स महाहवम् ॥
चतुरंगेन सैन्येन यमराष्ट्रविवर्धनम्
॥५॥ततश्च दशमे प्राप्ते शत्रुभिः स महीपतिः ॥
निहतो दिवसे सर्वैर्वेष्टयित्वा समन्ततः
॥६॥ततस्तस्य नरेन्द्रस्य हतशेषाश्च ये नराः ॥
भयार्तास्ते द्रुतं जग्मुः स्वपुरं प्रति दुःखिताः
॥७॥तेपि शत्रुगणाः सर्वे संप्रहृष्टा जिगीषवः ॥
तत्पुरं वेष्टयामासुस्तत्पुत्रोच्छेदनाय वै
॥८॥एतस्मिन्नंतरे पौराः सर्वे शोकपरायणाः ॥
जगर्हुः परुषैर्वाक्यैर्दुष्टां तां विषकन्यकाम्
॥९॥अस्या दोषेण पापाया मृतश्च स महीपतिः ॥
तथा राष्ट्रस्य विध्वंसे भविष्यति पुरः क्षयः
॥१०॥उक्तः स नृपतिः पूर्वं ब्राह्मणैर्ज्ञानिभिस्तदा ॥
त्यजैनां बहुदोषाढ्यां निन्दितां विषकन्यकाम् ॥
न तेन तत्कृतं वाक्यमपि तेषां हितैषिणाम् ॥
स्नेहपाशनिबद्धेन दयाढ्येन महात्मना
॥२॥तस्मादद्यापि पापैषा वध्यतामाशु कन्यका ॥
निर्यास्यतां पुरादस्माद्यावन्न स्यात्पुरक्षयः
॥१३॥सूत उवाच
सापि श्रुत्वा जनोक्तांस्तानपवादान्पृथग्विधान् ॥
वैराग्यं परमं गत्वा निंदां चक्रे तथात्मनः
॥१४॥ततो रात्रौ विनिष्क्रम्य भयशोकसमन्विता ॥
प्रतस्थेऽरण्यमासाद्य मरणे कृतनिश्चया
॥५॥अथ दृष्टं तया क्षेत्रं हाटकेश्वरजं महत् ॥
तपस्विभिः समाकीर्णं चित्ताह्लादकरं परम्
॥१६॥अथ तस्याः स्मृतिर्जाता पूर्वजन्मसमुद्भवा ॥
चंडालत्वे मया पूर्वं गौरेका वितृषीकृता
॥१७॥तत्प्रभावादहं जाता सुपुण्ये नृपमंदिरे ॥
क्षेत्रस्यास्य प्रभावेन तस्मादत्रैव मे स्थितिः
॥१८॥सूत उवाच
अन्यदेहांतरे ह्यासीच्चंडाली सा विगर्हिता ॥
बहुप्रसूतिसंयुक्ता दरिद्रेण कदर्थिता
॥१९॥अथ सा भ्रममाणाऽत्र क्षेत्रे प्राप्ता तृषार्दिता ॥
मध्यंदिनगतेसूर्ये ज्येष्ठमासे सुदारुणे
॥२०॥अथापश्यत्स्तोकजलां सा तत्र लघुकूपिकाम् ॥
तृषार्तां कपिलां गां वर्तमानां तदां तिके
॥२१॥ततो दयां समाश्रित्य त्यक्त्वा स्नेहं सुतोद्भवम् ॥
आत्मनश्च तथा प्राणान्गां वितृष्णामथाकरोत्
॥२२॥जलाभावे तथा सा च समस्तैर्बालकैः सह ॥
वैवस्वतगृहं प्राप्ता गोभक्तिधृतमानसा
॥२३॥ततो नृपगृहे जाता तत्प्रभावाद्द्विजोत्तमाः ॥
पूर्वकर्मविपाकेन संजाता विष कन्यका
॥२४॥ऋषय ऊचुः
केन कर्मविपाकेन संजाता विषकन्यका ॥
स्वकुलोच्छेदनकरी सर्वं सूत ब्रवीहि नः
॥२५॥सूत उवाच
चंडालत्वे तया विप्रा वर्तंत्या भ्रममाणया ॥
देवतायतने दृष्टा गौरी हेममयी शुभा
॥२६॥ततस्तां विजने प्राप्य गत्वा देशांतरं मुदा ॥
यावत्करोति खंडानि विक्रयार्थं सुनिंदिता ॥
तावदन्वेषमाणास्तां संप्राप्ता नृपसेवकाः
॥२७॥अथ ते तां समालोक्य भर्त्सयित्वा मुहुर्मुहुः ॥
संताड्य लकुटाघातैर्लोष्टघातैश्च मुष्टिभिः
॥२८॥ततः सुवर्णमादाय त्यक्त्वा तां रुधिरप्लुताम् ॥
अवध्यैषेति संचिंत्य स्वपुरं प्रति ते गताः
॥२९॥यत्तया पार्वती स्पृष्टा ततो वै खण्डशः कृता ॥
तेन कर्मविपाकेन संजाता विषकन्यका
॥३०॥ततः संस्मृतिमासाद्य पूर्वजन्मसमुद्भवाम् ॥
माहात्म्यं जलदानस्य गोपीतस्य विचार्य च ॥
चकार कूपिकास्थाने तडागं विमलोदकम्
॥३॥समुद्रप्रतिमं चारु पद्मिनीखंडमंडितम् ॥
मत्स्यकच्छपसंकीर्णं शिशुमारविराजितम्
॥३२॥सेवितं बहुभिर्हंसैर्बकैश्चक्रैः समंततः ॥
अगाधसलिलं पुण्यं सेवितं जलजंतुभिः
॥३३॥प्रासादं तत्समीपस्थं साधु दृष्टिमनोहरम् ॥
कारयित्वातिसंभक्त्या कैलासशिखरोपमम्
॥३४॥ततस्तत्र तपस्तेपे गौरीं संस्थाप्य भक्तितः ॥
तदग्रे व्रतमास्थाय यथोक्तं शास्त्र संभवम्
॥३५॥प्रातः स्नात्वा तु हेमंते गौरीं संपूज्य भक्तितः ॥
बलिपूजोपहारैश्च विप्रदानादिभिस्तथा
॥३६॥ततश्च शिशिरे प्राप्ते सायं प्रातः समाहिता ॥
एकांतरोपवासैः सा स्नानं चक्रे नृपात्मजा
॥३७॥वसंते नृत्यगीतैश्च तोषयामास पार्वतीम् ॥
षष्ठकालाशना साध्वी सस्यदानपरा यणा
॥३८॥पञ्चाग्निसाधका ग्रीष्मे फलाहारं तपस्विनी ॥
चकार श्रद्धयोपेता वृकभूमिपतेः सुता
॥३९॥वर्षासु च जलाहारा भूत्वा सा विष कन्यका ॥
आकाशे शयनं चक्रे परित्यक्तकुटीरका
॥४०॥वायुभक्षा सती चाऽथ साऽनयच्छरदं ततः ॥
कृतजप्यपरा नित्यं पार्वतीगतमानसा
॥४॥एवमाराधयंत्याश्च तस्या देवीं गिरेः सुताम् ॥
जगाम सुमहान्कालो न लेभे फलमीहितम्
॥४२॥मुखं वलिभिराक्रान्तं पलितैरंकितं शिरः ॥
कन्याभावेपि वर्तंत्या न च तुष्टा हरप्रिया
॥४३॥कस्यचित्त्वथ कालस्य तत्परीक्षार्थमेव सा ॥
शक्राणीरूपमास्थाय ततः सन्दर्शनं गता
॥४४॥सुधावदातं सूर्याभं कैलासशिखरोपमम् ॥
सुप्रलंबकरं मत्तं चतुर्दंतं महागजम्
॥४५॥समास्थाय वृता स्त्रीभिर्देवानां सर्वतो दिशम् ॥
दधती मुकुटं मूर्ध्नि हारकेयूरभूषिता
॥४६॥पांडुरेणातपत्रेण ध्रियमाणेन मूर्धनि ॥
सेव्यमानाऽप्सरोभिश्च स्तूयमाना च किन्नरैः
॥४७॥गन्धर्वैर्गीयमानासीत्ततः प्रोवाच सादरम् ॥
वरं यच्छामि ते पुत्रि प्रार्थयस्व यथेप्सितम्
॥४८॥अनेन तपसा तुष्टा पुष्कलेन तवाधुना ॥
अहं भार्या सुरेन्द्रस्य शचीति परिकीर्तिता ॥
त्रैलोक्येऽपि स्वयं प्राप्ता दयां कृत्वा तवोपरि
॥४९॥त्वया महत्तपस्तप्तं ध्यायंत्या हरवल्लभाम् ॥
तपसा तुष्टिमायाता भवानी न सुनिष्ठुरा
॥५०॥सूत उवाच
सा तस्या वचनं श्रुत्वा शक्राण्या विषकन्यका ॥
नमस्कृत्वाऽथ तामूचे कृतांजलिपुटा स्थिता
॥५१॥विषकन्योवाच
नाहं त्वत्तो वरं देवि प्रार्थयामि कथञ्चन ॥
तथान्यासामपींद्राणि देवतानामसंशयम्
॥५२॥अप्यहं नरकं रौद्रं प्रगच्छामींद्रवल्लभे ॥
हरकांता समादेशान्न स्वर्गेऽपि तवाज्ञया
॥५३॥अनादिमध्यपर्य्यन्ता ज्ञानैश्वर्यसम न्विता ॥
या देवी पूज्यते देवैर्वरं तस्या वृणोम्यहम्
॥५४॥यामाराधयते विष्णुर्ब्रह्मा रुद्रश्च वासवः ॥
वांछितार्थं सदा देवीं वरं तस्या वृणो म्यहम्
॥५५॥यया व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम् ॥
स्त्रीरूपैर्विविधैर्देव्या वरं तस्या वृणोम्यहम्
॥५६॥श्रीदेव्युवाच
अहं भार्या सुरेन्द्रस्य प्राणेभ्योऽपि गरीयसी ॥
ममाज्ञां पालयन्ति स्म देवदानवपन्नगाः
॥५७॥किंनरा गुह्का यक्षाः किं पुनर्मर्त्यधर्मिणः ॥
तस्मात्त्वं किं न गृह्णासि वरं मत्तः कुतापसि
॥५८॥तन्नूनं वज्रघातेन चूर्णयिष्यामि ते शिरः ॥
तस्यास्तद्वचनं श्रुत्वा तापस्यथ ततो द्विजाः
॥५९॥धैर्यमालंब्य तां प्राह भूय एव सुरेश्वरीम् ॥
स्वामिनी त्वं हि देवानां सत्यमेतदसंशयम्
॥६०॥यस्याः प्राप्तं त्वयैश्वर्यं परा तां तोषयाम्यहम् ॥
स्वल्पमप्यपराधं ते न करोमि सुरेश्वरि
॥६१॥तथापि वधयोग्यां मां मन्यसे विक्षिपायुधम् ॥
अन्यच्चापि वचो मह्यं शक्राणि शृणु सादरम्
॥६२॥तच्छुत्वा कुरु यच्छ्रेयो विचिन्त्य मनसा ततः ॥
न त्वं न ते पतिः शक्रो न चान्येपि सुरासुराः ॥
मां निषूदयितुं शक्ताः पार्वत्यां शरणं गताम्
॥६३॥तस्माद्द्रुतं दिवं गच्छ मा त्वं कोपं वृथा कुरु ॥
सन्मार्गे वर्तमानायां मम सर्वसुरेश्वरि
॥६४॥सूत उवाच
एवं सा तां शचीमुक्त्वा दुःखिता विषकन्यका ॥
चिन्तयामास तदिदं मरणे कृतनिश्चया
॥६५॥न प्रसीदति मे देवी यस्मात्पर्वतनंदिनी ॥
तस्मान्मां यदि शक्राणी नैषा व्यापादयिष्यति
॥६६॥तन्नूनं ज्वलनं दीप्तं सेवयिष्यामि सत्वरम् ॥
अथापश्यत्क्षणेनैव तं चैरावणवारणम्
॥६७॥दुग्धकुंदेन्दुसंकाशं संजातं सहसा वृषम् ॥
तस्योपरि स्थितां देवीं शंभुना सह पार्वतीम्
॥६८॥चतुर्भुजां प्रसन्नास्यां दिव्यरूपसमन्विताम् ॥
शुक्लमाल्यांबरधरां चन्द्रार्धकृतमस्तकाम्
॥६९॥ततः सम्यक्समालोक्य ज्ञात्वा तां पर्वतात्मजाम् ॥
विषकन्या स्तुतिं चक्रे प्रणिपत्य मुहुर्मुहुः
॥७०॥नमस्ते देवदेवेशि नमस्ते सर्ववासिनि ॥
सर्वकामप्रदे सत्ये जरामरणवर्जिते
॥७१॥शक्रादयोऽपि देवास्ते परमार्थेन नो विदुः ॥
स्वरूपवर्णनं कर्तुं किं पुनर्देवि मानुषी
॥७२॥यस्याः सर्वं महीव्योमजलाग्निपवनात्मकम् ॥
ब्रह्मांडमंगसंभूतं सदेवासुरमानुषम्
॥७३॥न तस्या जन्मनि ब्रह्मा न नाशाय महेश्वरः ॥
पालनाय न गोविंदस्तां त्वां स्तोष्याम्यहं कथम्
॥७४॥तथाष्टगुणमैश्वर्यं यस्याः स्वाभाविकं परम् ॥
निरस्तातिशयं लोके स्पृहणीयतमं सदा
॥७५॥यस्या रूपाण्यनेकानि सम्यग्ध्यानपरायणाः ॥
ध्यायंति मुनयो भक्त्या प्राप्नुवंति च वांछितम्
॥७६॥हृदि संकल्प्य यद्रूपं ध्यानेनार्चंति योगिनः ॥
सम्यग्भावात्मकैः पुष्पैर्मोक्षाय कृत निश्चयाः
॥७७॥तां देवीं मानुषी भूत्वा कथं स्तौमि महेश्वरीम्
॥७८॥देव्युवाच
परितुष्टास्मि ते पुत्रि वरं प्रार्थय सुव्रते ॥
असंदिग्धं प्रदास्यामि यत्ते हृदि सदा स्थितम्
॥७९॥विषकन्योवाच
भर्तुरर्थे मया देवि कृतोऽयं तपउद्यमः ॥
तत्किं तेन करिष्यामि सांप्रतं जरयावृता
॥८०॥तस्मादत्राऽऽश्रमे साकं त्वया स्थेयं सदैव तु ॥
हिताय सर्वनारीणां वचनान्मम पार्वति
॥८१॥श्रीदेव्युवाच
अद्यप्रभृत्यहं भद्रे श्रेष्ठेऽस्मिन्नाश्रमे शुभे ॥
स्वमाश्रमं करिष्यामि यत्ते हृदि समाश्रितम्
॥८२॥माघशुक्लतृतीयायां या ऽत्र स्नानं करिष्यति ॥
नारी सा मत्प्रसादेन लप्स्यते वांछितं फलम्
॥८३॥अपि कृत्वा महापापं नारी वा पुरुषोऽथवा ॥
यत्र स्नात्वा प्रसादान्मे विपाप्मा संभविष्यति
॥८४॥अत्र ये फलदानं च प्रकरिष्यंति मानवाः ॥
सफलाः सकलास्तेषामाशाः स्युर्नात्र संशयः
॥८५॥अपि हत्वा स्त्रियं मर्त्यो योऽत्र स्नानं करिष्यति ॥
माघशुक्लतृतीयायां विपाप्मा स भविष्यति
॥८६॥या तत्र कन्यका भद्रे स्नानं भक्त्या करि ष्यति ॥
तस्मिन्दिने पतिश्रेष्ठं लप्स्यते नात्र संशयः
॥८७॥सूत उवाच
एवमुक्त्वा ततो गौरी तां च पस्पर्श पाणिना ॥
ततश्च तत्क्षणाज्जाता दिव्यरूपवपुर्द्धरा
॥८८॥वृद्धत्वेन परित्यक्ता दिव्यमाल्यानुलेपना ॥
पीनोन्नतकुचाभोगा प्रमत्तगजगामिनी
॥८९॥ततस्तां सा समादाय विधाय निजकिंकरीम् ॥
कैलासं पर्वतश्रेष्ठं जगाम हरसंयुता
॥९०॥ततःप्रभृति तत्तीर्थं शर्मिष्ठातीर्थमुच्यते ॥
प्रख्यातं त्रिषु लोकेषु सर्वपातकनाशनम्
॥९१॥तस्मात्सर्वप्रयत्नेन तत्र स्नानं समाचरेत् ॥
माघशुक्लतृतीयायां यथावद्द्विजसत्तमाः
॥९२॥एतत्पवित्रमायुष्यं सर्व पातकनाशनम् ॥
स्त्रीतीर्थसंभवं नॄणां माहात्म्यं यन्मयोदितम्
॥९३॥यश्चैतत्प्रातरुत्थाय सदा पठति मानवः ॥
स सर्वाँल्लभते कामान्मनसा वांछितान्सदा
॥९४॥तथा पर्वणि संप्राप्ते यश्चैतत्पठते नरः ॥
शृणोति चाशु भक्त्या यः स याति शिवमंदिरम्
॥९५॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये शर्मिष्ठातीर्थमाहात्म्यवर्णनंनाम द्विषष्टितमोऽध्यायः ॥ ६२ ॥