मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १५८

3
नागरखण्डः · 158

पुष्पोऽपि गुटिके लब्ध्वा भास्कराद्वारितस्करात्

सूत उवाच

पुष्पोऽपि गुटिके लब्ध्वा भास्कराद्वारितस्करात् ॥

चिराद्भोजनमासाद्य प्रस्थितो वैदिशं प्रति

॥१॥

ततो वैदिशमासाद्य स पुष्पो हृष्टमानसः ॥

शुक्ला तां गुटिकां वक्त्रे चकारद्विजसत्तमाः

॥२॥

मणिभद्रसमो जातस्तत्क्षणादेव स द्विजः ॥

हट्टमार्गं गते सोऽथ तस्मिन्गत्वाऽथ मंदिरे ॥

प्रविष्टः सहसा मध्ये प्रहृष्टेनांतरात्मना

॥३॥

ततश्चाकारयामास तं षंढं द्वारमाश्रितम् ॥

तस्य दत्त्वाथ वस्त्राणि पश्चात्षंढमुवाच सः

॥४॥

षंढकश्चित्पुमानत्र सम्यग्वेषकरो हि सः ॥

मम वेषं समाधाय भ्रमते सकले पुरे

॥५॥

सांप्रतं मद्गृहे सोऽथ लोभनायागमिष्यति ॥

स च कृत्रिम वेषेण निषेद्धव्यस्त्वया हि सः ॥

स तथेति प्रतिज्ञाय द्वारदेशं समाश्रितः

॥६॥

पुष्पोऽपि चाब्रवीद्भार्यां माहिकाख्यां ततः परम् ॥

माहिकेद्य मया दृष्टः स्वतातः स्वपुरः स्थितः

॥७॥

वीरभद्रः सुदुःखार्तो मलिनांबरसंवृतः ॥

अब्रवीच्च ततः कोपान्मामेवं परुषाक्षरम्

॥८॥

धिग्धिक्पाप त्वया कन्यातीव रूपवती सदा ॥

वंचयित्वा जनेतारमुदूढा सा सुमध्यमा

॥९॥

न दत्तं तत्पितुः किंचिन्न तस्या अथ पुत्रक ॥

विधवां यादृशीं तां च श्वेतांबरधरां सदा

॥१०॥

संधारयसि पापात्मन्नेष्टं भोज्यं प्रयच्छसि ॥

तस्मात्तस्याः पितुर्देहि त्वं सुवर्णायुतं ध्रुवम्

॥११॥

भूषणं वांछितं तस्या यत्तद्वै रुचिपूर्वकम् ॥

येन संधारयेद्भार्या साऽऽनंदं परमं गता

॥१२॥

निरानंदा यतो नारी न गर्भं धारयेत्स्फुटम् ॥

निःसंतानो यतो वंशः स्वर्गादपि क्षितिं व्रजेत्

॥१३॥

स पतिष्यत्यसंदिग्धं कुलांगारेण च त्वया ॥

सा त्वमानय वस्त्राणि गृहमध्याच्छुभानि च

॥१४॥

यानि दत्तानि भूपेन व्यवहारैस्तदा मम ॥

पञ्चांगश्च प्रसादो यो मया प्राप्तश्च तैः सह

॥१५॥

त्वं संधारय गात्रैः स्वैः शीघ्रं रसवतीं कुरु ॥

भोजनायैव शीघ्रं तु त्वया सार्धं करोम्यहम्

॥१६॥

एकस्मिन्नपि पात्रे च तदादेशादसंशयम् ॥

सापि सर्वं तथा चक्रे यदुक्तं तेन हर्षिता

॥१७॥

भोजनाच्छादनं चैव निर्विकल्पेन चेतसा ॥

ततः कामातुरः पुष्पो मैथुनायोपचक्रमे

॥१८॥

एतस्मिन्नंतरे प्राप्तो मणिभद्रः समुत्सुकः ॥

क्षुत्क्षामः स पिपासार्तो व्यवहारोत्थलिप्सया

॥१९॥

प्रवेशं कुरुते यावद्गृहमध्ये समुत्सुकः ॥

निषिद्धस्तेन षण्ढेन भर्त्सयित्वा मुहुर्मुहुः

॥२०॥

हठाद्यावत्प्रवेशं स चकार निजमंदिरे ॥

तावच्च दण्डकाष्ठेन मस्तके तेन ताडितः

॥२१॥

अथ संपतितो भूमौ मूर्छया संपरिप्लुतः ॥

कर्तव्यं नैव जानाति तत्प्रहारप्रपीडितः

॥२२॥

ततः कोलाहलो जातस्तस्य द्वारे गृहस्य च ॥

जनस्य संप्रयातस्य हाहाकारपरस्य च

॥२३॥

पप्रच्छुस्तं जनाः केचि द्धिक्पाप किमिदं कृतम् ॥

वृत्तिभंगः कृतोऽनेन अथ त्वं व्यंतरार्दितः

॥२४॥

इमामवस्थां यन्नीतः संप्राप्तोऽसि नृपाद्वधम्

॥२५॥

षंढ उवाच

न वृत्तिर्गर्हिता तेन नाहं व्यंतरपीडितः ॥

मणिभद्रो न चैष स्यादेष वेषकरः पुमान्

॥२६॥

माणिभद्रं वपुः कृत्वा संप्राप्तो याचितुं धनम् ॥

हठात्प्रविश्यमानस्तु स मया मूर्ध्नि ताडितः

॥२७॥

मणिभद्रो गृहस्यांतर्भुक्त्वा शयनमाश्रितः ॥

संतिष्ठते न जानाति वृत्तांतमिदमा स्थितम्

॥२८॥

ततः पुष्पोऽपि तच्छ्रुत्वा तं च कोलाहलं बहिः ॥

मणिभद्रस्य रूपेण द्वारदेशं समागतः

॥२९॥

अब्रवीन्नित्यमभ्येति मम रूपेण चाधमः ॥

एष वेषधरः कश्चिद्याचितुं धनमेव हि

॥३०॥

एतेनापि च षंढेन न च भद्रमनुष्ठितम् ॥

यत्कुब्जोऽयं हतो मूर्ध्नि याचितुं समु पस्थितः

॥३१॥

एतस्मिन्नन्तरे सोऽपि चेतनां प्राप्य कृत्स्नशः ॥

वीक्षते पुरतो यावत्तावदात्मसमः पुमान्

॥३२॥

सर्वतः स तमालोक्य ततो वचनमब्रवीत्

॥३३॥

क्व चोरः संप्रविष्टो मे मम रूपेण मंदिरे ॥

भेदयित्वा तु षण्डाख्यमेवं दत्त्वा च वाससी

॥३४॥

यावद्भूपगृहं गत्वा त्वां षंढेन समन्वितम् ॥

वधाय योजयाम्येव तावद्द्रुततरं व्रज

॥३५॥

पुष्प उवाच

मम रूपं समाधाय त्वमायातो गृहे मम ॥

शून्यं मत्वा ततो ज्ञातस्त्वयाऽहं गृहसंस्थितः

॥३६॥

ततो नृपाय दास्यामि वधार्थं च न संशयः ॥

नो चेद्गच्छ द्रुतं पाप यदि जीवितुमिच्छसि

॥३७॥

सूत उवाच

एवमुक्त्त्वा ततस्तौ च बाहुयुद्धेन वै मिथः ॥

युध्यमानौ नरैरन्यैः कृच्छ्रेण तु निवारितौ

॥३८॥

ततस्ते स्वजना ये तु मणिभ द्रस्य चागताः ॥

परिजानंति नो द्वाभ्यां विशेषं माणिभद्रकम्

॥३९॥

वालिसुग्रीवयोर्युद्धं तारार्थे युध्यमानयोः ॥

एवं विवदमानौ तु क्रोधताम्रा यतेक्षणौ

॥४०॥

राजद्वारं समासाद्य स्थितौ स्वजनसंवृतौ ॥

द्वाःस्थेन सूचितौ राज्ञे सभातलमुपस्थितौ

॥४१॥

चौरचौरेति जल्पन्तौ पर स्परवधैषिणौ ॥

भूभुजा वीक्षितौ तौ च द्विजौ तु द्विजसत्तमाः

॥४२॥

न विशेषोऽस्ति विश्लेषस्तयोरेकोपिकायतः ॥

ततश्च व्यवहारेषु समती तेषु वै तदा

॥४३॥

पृष्टौ गुह्येषु सर्वेषु प्रत्यक्षेषु विशेषतः ॥

वदतस्तौ यथावृत्तं पृथक्पृथग्व्यवस्थितम्

॥४४॥

ततस्तु स्वजनैः सर्वैरेको नीत्व थ चान्यतः ॥

पृष्टो गोत्रान्वयं सर्वं द्वितीयस्तु ततः परम्

॥४५॥

तेषामपि तथा सर्वं यथासम्यङ्निवेदितम् ॥

अथ राजा बृहत्सेनः सर्वांस्तानि दमब्रवीत्

॥४६॥

पत्नी चानीयतां तस्य मणिभद्रस्य वै गृहात् ॥

निजकान्तस्य विज्ञाने सा प्रमाणं भविष्यति

॥४७॥

ततो गत्वा च सा प्रोक्ता पुरुषैर्नृपसंभवैः ॥

आगच्छ कांतं जानीहि त्वं प्रमाणं भविष्यसि

॥४८॥

ततः सा व्रीडया युक्ता प्रच्छादितशिरास्ततः ॥

नृपाग्रे संस्थिता प्रोचे विद्धिसम्यङ्निजं प्रियम्

॥४९॥

न वयं निश्चयं विद्मो न चैते स्वजनास्तव

॥५०॥

ततः सा चिन्तयामास निजचित्ते वरांगना ॥

मणिभद्रेण दग्धाहमीर्ष्यावह्निगताऽनिशम्

॥५१॥

वंचयित्वा तु पितरं गृहीतास्मि ततः परम् ॥

न किंचित्पाप्मना दत्तं जल्पयित्वा धनं बहु

॥५२॥

द्वितीयेन तु मे पुंसा मर्त्यलोके सुखं कृतम् ॥

दत्त्वा वस्त्राणि चित्राणि तथैवाभरणानि च

॥५३॥

प्रदास्यति च तातस्य सुवर्णं कथितं च यत् ॥

यद्गृह्णामि स्वहस्तेन मणिभद्रं द्वितीयकम्

॥५४॥

एवं निश्चित्य मनसा दृष्ट्वा रक्तपरिप्लुतम् ॥

प्रथमं मणिभद्रं सा जगृहेऽथ द्वितीयकम्

॥५५॥

अब्रवीच्च ततो वाक्यं सर्वलोकस्य शृण्वतः ॥

अहं तातेन दत्तास्य विवाहे अग्निसंनिधौ

॥५६॥

द्वितीयोऽयं दुराचारो वेषकर्ता समा गतः ॥

मां च प्रार्थयते गुप्तां नानाचारैः पृथग्विधैः

॥५७॥

ततस्तु पार्थिवः क्रुद्धस्तस्य शाखावलंबनम् ॥

आदिदेश द्विजश्रेष्ठा मणिभद्रस्य दुर्मतेः

॥५८॥

एतस्मिन्नंतरे सोऽथ वधकानां समर्पितः ॥

तं वृक्षं नीयमानस्तु श्लोकानेतांस्तदापठत्

॥५९॥

निर्दयत्वं तथा द्रोहं कुटिलत्वं विशेषतः ॥

अशौचं निर्घृणत्वं च स्त्रीणां दोषाः स्वभावजाः

॥६०॥

अन्तर्विषमया ह्येता बहिर्भागे मनोरमाः ॥

गुञ्जाफलसमाकारा योषितः सर्व दैवहि

॥६१॥

उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः ॥

मन्वादयस्तथान्येऽपि स्त्रीबुद्धेस्तत्र किंच न

॥६२॥

पीयूषमधरे वासं हृदि हालाहलं विषम् ॥

आस्वाद्यतेऽधरस्तेन हृदयं च प्रपीड्यते

॥६३॥

अलक्तको यथा रक्तो नरः कामी तथैव च ॥

हृतसारस्तथा सोऽपि पादमूले निपा त्यते

॥६४॥

संसारविषवृक्षस्य कुकर्मकुसुमस्य च ॥

नरकार्तिफलस्योक्ता मूलमेषा नितंबिनी

॥६५॥

कस्य नो जायते त्रासो दृष्ट्वा दूरा दपि स्त्रियम्

॥६६॥

संसारभ्रमणं नारी प्रथमेऽपि समागमे ॥

वह्निप्रदक्षिणन्यायव्याजेनैव प्रदर्शयेत्

॥६७॥

एतास्तु निर्घृणत्वेन निर्दय त्वेन नित्यशः ॥

विशेषाज्जाड्यकृत्येन दूषयंति कुलत्रयम्

॥६८॥

कुलत्रयगृहं कीर्त्या निजया धवलीकृतम् ॥

कृष्णं करोत्यकृ त्येन नारी दीपशिखेव तु

॥६९॥

धर्मवृक्षस्य वाताली चित्तपद्मशशिप्रभा ॥

सृष्टा कामार्णवग्राही केन मोक्षदृढार्गला

॥७०॥

कारा संतानकूटस्य संसारवनवागुरा ॥

स्वर्गमार्गमहागर्ता पुंसां स्त्री वेधसा कृता

॥७१॥

वेधसा बंधनं किंचिन्नृणामन्यदपश्यता ॥

स्त्रीरूपेण ततः कोऽपि पाशोऽयं सुदृढः कृतः

॥७२॥

इत्येवं बहुधा सोऽपि विललाप सुदुःखितः ॥

स्त्रीचिन्तां बहुधा कृत्वा आत्मानं चाप्यगर्हयत्

॥७३॥

अहो कुबुद्धिना नैव लब्धं संसारजं फलम् ॥

न कदाचिन्मया दत्तं तृष्णाव्याकुलचेतसा

॥७४॥

ऐश्वर्येऽपि स्थिते भूरि न मया सुकृतं कृतम् ॥

कदाचिन्नैव जप्तं च न हुतं च हुताशने

॥७५॥

अथवा सत्यमेवोक्तं केनापि च महात्मना ॥

कृपणेन समो दाता न भूतो न भविष्यति ॥

अस्पृष्ट्वापि च वित्तं स्वं यः परेभ्यः प्रयच्छति

॥७६॥

शरणं किं प्रपन्नानां विषवन्मारयंति किम् ॥

न दीयते न भुज्यंते कृपणेन धनानि च

॥७७॥

दानं भोगो नाशस्तिस्रो गतयो भवंति वित्तस्य ॥

यो न ददाति न भुंक्ते तस्य तृतीया गतिर्भवति

॥७८॥

धनिनोप्यदानविभवा गण्यंते धुरि दरिद्राणाम् ॥

नहि हंति यत्पिपासामतः समुद्रोऽपि मरुरेव

॥७९॥

अत्युपयुक्ताः सद्भिर्गतागतैरहरहः सुनिर्विण्णाः ॥

कृपणजनसंनिकाशं संप्राप्यार्थाः स्वपंतीह

॥८०॥

प्राप्तान्न लभंते ते भोगान्भोक्तुं स्वकर्मणा कृपणाः ॥

मुखपाकः किल भवति द्राक्षापाके बलिभुजानाम्

॥८१॥

दातव्यं भोक्तव्यं सति विभवे संचयो न कर्तव्यः ॥

पश्येह मधुकरीणां संचितमर्थं हरंत्यन्ये

॥८२॥

याचितं द्विजवरे न दीयते संचितं क्रतुवरे न योज्यते ॥

तत्कदर्यपरिरक्षितं धनं चौरपार्थिवगृहेषु भुज्यते

॥८३॥

त्यागो गुणो वित्तवतां वित्तं त्यागवतां गुणः ॥

परस्परवियुक्तौ तु वित्त त्यागौ विडम्बनम्

॥८४॥

किं तया क्रियते लक्ष्म्या या वधूरिव केवला ॥

या न वेश्येव सामान्या पथिकैरपि भुज्यते

॥८५॥

अर्थोष्मणा भवेत्प्राणो भवेद्भक्ष्यैर्विना नृणाम् ॥

यतः संधार्यते भूमिः कृपणस्योष्मणा हि सा

॥८६॥

कृपणानां प्रसादेन शेषो धारयते महीम् ॥

यतस्ते भूगतं वित्तं कुर्वते तस्य चोष्मणा

॥८७॥

एवं बहुविधा वाचः प्रलपन्मणिभद्रकः ॥

नीत्वा तैः पार्थिवोद्दिष्टैः पुरुषैः परुषाक्षरम् ॥

बहुधा प्रलपं श्चैव कृतः शाखावलंबनः

॥८८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये मणिभद्रोपाख्याने मणिभद्रनिधनवर्णनंनामाष्टपंचाशदुत्तरशततमोऽध्यायः ॥ १५८ ॥