छान्दोग्यब्राह्मणकन्यावृत्तान्तवर्णनम्
ऋषय ऊचुः
शूद्री च ब्राह्मणी चापि ये त्वया परिकीर्तिते ॥
हाटकेश्वरजे क्षेत्रे तीर्थद्वयमनुत्तमम्
॥१॥तत्कथं तत्र संजातं केन वा तद्विनिर्मितम् ॥
एतच्च सर्वमाचक्ष्व विस्तरेण महामते
॥२॥पादुकाभ्यां समुत्पत्तिः श्रुताऽस्माभिः पुरा तव ॥
वद तच्चापि माहात्म्यं ताभ्यां चैव समुद्भवम्
॥३॥सूत उवाच
पुरासीन्नागरो विप्रश्छांदोग्य इति विश्रुतः ॥
यस्याऽन्वयेऽपि विप्रेन्द्राश्छान्दोग्या इति विश्रुताः
॥४॥सामवेदविदस्तस्य गृहस्थाश्रमधर्मिणः ॥
पश्चिमे वयसि प्राप्ते कन्या जाता सुशोभना
॥५॥सर्वैरपि गुणैर्युक्ता सर्वलक्षण लक्षिता ॥
सप्तरक्ता त्रिगंभीरा पञ्चसूक्ष्माऽबृहत्कटिः
॥६॥पद्मपत्रविशालाक्षी लंबकेशी सुशोभना ॥
बिंबोष्ठी ह्रस्वलोमा च पूर्णचन्द्रसमप्रभा
॥७॥तस्या नाम पिता चक्रे ब्राह्मणीति द्विजोत्तमाः ॥
यस्मात्सा ब्राह्मणैर्दत्ता मण्डपान्ते सुपूजितैः
॥८॥पश्चिमे वयसि प्राप्ते अपत्यरहितस्य च ॥
ववृधे सा च तन्वङ्गी चन्द्रलेखा यथा तथा
॥९॥शुक्लपक्षे तु संप्राप्ते जनलोचनतुष्टिदा ॥
यस्मिन्नहनि संजाता छान्दोग्यस्य महात्मनः ॥
आनर्ताधिपतेस्तस्मिंस्तादृग्रूपा सुताऽभवत्
॥१०॥यस्याः कायप्रभौघेण सर्वं तत्सूतिकागृहम् ॥
निशागमेऽपि संजातं रत्नौघैरिव सुप्रभम् ॥
ततस्तस्याः पिता नाम चक्रे रत्नवतीति च
॥११॥अथ सख्यं समापन्ना ब्राह्मण्या सह सा शुभा ॥
नैरन्तर्येण ताभ्यां च वियोगो नैव जायते
॥१२॥एकाशनं तथा शय्या एकान्नेन च भोजनम् ॥
अष्टमेऽब्दे च संजाते पिता तस्या द्विजोत्तमाः
॥१३॥विवाहं चिन्तयामास प्रदानाय वरे तथा ॥
सा ज्ञात्वा चेष्टितं तस्य पितुर्दुःखसमन्विता
॥१४॥सख्या वियोगभीता च प्रोचे रत्नवती तदा ॥
अश्रुपूर्णेक्षणा दीना बाष्पगद्गदया गिरा
॥१५॥सखि तातो विवाहं मे प्रकरिष्यति सांप्रतम् ॥
विवाहितायाश्च सख्यं न भविष्यति कर्हिचित्
॥१६॥वज्रपातोपमं वाक्यं तस्याः श्रुत्वा सखी च सा ॥
रुरोद कण्ठमाश्लिष्य स्नेहव्याकुलितेन्द्रिया
॥१७॥अथ तद्रुदितं श्रुत्वा माता तस्या मृगावती ॥
ससंभ्रमा समागत्य वाक्यमेतदुवाच ह
॥१८॥किमर्थं रुद्यते पुत्रि केन ते विप्रियं कृतम् ॥
करोमि निग्रहं येन तस्याद्यैव दुरात्मनः
॥१९॥रत्नवत्युवाच
शृणु मे सुप्रियातीव ब्राह्मणी प्राणसंमता ॥
विवाहं प्राप्य कल्याणी प्रयास्यति पतेर्गृहम्
॥२॥अनया रहिताहं च न जीवामि कथंचन ॥
एतस्मात्कारणाद्देवि प्ररोदिमि सुदुःखिता
॥२१॥मृगावत्युवाच
यद्येवं पुत्रि यत्र त्वं प्रयास्यसि पतेर्गृहे ॥
तस्य राज्ञस्तु यो विप्रः पौरोहित्ये व्यवस्थितः
॥२२॥तस्य पुत्राय दास्यामि सखीमेनां तव प्रियाम् ॥
तत्रापि येन ते संगो भविष्यत्यनया सह
॥२३॥एवमुक्त्वा ततो राज्ञी छादोग्यं द्विजसत्तमम् ॥
समानीयाब्रवीदेनं विनयावनता स्थिता
॥२४॥इयं तव सुता ब्रह्मन्सुताया मम सुप्रिया ॥
न वियोगं सहत्यस्या मुहूर्तमपि भामिनी
॥२५८॥तथा तव सुतायाश्च सुतेयं मम सुप्रिया ॥
तस्मात्कुरु वचो मह्यं यच्च वक्ष्यामि सुव्रत
॥२६॥यस्य मे दीयते कन्या कदाचिन्नृपतेरियम् ॥
पुरोधास्तस्य यो विप्रस्तस्मै देया निजा सुता
॥२७॥येन न स्यान्मिथो भेदस्ताभ्यां द्विजवरोत्तम ॥
एकस्थाने स्थिताभ्यां च प्रसा दात्तव सत्तम
॥२८॥छांदोग्य उवाच
नागरो नागरं मुक्त्वा योऽन्यस्मै संप्रयच्छति ॥
कन्यकां यः प्रगृह्णाति विवाहार्थं कथंचन
॥२९॥स पंक्तिदूषकः पापान्नागरो न भवेदिह ॥
तस्मान्नाहं प्रदास्यामि कथंचिन्निजकन्यकाम् ॥
अन्यस्मै नागरं मुक्त्वा निश्चयोऽयं मया कृतः
॥३०॥ब्राह्मण्युवाच
नाहं पतिं प्रयास्यामि कुमारी ब्रह्मचारिणी ॥
देया प्रिया सखी यत्र तावद्यास्यामि तत्र च
॥३१॥यदि तात बलान्मह्यं विवाहं त्वं करिष्यसि ॥
विषं वा भक्षयिष्यामि साधयिष्यामि पावकम्
॥३२॥शस्त्रेण वा हनिष्यामि स्वदेहं तात निश्चयम् ॥
एवं ज्ञात्वा तु तात त्वं यत्क्षमं तत्समाचर
॥३३॥सूत उवाच
तस्यास्तं निश्चयं ज्ञात्वा स विप्रो दुःखसंयुतः ॥
स्त्रीहत्यापाप भीतस्तु तां त्यक्त्वा स्वगृहं ययौ
॥३४॥सापि रेमे तया सार्धं रत्नवत्या द्विजोत्तमाः ॥
संहृष्टहृदया नित्यं संत्यक्तपितृसौहृदा
॥३५॥यौवनं सा तु संप्राप्ता रूपेणाप्रतिमा भुवि
॥३६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये छान्दोग्यब्राह्मणकन्यावृत्तान्तवर्णनंनाम पञ्चनवत्युत्तरशततमोऽध्यायः ॥ १९५ ॥