मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ४२

3
नागरखण्डः · 42

विश्वामित्रसमुद्भूतं कुण्डं तत्रापरं शुभम्

सूत उवाच

विश्वामित्रसमुद्भूतं कुण्डं तत्रापरं शुभम् ॥

संतिष्ठते द्विजश्रेष्ठाः सर्वकामप्रदायकम्

॥१॥

तत्र चैत्रतृतीयायां कृते स्नाने भवेन्नरः ॥

दिव्यरूपधरः साक्षात्कामोऽन्यो द्विजसत्तमाः

॥२॥

नारी वा श्रद्धयोपेता तत्र स्नात्वा प्रजावती ॥

भवेत्सौभाग्यसंयुक्ता स्पृहणीयतमा क्षितौ

॥३॥

ऋषय ऊचुः

तीर्थं तस्य मुनेस्तत्र कस्मिन्काले व्यवस्थितम् ॥

निर्मलं केन निःशेषं वद त्वं सूतनंदन

॥४॥

सूत उवाच

तत्रास्ति निर्झरः पूर्वं सामान्यो द्विजसत्तमाः ॥

अवधूतो धरापृष्ठे माहात्म्येन व्यवस्थितः

॥५॥

यत्र देवनदी गंगा स्वयमेव व्यवस्थिता ॥

यस्यां स्नातः पुमान्सद्यः सर्वपापैः प्रमुच्यते

॥६॥

यस्तत्र कुरुते श्राद्धं पितॄनुद्दिश्य भावितः ॥

तदक्षयं भवेच्छ्राद्धं पितॄणां तृप्तिकारकम्

॥७॥

यत्किंचिद्दीयत दानं तस्मिंस्तीर्थवरे द्विजाः ॥

हुतजप्यादिकं चैव तदनंतफलं भवेत्

॥८॥

कस्यचित्त्वथ कालस्य मृगी व्याधशराहता ॥

प्रविष्टा सलिले तस्मिंस्तत्र पञ्चत्वमागता

॥९॥

चैत्रशुक्लतृतीयायां मध्याह्ने द्विजसत्तमाः ॥

नक्षत्रे यमदैवत्ये मार्तंडस्य च वासरे

॥१०॥

अथ तत्तोयमाहात्म्यान्मेनकानाम साऽभवत् ॥

अप्सरास्त्रिदशेंद्रस्य समंताच्चारुहासिनी

॥११॥

स्मरमाणाऽथ सा तस्य प्रभावं वरवर्णिनी ॥

तीर्थमागत्य सद्भक्त्या स्नानं तत्र समाचरत् ॥

चैत्रशुक्लतृतीयायां यामर्क्षे सूर्यवासरे

॥१२॥

एकदा दिवसे तस्मिन्भ्रममाणो मुनीश्वरः ॥

विश्वामित्र इति ख्यातस्तत्रायातस्तपोऽन्वितः

॥१३॥

साऽपि स्वर्गात्समायाता देवतादर्शनार्थतः ॥

पूजयित्वाथ तं देवं प्रस्थिता त्रिदिवं प्रति

॥१४॥

सा दृष्ट्वा तं मुनिं तत्र भ्रममाणमितस्ततः ॥

यौवनस्थं सुरूपाढ्यं पंचबाणमिवापरम्

॥१५॥

व्रतप्रभावजैर्व्याप्तं तेजोभिर्भास्करं यथा ॥

बाल्यात्प्रभृति चीर्णेन तपसा दग्धकिल्बिषम्

॥१६॥

सा तस्य दर्शनादेव कामबाणप्रपीडिता ॥

सानंदाः सुरतार्थाय समीपं समुपाद्रवत्

॥१७॥

स दृष्ट्वाऽदृष्टपूर्वां तां मार्गपृच्छाकृते ततः ॥

सम्मुखः प्रययौ तूर्णं प्रहृष्टेनांतरात्मना

॥१८॥

उवाच देशं तां पृच्छन्स्त्रीधर्मांश्च विशेषतः ॥

शुभलाभोऽस्तु ते भद्रे मनसा कर्मणा गिरा

॥१९॥

सदैव वासुदेवस्य भक्तिश्चाव्यभिचारिणी ॥

कच्चित्त्वं वर्तसे पुत्रि पतिपादपरायणा ॥

चारित्रविनयोपेता सर्वदा प्रियवादिनी

॥२०॥

कच्चित्त्वं सर्वदाभीष्टा पत्युर्दानैस्तथार्च्चनैः ॥

बंधून्स्वमित्रवर्गं च तत्पुरः पृष्ठतोपि वा

॥२१॥

कच्चिद्भर्तरि संसुप्ते त्वं निशवशमेष्यसि ॥

उत्थानमप्रबुद्धे च करोषि वरवर्णिनि

॥२२॥

कच्चित्प्रातः समुत्थाय करोषि गृहमार्जनम् ॥

स्वयमेव वरारोहे मण्डनं चोपमण्डनम्

॥२३॥

कच्चिदेवान्नमस्कृत्य गुरुं च तदनंतरम् ॥

करोषि त्वं प्राणयात्रां दत्त्वान्नं शक्तितो जलम्

॥२४॥

कच्चिदस्तंगते सूर्ये नान्नमश्नासि भाभिनि ॥

अदत्त्वा वा स्वभृत्येभ्यः साधुभ्यश्च विशेषतः

॥२५॥

कच्चित्पिबसि पानीयं सप्तवारविशोधितम् [।

निबिडेन स्ववस्त्रेण पालयंती जलोद्भवान् ॥

कच्चिद्दयासमोपेता गात्रक्लेशकरानपि ॥

यूकामत्कुणदंशादीन्पुत्रवत्परिरक्षसि

॥२७॥

कच्चित्साधुमुखान्नित्यं शिवधर्मं सुभक्तितः ॥

शृणोषि भक्तितो भद्रे प्रकरोषि च सादरम्

॥२८॥

क्वचिच्छ्रुत्वाऽऽगमं पुण्यं प्रकरोषि च पूजनम् ॥

शास्त्रस्य वाचकस्यापि व्याख्यातुश्च विशेषतः

॥२९॥

कच्चित्पुराणशास्त्राणि प्रणीतानि जनेश्वरैः ॥

संलेख्याक्षररम्याणि साधुभ्यः संप्रयच्छसि

॥३०॥

यः श्रुत्वा सर्व शास्त्राणि निष्क्रयं न प्रयच्छति ॥

शास्त्रचौरः स विज्ञेयो न चैवाप्नोति तत्फलम्

॥३१॥

कच्चिच्छिवालये नृत्यगीतवाद्यादिकाः क्रियाः ॥

बलिपूजोपहारांश्च त्वं करोषि च शक्तितः

॥३२॥

कच्चित्प्रावरणं वस्त्रं सुभगे सर्वमेव च ॥

संप्रयच्छसि साधुभ्यः प्रणिपातपुरःसरम्

॥३३॥

वृथा पर्यटनं नित्यं कच्चिन्न परमंदिरे ॥

त्वं करोषि विशालाक्षि विशेषेण निशागमे

॥३४॥

कच्चिन्नाश्नासि भद्रे त्वं स्वभर्तरि बुभुक्षिते ॥

आज्ञाभंगं प्रयत्नेन कच्चित्तत्र प्ररक्षसि

॥३५॥

कच्चित्प्रकुपिते कांते नोत्तराणि प्रयच्छसि ॥

तस्यकोपप्रणाशार्षं प्रियं कच्चिच्च जल्पसि

॥३६॥

कच्चित्त्वं प्रोषिते कांते मलिनांबरधारिणी ॥

जायसे च तथा दीना विवर्णवदना कृशा

॥३७॥

कच्चिन्मंदिरपृष्ठे त्वं न धत्से भिन्नभाजनम् ॥

उच्छिष्टं वा जनैस्त्यक्तमपि कार्योपकारकम्

॥३९॥

कच्चिद्व्रजसि नो रात्रौ जागरेषु कथासु च ॥

निर्झरेषु विविक्तेषु पुलिनेषु वनेषु च

॥३९॥

कच्चिन्न कुरुषे मैत्रीं बंधकीभिः समं शुभे ॥

धात्रीभिर्मालिकस्त्रीभी रजकीभिश्च भामिनि

॥४०॥

कञ्चिद्दधासि नित्यं त्वं मुखं कुंकुमरंजितम् ॥

शिरः पुष्पसमाकीर्णं नेत्रे कज्जलरंजिते

॥४१॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये विश्वामित्रकुण्डोत्पत्तिवृत्तान्ते विश्वामित्रमेनकासमागमवर्णनंनाम द्विचत्वारिंशो ध्यायः ॥ ४२ ॥