तस्यैव दक्षिणे भागे वालखिल्यैः प्रतिष्ठितम्
सूत उवाच
तस्यैव दक्षिणे भागे वालखिल्यैः प्रतिष्ठितम् ॥
लिंगमस्ति सुविख्यातं सर्वपातकनाशनम्
॥१॥यमाराध्य च तैः पूर्वं शक्रामर्षसमन्वितैः ॥
गरुडो जनितः पक्षी ख्यातो विष्णुरथोऽत्र यः
॥२॥ऋषय ऊचुः
कथं तेषां समुत्पन्नः शक्रस्योपरि सूतज ॥
प्रकोपो वालखिल्यानां संजज्ञे गरुडः कथम्
॥३॥सूत उवाच
पुरा प्रजापतिर्दक्षस्तस्मिन्क्षेत्रे सुशोभने ॥
चकार विधिवद्यज्ञं संपूर्णवरदक्षिणम्
॥४॥ततः शक्रादयो देवाः सहायार्थं निमंत्रिताः ॥
दक्षेण मुनयश्चैव तथा राजर्षयोऽमलाः
॥५॥तथा वेदविदो विप्रा यज्ञकर्मविचक्षणाः ॥
गृहस्थाश्रमिणो ये च ये चारण्यनिवासिनः
॥६॥अथ ते वालखिल्याख्या मुनयः संशितव्रताः ॥
एकां समिधमादाय साहाय्यार्थं प्रजापतेः ॥
प्रस्थिता यज्ञवाटं तं भारार्ताः क्लेशसंयुताः
॥७॥अथ तेषां समस्तानां मार्गे गोष्पदमागतम् ॥
जलपूर्णं समायातमकालजलदागमे
॥८॥ततस्तरीतु कामास्ते क्लिश्यमाना इतस्ततः ॥
समिद्भारश्रमोपेता देवराजेन वीक्षिताः
॥९॥गच्छता तेन मार्गेण मखे दक्षप्रजापतेः ॥
ततश्चिरं समालोक्य स्मितं कृत्वा स कौतुकात् ॥
जगामाथ समुल्लंघ्य ऐश्वर्यमदगर्वितः
॥१०॥ततस्ते कोपसंयुक्ताः शक्राद्दृष्ट्वा पराभवम् ॥
निवृत्य स्वाश्रमं गत्वा चक्रुर्मंत्रं सनिश्चयम्
॥११॥शाक्रं पदं समासाद्य यस्मादेतेन पाप्मना ॥
अतिक्रांता वयं सर्वे तस्मात्पात्यः स सत्पदात्
॥१२॥अन्यः शक्रः प्रकर्तव्यो मंत्रवीर्यसमुद्भवः ॥
आथर्वणैर्महासूक्तैराभिचारिकसंभवैः
॥१३॥येन व्यापाद्यते तेन शक्रोऽयं मदगर्वितः ॥
मखमाहात्म्यसंपन्नः स्वल्पबुद्धिपरा क्रमः
॥१४॥ततस्ते शुचयो भूत्वा स्कंदसूक्तेन पावकम् ॥
जुहुवुश्च दिवारात्रौ क्षुरिकोक्तेन सोद्यमाः
॥१५८॥गर्भोपनिषदेनैव नीलरुद्रैर्द्विजोत्तमाः ॥
रुद्रशीर्षेण काम्येन विष्णुसूक्तयुतेन चं
॥१६॥निधाय कलशं मध्ये मंडलस्योदकावृतम् ॥
होमांते तत्र संस्पर्शं चक्रुस्तस्य जलैः शुभैः
॥१७॥एतस्मिन्नंतरे शक्रः प्रपश्यति सुदारुणान् ॥
उत्पातानात्मनाशाय जायमानान्समंततः
॥१८॥वामो बाहुश्च नेत्रं च मुहुः स्फुरति चास्य वै ॥
न च पश्यति नासाग्रं जिह्वाग्रं च तथा हनुम्
॥१९॥शिरोहीनां तथा छायां गगने भास्करद्वयम् ॥
अरुंधतीं ध्रुवं चैव न च विष्णुपदानि सः
॥२०॥न च मंदं न चाकाशे संस्थितां स्वर्धुनीं हरिः ॥
स्वपन्पश्यति कृष्णांगीं नित्यं नारीं धृतायुधाम्
॥२१॥मुक्तकेशीं विवस्त्रां च कृष्णदंतां भयानकाम् ॥
तान्दृष्ट्वा स महोत्पातान्देवराजो बृहस्पतिम्
॥२२॥पप्रच्छ भयसंत्रस्तः किमेतदिति मे गुरो ॥
जायंते सुमहोत्पाता दुर्निमित्तानि वै पृथक्
॥२३॥किं मे भविष्यति प्राज्ञ विनाशः सांप्रतं वद ॥
किं वा त्रैलोक्य राज्यस्य किं वा वित्तादिकस्य च
॥२४॥बृहस्पतिरुवाच
ये त्वया मदमत्तेन वालखिल्या महर्षयः ॥
उल्लंघिताः स्थिता मार्गे गोष्पदं तर्त्तुमिच्छवः
॥२५॥तैरेवाथर्वणैर्मंत्रैस्त्वकृतेऽस्ति शचीपते ॥
कृतो होमः सुसंपूर्णः कलशश्चाभिमंत्रितः
॥२६॥युष्माकं सुविनाशाय सर्वदेवाधिनायकः ॥
भविष्यति न संदेहो मंत्रैराथर्वणैर्हरिः
॥२७॥तस्य तद्वचनं श्रुत्वा सहस्राक्षो भयान्वितः ॥
दक्षं गत्वा च दीनास्यः प्रोवाच तदनंतरम्
॥२८॥अस्मन्नाशाय मुनिभिर्वालखिल्यैः प्रजापते ॥
प्रोद्यमो विहितः सम्यक्छक्रस्यान्यस्य वै कृते
॥२९॥तान्वारय स्वयं गत्वा यावन्नो जायते परः ॥
शक्रोऽस्मद्ध्वंसनार्थाय नास्ति तेषामसाध्यता
॥३०॥अथ दक्षो द्रुतं गत्वा शक्राद्यैरमरैर्वृतः ॥
प्रहसंस्तानुवाचेदं विनयेन समन्वितः
॥३१॥किमेतत्क्रियते विप्राः कर्म रौद्रतमं महत् ॥
त्रैलोक्यं व्याकुलं येन सर्वमेतद्व्यवस्थितम्
॥३२॥अथ ते दक्षमालोक्य समायातं स्वमाश्रयम् ॥
संमुखाश्चाभ्ययुस्तूर्णं प्रगृहीतार्घ्यपाणयः
॥३३॥अर्घ्यं दत्त्वा यथान्यायं पूजां कृत्वाथ भक्तितः ॥
प्रोचुश्च प्रणता भूत्वा स्वागतं ते प्रजापते
॥३४॥आदेशो दीयतां शीघ्रं यदर्थमिह चागतः ॥
अपि प्राणप्रदानेन करिष्यामः प्रियं तव
॥३५॥दक्ष उवाच
एतद्रौद्रतमं कर्म सर्वदेवभयावहम् ॥
त्याज्यं युष्माभिरव्यग्रैरेतदर्थमिहागतः
॥३६॥मुनय ऊचुः
वयं शक्रेण ते यज्ञे समायाताः सुभक्तितः ॥
उल्लंघिता मदोद्रेकात्कृत्वा हास्यं मुहुर्मुहुः
॥३७॥शक्रोच्छेदाय चास्माभिः शकोऽन्यो वीर्यमंत्रतः ॥
प्रारब्धः कर्तुमत्युग्रैर्होमांतश्च व्यवस्थितः
॥३८॥तत्कथं मंत्रवीर्यं तत्क्रियते मोघमित्यहो ॥
वेदोक्तं च विशेषेण तस्मादत्र वद प्रभो
॥३९॥त्वमेव यदि शक्तः स्यादन्यथा कर्तुमेव हि ॥
कुरुष्व वा स्वयं नाथ नास्माकं शक्तिरीदृशी
॥४०॥दक्ष उवाच
सत्यमेतन्महाभागा यद्युष्माभिः प्रकीर्तितम् ॥
नान्यथा शक्यते कर्तुं वेदमन्त्रोद्भवं बलम्
॥४१॥तद्य एष कृतो होमो युष्माभिर्वेदमंत्रतः ॥
देवराजार्थमव्यग्रैः कलशश्चाभिमंत्रितः
॥४२॥सोऽयं मद्वचनाद्राजा भविष्यति पतत्रिणाम् ॥
तेजोवीर्यसमोपेतः शक्रादपि सुवीर्यवान्
॥४३॥एतस्य देवराजस्य क्षंतव्यं मम वाक्यतः ॥
तत्कृतं मूढभावेन यदनेन विचेष्टितम्
॥४४॥एवमुक्त्वाथ तेषां तं सहस्राक्षं भयातुरम् ॥
दर्शयामास दक्षस्तु विनयावनतं स्थितम्
॥४५॥तेऽपि दृष्ट्वा सहस्राक्षं वेपमानं कृतांजलिम् ॥
प्रोचुर्माऽतिक्रमं शक्र ब्राह्मणानां करिष्यसि
॥४६॥भूयो यदि दिवेशानामाधिपत्यं प्रवांछसि ॥
अपि मन्दोऽपि मूर्खोऽपि क्रियाहीनोऽपि वा द्विजः ॥
नावज्ञेयो बुधैः क्वापि लोकद्वय मभीप्सुभिः
॥४७॥इन्द्र उवाच
अज्ञानाद्यदि वा ज्ञानाद्यन्मया कुकृतं कृतम् ॥
तत्क्षंतव्यं द्विजैः सर्वैर्विशेषाद्दक्ष वाक्यतः
॥४८॥प्रगृह्यतां वरोऽस्माकं यः सदा वर्तते हृदि ॥
प्रदास्यामि न संदेहो नादेयं विद्यते मम
॥४९॥मुनय ऊचुः
अस्मिन्कुण्डे नरो होमं यः कुर्याच्छ्रद्धयाऽन्वितः ॥
एतल्लिंगं समभ्यर्च्य तस्याऽस्तु हृदि वांछितम्
॥५०॥इन्द्र उवाच
एतल्लिंगं समभ्यर्च्य योऽत्र होमं करिष्यति ॥
कुंडेऽत्र वांछितं सद्यः सफलं स हि लप्स्यते
॥५१॥निष्कामो वाऽथ संपूज्य लिंगमेतच्छुभावहम् ॥
प्रयास्यति परां सिद्धिं त्रिदशैरपि दुर्लभाम्
॥५२॥सूत उवाच
एवमुक्त्वा सहस्राक्षो वालखिल्यान्मुनीश्वरान् ॥
ऐरावतं समारुह्य दक्षयज्ञे ततो गतः
॥५३॥दक्षोऽपि विधिवद्यज्ञं चकार द्विजसत्तमाः ॥
संहृष्टैर्वालखिल्यैस्तैरुपविष्टैः समीपतः
॥५४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाह वालखिल्याश्रममाहात्म्यकथनंनामैकोनाशीतितमोऽध्यायः ॥ ७९ ॥