महालक्ष्मीमाहात्म्यवर्णनम्
ऋषय ऊचुः
माधव्याः पद्मया दत्तो यः शापस्तस्य यत्फलम् ॥
परिणामोद्भवं सर्वं श्रुतमस्माभिरद्य तत्
॥१॥तेन यत्कमला शप्ता ब्राह्मणेन महात्मना ॥
सा कथं गज वक्त्राऽथ पुनर्जाता शुभानना
॥२॥सूत उवाच
शापेन तस्य विप्रस्य तत्क्षणादेव सा द्विजाः ॥
गजवक्त्रा समुत्पन्ना महाविस्मयकारिणी
॥३॥सा प्रोक्ता हरिणा तिष्ठ किञ्चित्कालांतरे शुभे ॥
अनेनैव तु रूपेण यावत्स्याद्द्वापरक्षयः
॥४॥ततोऽहं मेदिनीपृष्ठे ह्यवतीर्य समुद्रजे ॥
तपः शक्त्या करिष्यामि भूयस्त्वां तु शुभाननाम्
॥५॥अवज्ञायाथ सा तस्य तद्वाक्यं शार्ङ्गधन्विनः ॥
शुभास्यत्वकृते तेपे तपस्तीव्रं सुहर्षिता
॥६॥एतत्क्षेत्रं समासाद्य त्रिकालं स्नानमाचरत् ॥
ब्रह्माणं तोषयामास दिवारात्रिमतंद्रिता
॥७॥तामुवाच ततो ब्रह्मा वर्षांते तुष्टिमागतः ॥
वरं प्रार्थय तुष्टोऽहं तव केशववल्लभे
॥८॥लक्ष्मीरुवाच
गजास्याहं कृता देव शापं दत्त्वा सुदारुणम् ॥
ब्राह्मणेन सुक्रुद्धेन कस्मिश्चित्कारणांतरे
॥९॥तस्मात्तद्रूपिणीं भूयो मां कुरुष्व पितामह ॥
यदि मे तुष्टिमापन्नो नान्यत्किंचिद्वृणोम्यहम्
॥१०॥ब्रह्मोवाच
भविष्यति शुभं वक्त्रं मत्प्रसादादसंशयम् ॥
तव भद्रे विशेषेण तस्मात्त्वं स्वगृहं व्रज
॥११॥महत्त्वं ते मया दत्तमद्यप्रभृति शोभने ॥
महालक्ष्मीति ते नाम तस्मादत्र भविष्यति
॥१२॥गजवक्त्रां नरो यस्त्वां पूजयिष्यति भक्तितः ॥
स गजाधिपतिर्भूपो भविष्यति च भूतले
॥१३॥द्वितीयादिवसे यस्त्वां महालक्ष्मीरिति ब्रुवन् ॥
श्रीसूक्तेन सुभक्त्याऽथ देवि संपूजयिष्यति
॥१४॥सप्तजन्मांतराण्येव न भविष्यति सोऽधनः ॥
एवमुक्त्वा चतुर्वक्त्रो विरराम ततः परम्
॥१५॥साऽपि हृष्टा गता देवी यत्र तिष्ठति केशवः
॥१६॥इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां षष्ठे नागर खण्डे हाटकेश्वरक्षेत्रमाहात्म्ये महालक्ष्मीमाहात्म्यवर्णनंनाम पञ्चाशीतितमोऽध्यायः ॥ ८५ ॥