नगरसंज्ञोत्पत्तिवर्णनम्
सूत उवाच
सोऽपि विप्रो द्विजश्रेष्ठा विस्फोटकपरिप्लुतः ॥
लज्जया परया युक्तो गत्वा किंचिद्वनांतरम्
॥१॥ततो वैराग्यमापन्नो रौद्रे तपसि संस्थितः ॥
त्यक्त्वा गृहादिकं सर्वं स्नेहं दारसुतोद्भवम्
॥२॥नियमैः संयमैश्चैव शोषयन्नात्मनस्तनुम् ॥
किंचिज्जलाश्रयं गत्वा स्थापयित्वा महेश्वरम्
॥३॥ततः कालेन महता तुष्टस्तस्य महेश्वरः ॥
प्रोवाच दर्शनं गत्वा प्रार्थयस्व यथेप्सितम्
॥४॥त्रिजात उवाच
मातृदोषादहं देव वैलक्ष्यं परमं गतः ॥
मध्ये ब्राह्मणमुख्यानामानर्त्ताधिपतेस्तथा
॥५॥अहं शक्नोमि नो वक्तुं कस्यचिद्दर्शितुं विभो ॥
त्रिजातोऽस्मीति विज्ञाय भूरिविद्यान्वितोऽपि च
॥६॥तस्मात्सर्वोत्तमस्तेषामहं चैव द्विजन्मनाम् ॥
यथा भवामि देवेश तथा नीतिर्विधीयताम्
॥७॥श्रीभगवानुवाच
चमत्कारपुरे विप्रा ये वसंति द्विजोत्तम ॥
तेषां सर्वोत्तमो नूनं मत्प्रसादाद्भविष्यसि
॥८॥तस्मात्कालं प्रतीक्षस्व कञ्चित्त्वं ब्राह्मणोत्तम ॥
समये समनुप्राप्ते त्वां च नेष्यामि तत्र वै
॥९॥एवमुक्त्वा स देवेशस्ततश्चादर्शनं गतः ॥
ब्राह्मणोऽपि तपस्तेपे तथा संपूजयन्हरम्
॥१०॥कस्यचित्त्वथ कालस्य मत्कारपुरे द्विजाः ॥
मौद्गल्यान्वयसंभूतो देवरातोऽभवद्द्विजः
॥११॥. तस्य पुत्रः क्रथोनाम यौवनोद्धतविग्रहः ॥
सदा गर्वसमायुक्तः पौरुषे च व्यवस्थितः
॥१२॥स कदाचिद्ययौ विप्रो नागतीर्थं प्रति द्विजाः ॥
श्रावणस्यासिते पक्षे पंचम्यां पर्यटन्वने
॥१३॥अथापश्यत्स नागेन्द्रतनयं भूरिवर्च्चसम् ॥
रुद्रमालमिति ख्यातं जनन्या सह संगतम्
॥१४॥अथाऽसौ तं समालोक्य सुलघुं सर्प पुत्रकम् ॥
जलसर्पमिति ज्ञात्वा लगुडेन व्यपोथयत्
॥१५॥हन्यमानेन तेनाथ प्रमुक्तः सुमहान्स्वनः ॥
हा मातस्तात तातेति विपन्नोऽस्मि निरागसः
॥१६॥सोऽपि श्रुत्वाऽथ तं शब्दं ब्राह्मणो मानुषोद्भवम् ॥
सर्पस्य भयसंत्रस्तः सत्वरं स्वगृहं ययौ
॥१७॥अथ सा जननी तस्य निष्क्रांता सलिलाश्रयात् ॥
यावत्पश्यति तीरस्थं तावत्पुत्रं निपातितम्
॥१८॥ततो मूर्च्छामनुप्राप्ता दृष्ट्वा पुत्रं तथाविधम् ॥
यष्टिप्रहारनिर्भिन्नं सर्वांगरुधिरोक्षितम्
॥१९॥अथ लब्ध्वा पुनः संज्ञां प्रलापानकरोद्बहून् ॥
करुणं शोकसंतप्ता वाष्पपर्याकुलेक्षणा
॥२०॥हाहा पुत्र परित्यक्त्वा मां च क्वासि विनिर्गतः ॥
अनावृत्तिकरं स्थानं किं स्नेहो नास्ति ते मयि
॥२१॥केन त्वं निहतः पुत्र पापेन च दुरात्मना ॥
निष्पापोऽपि च पुत्र त्वं कस्य क्रुद्धोऽद्यवै यमः
॥२२॥सपुरस्य सराष्ट्रस्य सकुटुंबस्य दुर्मतेः ॥
येन त्वं निहतोऽद्यापि पंचम्यां पूजितो न च
॥२३॥रजसा क्रीडयित्वाऽद्य समागत्य चिरादथ ॥
कामेनोत्संगमागत्य ग्लानिं नैष्यति चांबरम्
॥२४॥गद्गदानि मनोज्ञानि जनहास्यकराणि च ॥
त्वया विनाऽद्य वाक्यानि को वदिष्यति मे पुरः
॥२५॥पितुरुत्संगमाश्रित्य कूर्चाकर्षणपूर्वकम् ॥
कः करिष्यति पुत्राऽद्य सतोषं भवता विना
॥२६॥निषिद्धोऽसि मया वत्स त्वमायातोऽनुपृष्ठतः ॥
मर्त्यलोकमिमं तात बहुदोषसमाकुलम्
॥२७॥एवं विलप्य नागी सा संक्रुद्धा शोककर्षिता ॥
तं मृतं सुतमादाय जगामानंतसंनिधौ
॥२८॥ततस्तदग्रतः क्षिप्त्वा तं मृतं निजबालकम् ॥
प्रलापानकरोद्दीना वियुक्ता कुररी यथा
॥२९॥नागराजोऽपि तं दृष्ट्वा स्वपुत्रं विनिपातितम् ॥
जगाम सोऽपि मूर्च्छां च पुत्रशोकेन पीडितः
॥३०॥ततः सिक्तो जलैः शीतैः संज्ञां लब्ध्वा स कृच्छ्रतः ॥
प्रलापान्कृपणांश्चक्रे प्राकृतः पुरुषो यथा
॥३१॥एतस्मिन्नंतरे नागाः सर्वे तत्र समागताः ॥
रुरुदुर्दुःखिताः संतो बाष्पपर्याकुलेक्षणाः
॥३२॥वासुकिः पद्मजः शंखस्तक्षकश्च महाविषः ॥
शंखचूडः सचूडश्च पुंडरीकश्च दारुणः
॥३३॥अञ्जनो वामनश्चैव कुमुदश्च तथा परः ॥
कम्बलाश्वतरौ नागौ नागः कर्कोटकस्तथा
॥३४॥पुष्पदंतः सुदंतश्च मूषको मूषकादनः ॥
एलापत्रः सुपत्रश्च दीर्घास्यः पुष्पवाहनः
॥३५॥एते चान्ये तथा नागास्तत्राऽऽयाताः सहस्रशः ॥
पुत्रशोकाभिसतप्तं ज्ञात्वा तं पन्नगाधिपम्
॥३६॥ततः संबोध्य ते सर्वे तमीशं पवनाशनम् ॥
पूर्ववृत्तैः कथोद्भेदैर्दृष्टांतैर्विविधैरपि
॥३७॥एवं संबोधितस्तैस्तु चिरात्पन्नगसत्तमः ॥
अग्निदाह्यं ततश्चक्रे तस्य पुत्रस्य दुःखितः
॥३८॥जलदानस्य काले च सर्पान्सर्वानुवाच सः ॥
सर्वान्नागान्प्रदानार्थं तोयस्य समुपस्थितान्
॥३९॥नाहं तोयं प्रदास्यामि स्वपुत्रस्य कथंचन ॥
भवद्भिः प्रेरितोऽप्येवं तथान्यैरपि बांधवैः
॥४०॥यावत्तस्य न दुष्टस्य मम पुत्रांतकारिणः ॥
सदारपुत्रभृत्यस्य विहितो न परिक्षयः
॥४१॥एवमुक्त्वा ततः शेषः शोधयामास तं द्विजम् ॥
येन संसूदितः पुत्रो दंडकाष्ठेन पाप्मना
॥४२॥ततः प्रोवाच तान्नागान्पार्श्वस्थान्पन्नगाधिपः ॥
हाटकेश्वरजे क्षेत्रे यांतु मे सुहृदुत्तमाः
॥४३॥पुत्रघ्नं तं निहत्याऽऽशु सकुटुम्बपरिग्रहम् ॥
चमत्कारपुरं सर्वं भक्षणीयं ततः परम्
॥४४॥तत्रैव वसतिः कार्या समस्तैः पन्नगोत्तमैः ॥
यथा भूयो वसेन्नैव तथा कार्यं च तत्पुरम्
॥४५॥एवमुक्तास्ततस्तेन नागाः प्राधान्यतः श्रुताः ॥
गत्वाथ सत्वरं तत्र प्रथमं तं द्विजोत्तमम्
॥४६॥देवरातसुतं सुप्तं भक्षयित्वा ततः परम् ॥
तत्कुटुंबं समग्रं च क्रोधेन महतान्विताः
॥४७॥ततोऽन्यानपि संक्रुद्धा बालान्वृद्धान्कुमारकान् ॥
भक्षयामासुः सर्वे ते तिर्यग्योनिगता अपि
॥४८॥एतस्मिन्नंतरे जातः पुरे तत्र सुदारुणः ॥
आक्रंदो ब्राह्मणेंद्राणां सर्पभक्षणसंभवः
॥४९॥तत्र भूमौ तथाऽन्यच्च यत्किंचिदपि दृश्यते ॥
तत्सर्वं पन्नगैर्व्याप्तं रौद्रैः कृष्णवपुर्धरैः
॥५०॥एतस्मिन्नंतरे प्राप्ताः केचिन्मृत्युवशं गताः ॥
विषसं घूर्णिताः केचित्पतिता धरणीतले
॥५१॥अन्ये गृहादिकं सर्वं परित्यज्य सुतादि च ॥
वित्रस्ताः परिधावंति वनमुद्दिश्य दूरतः
॥५२॥अन्ये मंत्रविदो विप्राः प्रयतंते समंततः ॥
मंदं धावंति संत्रस्ता गृहीत्वौषधयः परे
॥५३॥एवं तत्पुरमुद्दिश्य सर्वे ते पन्नगोत्तमाः ॥
प्रचरंति यथा कश्चिन्न तत्र ब्राह्मणो वसेत्
॥५४॥अथ शून्यं पुरं कृत्वा सर्वे ते पन्नगोत्तमाः ॥
व्यचरन्स्वेच्छया तत्र तीर्थेष्वायतनेषु च
॥५५॥न कश्चित्पन्नगः क्षेत्रात्त्यक्त्वा निर्याति बाह्यतः ॥
प्रविशेन्न परः कश्चित्तत्र क्षेत्रे च मानवः
॥५६॥व्यवस्थैवं समुद्भूता सर्पाणां मानुषैः सह ।
वधभक्षणजा न्योन्यं बाह्याभ्यंतरसंभवा
॥५७॥एतस्मिन्नंतरे शेषो मुक्त्वा दुःखं सुतोद्भवम् ॥
प्रहृष्टः प्रददौ तोयं तस्य जातिभिरन्वितः
॥५८॥अथ ते ब्राह्मणाः केचित्सर्पेभ्यो भयविह्वलाः ॥
सशोका दिङ्मुखान्याशु ते सर्वे संगता मिथः
॥५९॥ततो वनं समाजग्मुस्त्रिजातो यत्र संस्थितः ॥
हरलब्धवरो हृष्टः सुमहत्तपसि स्थितः
॥६०॥स दृष्ट्वा ताञ्जनान्सर्वांस्तथा दुःखपरिप्लुतान् ॥
पुत्रदारादिकं स्मृत्वा रुदतः करुणं बहु
॥६१॥सोऽपि दुःखसमायुक्तो दृष्ट्वा तान्स्वपुरोद्भवान् ॥
ब्राह्मणेंद्रांस्ततः प्राह बाष्पव्याकुललोचनः
॥६२॥शृण्वंतु ब्राह्मणाः सर्वे वचनं मम सांप्रतम् ॥
मया विनिर्गतेनैव तत्पुरात्तोषितो हरः
॥६३॥तेन मह्यं वरो दत्तो वांछितो द्विजसत्तमाः ॥
गृहीतो न मयाद्यापि प्रार्थयिष्यामि सांप्रतम्
॥६४॥यथा स्यात्संक्षयस्तेषां नागानां सुदुरात्मनाम् ॥
यैः कृतं नः पुरं कृत्स्नमुद्रसं पापकर्मभिः
॥६५॥एवमुक्त्वाऽथ विप्रः स त्रिजातः परमेश्वरम् ॥
प्रार्थयामास मे देव तं वरं यच्छ सांप्रतम्
॥६६॥ततः प्रोवाच देवेशः प्रार्थयस्व द्रुतं द्विज ॥
येनाभीष्टं प्रयच्छामि यद्यपि स्यात्सुदुर्लभम्
॥६७॥त्रिजात उवाच
नागैरस्मत्पुरं कृत्स्नं कृतं जनविवर्जितम् ॥
तत्तस्मात्ते क्षयं यांतु सर्वे वृषभवाहन
॥६८॥येन तत्पूर्यते विप्रैर्भूयोऽपि सुरसत्तम ॥
ममापि जायते कीर्तिः स्वस्थानोद्धरणोद्भवा
॥६९॥श्रीभगवानुवाच
नायुक्तं विहितं विप्र पन्नगैस्तैर्महात्मभिः ॥
निर्दोषश्चापि पुत्रोऽत्र येषां विप्रेण सूदितः
॥७०॥विशेषेण द्विजश्रेष्ठ संप्राप्ते पंचमीदिने ॥
तत्राऽपि श्रावणे मासि पूज्यंते यत्र पन्नगाः
॥७१॥तस्मात्तेऽहं प्रवक्ष्यामि सिद्धमंत्रमनुत्तमम् ॥
यस्योच्चारणमात्रेण सर्प्पाणां नश्यते विषम्
॥७२॥तं मंत्रं तत्र गत्वा त्वं तद्विप्रैरखिलैर्वृतः ॥
श्रावयस्व महाभाग तारशब्देन सर्वशः
॥७३॥तं श्रुत्वा ये न यास्यंति पातालं पन्नगाधमाः ॥
युष्मद्वाक्याद्भविष्यंति निर्विषास्ते न संशयः
॥७४॥त्रिजात उवाच
ब्रूहि तं मे महामंत्रं सर्वतीक्ष्णविनाशनम् ॥
येन गत्वा निजं स्थानं सर्पानुत्सादयाम्यहम्
॥७५॥श्रीभगवानुवाच
गरं विषमिति प्रोक्तं न तत्रास्ति च सांप्रतम् ॥
मत्प्रसादात्त्वया ह्येतदुच्चार्यं ब्राह्मणोत्तम ॥
७६ न गरं न गरं चैतच्छ्रुत्वा ये पन्नगाधमाः ॥
तत्र स्थास्यंति ते वध्या भविष्यंति यथासुखम्
॥७७॥अद्यप्रभृति तत्स्थानं नगराख्यं धरातले ॥
भविष्यति सुविख्यातं तव कीर्तिविवर्धनम्
॥७८॥तथान्योपि च यो विप्रो नागरः शुद्धवंशजः ॥
नगराख्येन मंत्रेण अभिमंत्र्य त्रिधा जलम्
॥७९॥प्राणिनं काल संदष्टमपि मृत्युवशंगतम् ॥
प्रकरिष्यति जीवाढ्यं प्रक्षिप्य वदने स्वयम्
॥८०॥अन्यत्रापि स्थितो मर्त्यो मंत्रमेतं त्रिरक्षरम् ॥
यः स्मरिष्यति संसुप्तो न हिंस्यः स्यादहेर्हि सः
॥८१॥स्थावरं जंगमं वापि कृत्रिमं वा गरं हि तत् ॥
तदनेन च मंत्रेण संस्पृष्टं त्वमृतायितम्
॥८२॥अजीर्णप्रभवा रोगा ये चान्ये जठरोद्भवाः ॥
मंत्रस्यास्य प्रभावेन सर्वे यांति द्रुतं क्षयम्
॥८३॥एवमुक्त्वाऽथ तं विप्रं भगवान्वृषभध्वजः ॥
जगामादर्शनं पश्चाद्यथा दीपो वितैलकः
॥८४॥त्रिजातोऽपि समं विप्रैर्हतशेषैस्तु तैर्द्रुतम् ॥
जगाम संप्रहृष्टात्मा चमत्कारपुरं प्रति
॥८५॥एवं ते ब्राह्मणाः सर्वे त्रिजातेन समन्विताः ॥
न गरं न गरं प्रोच्चैरुच्चरंतः समाययुः
॥८६॥हाटकेश्वरजं क्षेत्रं यत्तद्व्याप्तं समंततः ॥
रौद्रैराशीविषैः क्रूरैः शेषस्यादेशमाश्रितेः
॥८७॥अथ ते पन्नगाः श्रुत्वा सिद्धमंत्र शिवोद्भवम् ॥
निर्विषास्तेजसा हीनाः समन्तात्ते प्रदुद्रवुः
॥८८॥वल्मीकान्केचिदासाद्य चित्ररंध्रांतरोद्भवान् ॥
अन्ये चापि प्रजग्मुश्च पातालं दंदशूककाः
॥८९॥ये केचिद्भयसंत्रस्ता वार्द्धक्येन निपीडिताः ॥
वालत्वेन तथा चान्ये शक्नुवंति न सर्पितुम्
॥९०॥ते सर्वे ब्राह्मणेन्द्रैस्तैः कृतस्य प्रतिकारकैः ॥
निहताः पन्नगास्तत्र दंडकाष्ठैः सहस्रशः
॥९१॥एवमुत्साद्य तान्सर्वान्ब्राह्मणास्ते गतव्यथाः ।
तं त्रिजातं पुरस्कृत्य स्थानकृत्यानि चक्रिरे
॥९२॥एवं तन्नगरं जातमस्मात्कालादनंतरम् ॥
देवदेवस्य भर्गस्य प्रसादेन द्विजोत्तमाः
॥९३॥एतद्यः पठते नित्यमाख्यानं नगरोद्भवम् ॥
न तस्य सर्पजं क्वापि कथंचिज्जायते भयम्
॥९४॥इति श्रीस्कादे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये नगरसंज्ञोत्पत्तिवर्णनंनाम चतुर्दशोत्तरशततमोऽध्यायः ॥ ११४ ॥