मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ९०

3
नागरखण्डः · 90

वसोर्द्धारामाहात्म्यवर्णनम्

ऋषय ऊचुः

अग्नितीर्थं त्वया प्रोक्तं ब्रह्मतीर्थं च यत्पुरा ॥

न तयोः कथितोत्पत्तिर्माहात्म्यं च महामते

॥१॥

तस्माद्विस्तरतो ब्रूहि एकैकस्य पृथक्पृथक् ॥

न वयं तृप्तिमापन्नाः शृण्वतस्ते वचोऽमृतम्

॥२॥

सूत उवाच

अत्र वः कीर्तयिष्यामि कथां पातकनाशिनीम् ॥

अग्नितीर्थसमुद्भूतां सर्वसौख्यावहां शुभाम्

॥३॥

सोमवंशसमुद्भूतः प्रतीपो नाम भूपतिः ॥

पुरासीच्छौर्यसंपन्नो ब्रह्मज्ञानविचक्षणः

॥४॥

तस्य पुत्रद्वयं जज्ञे सर्वलक्षणलक्षितम् ॥

देवापिः प्रथमस्तत्र द्वितीयः शंतनुर्द्विजाः

॥५॥

अथो शिवपदं प्राप्ते प्रतीपे नृपसत्तमे ॥

तपोऽर्थं राज्यमुत्सृज्य देवापिर्नियर्यौ वनम्

॥६॥

ततश्च मंत्रिभिः सर्वैः शंतनुस्तस्य चानुजः ॥

पितृपैतामहे राज्ये सत्वरं सन्नियोजितः

॥७॥

एतस्मिन्नंतरे शक्रो न ववर्ष क्रुद्धाऽन्वितः ॥

यावद्द्वादशवर्षाणि तस्मि न्राज्यं प्रशासति

॥८॥

अतः कृच्छ्रं गतः सर्वो लोकः क्षुत्परिपीडितः ॥

चामुंडासदृशो जातो यो न मृत्युवशंगतः

॥९॥

संत्यक्ताः पतिभिर्नार्यः पुत्राश्च पितृभिर्निजैः ॥

मातरश्च तथा पुत्रैर्लोकेष्वन्येषु का कथा

॥१०॥

दैवयोगात्क्वचित्किंचित्कस्यचिद्यदि दृश्यते ॥

सस्यं सिद्धमसिद्धं वा ह्रियते वीर्यतः परैः

॥११॥

शुष्का महीरुहाः सर्वे तथा ये च जलाशयाः ॥

नद्यश्च स्वल्पतोयाश्च गंगाद्या अपि संस्थिताः

॥१२॥

एवं वृष्टेः क्षये जाते नष्टे धर्मपथे तथा ॥

लोकेऽस्मिन्नस्थिसंघातैः पूरिते भस्मना वृते

॥१३॥

न कश्चिद्यजनं चक्रे न स्वाध्यायं न च व्रतम् ॥

एवमालोक्यते व्योम वृष्ट्यर्थं क्षुत्समाकुलैः

॥१४॥

एतस्मिन्नेव काले तु विश्वामित्रो महामुनिः ॥

चर्मास्थिशेषसर्वांगो बुभुक्षार्त इतस्ततः

॥१५॥

परिभ्रमंस्ततः प्राप्य कंचिद्ग्रामं निरुद्वसम् ॥

मृतमर्त्योद्भवैव्याप्तमस्थिसंघैः समंततः

॥१६॥

अथ तत्र भ्रमन्प्राप्तश्चंडालस्य निवेशनम् ॥

शून्ये गोऽस्थिसमाकीर्णे दुर्गंधेन समावृते

॥१७॥

अथापश्यन्मृतं तत्र सारमेयं चिरोषितम् ॥

संशुष्कं गन्धनिर्मुक्तं गृहप्रांते व्यवस्थितम्

॥१९॥

समादाय ततस्तं च आपद्धर्मपरायणः ॥

प्रक्षाल्य सलिले पश्चात्प्रचकर्त तदा मुनिः

॥१९॥

ततश्च श्रपयामास सुसमिद्धे हुताशने ॥

क्षुत्क्षामो भोजनार्थाय ततः पाकाग्रमेव च

॥२०॥

समादाय पितॄंस्तर्प्य यावदग्नौ जुहोति सः ॥

तावद्वह्निः परित्यज्य समस्तमपि भूतलम्

॥२१॥

गतश्चादर्शनं सद्यः सर्वेषां क्षितिवासिनाम् ॥

चित्ते कोपं समाधाय शक्रस्योपरि भूरिशः

॥२२॥

एतस्मिन्नंतरे वह्नौ मर्त्यलोकाद्विनिर्गते ॥

विशेषात्पीडिता लोका येऽवशिष्टा धरातले

॥२३॥

एतस्मिन्नंतरे देवा ब्रह्मविष्णुपुरः सराः ॥

वह्नेरन्वेषणार्थाय वभ्रमुर्धरणीतले

॥२४॥

अथ तैर्भ्रममाणैश्च प्रदृष्टोऽभूद्गजो महान् ॥

निश्वसन्पतितो भूमौ वह्नितापप्रपीडितः

॥२५॥

अथ देवा गजं दृष्ट्वा पप्रच्छुस्त्वरयाऽन्विताः ॥

कच्चित्त्वया स दृष्टोऽत्र कानने पावको गज

॥२६॥

गज उवाच

वंशस्तंबेऽत्र संकीर्णे संप्रविष्टो हुताशनः ॥

सांप्रतं तेन निर्दग्धः कृच्छ्रादत्राहमागतः

॥२७॥

अथ तैर्वेष्टितस्तस्मिन्वंशस्तंबे हुताशनः ॥

देवैर्दत्त्वा गजेंद्रस्य शापं पश्चाद्विनिर्गतः

॥२८॥

यस्मात्त्वयाहमादिष्टो देवानां वारणाधम ॥

तस्मात्तव मुखे जिह्वा विपरीता भविष्यति

॥२९॥

एवं शप्त्वा गजं शीघ्रं नष्टो वैश्वानरः पुनः ॥

देवाश्चापि तथा पृष्ठे संलग्नास्तद्दिदृक्षया

॥३०॥

अथ दृष्टः शुकस्तैश्च भ्रममाणैर्महावने ॥

भोभोः शुक त्वया वह्निर्यदि दृष्टो निवेद्यताम्

॥३१॥

शुक उवाच

योऽयं संदृश्यते दूराच्छमीगर्भे च पिप्पलः ॥

एतस्मिंस्तिष्ठते वह्निरश्वत्थे सुरसत्तमाः

॥३२॥

अत्रस्थो यः कुलायो म आसीच्छिशुसमन्वितः ॥

संदग्धस्तत्प्रतापेन अहंकृच्छ्राद्विनिर्गतः

॥३३॥

तच्छ्रुत्वा तैः सुरैः सर्वैः शमीगर्भः स तत्क्षणात् ॥

वेष्टितः पावकोऽप्याशु शुकं शप्त्वा विनिर्गतः

॥३४॥

अहं यस्मात्त्वया पाप देवानां संनिवेदितः ॥

तस्माच्छुक न ते वाणी विस्पष्टा संभविष्यति

॥३५॥

एवमुक्त्वा जातवेदा देवादर्शनवांछया ॥

हाटकेश्वरजे क्षेत्रे देवस्य परमेष्ठिनः

॥३६॥

जलाशयं सुगम्भीरं पूर्वोत्तरदिक्संस्थितम् ॥

दृष्ट्वा तत्र प्रविष्टस्तु निभृतं च समाश्रितः

॥३७॥

एतस्मिन्नंतरे तत्र मत्स्यकच्छपदर्दुराः ॥

वह्निप्रतापनिर्दग्धा दृश्यंते शतशो मृताः

॥३८॥

अथ चैकोऽर्धनिर्दग्ध आयुःशेषेण दर्दुरः ॥

तस्माज्जलाद्विनिष्क्रांतो दृष्टो देवैश्च दूरतः

॥३९॥

पृष्टश्च ब्रूहि चेद्भेक त्वया दृष्टो हुताशनः ॥

तदर्थमिह संप्राप्ताः सर्वे देवाः सवासवाः

॥४०॥

भेक उवाच

अस्मिञ्जलाशये वह्निः सांप्रतं पर्यवस्थितः ॥

तस्यैते जलमध्यस्था मृता भूरिजलोद्भवाः

॥४१॥

अस्माकं निधनं प्राप्तं कुटुम्बं सुरसत्तमाः ॥

अहं कृच्छ्रेण निष्क्रांत एतस्माज्जलसंश्रयात्

॥४२॥

तच्छ्रुत्वा ते सुराः सर्वे सर्वतस्तं जलाशयम् ॥

वेष्टयित्वा स्थितास्तत्र वह्निर्भेकं शशाप ह

॥४३॥

यस्माद्भेक त्वया मूढ देवेभ्योऽहं निवेदितः ॥

तस्मात्त्वं भविता नूनं विजिह्वोऽत्र धरातले

॥४४॥

एवमुक्त्वा ततः स्थानात्ततो वह्निर्विनिर्गतः ॥

तावत्स ब्रह्मणा प्रोक्तः स्वयमेव महात्मना

॥४५॥

भोभो वह्ने किमर्थं त्वं देवान्दृष्ट्वा प्रगच्छसि ॥

त्वमाद्यश्चैव सर्वेषामेतेषां संस्थितो मुखम्

॥४६॥

त्वय्याहुतिर्हुता सम्यगादित्यमुपतिष्ठते ॥

आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः

॥४७॥

तस्माद्धाता विधाता च त्वमेव जगतः स्थितः ॥

संतुष्टे धार्यते विश्वं त्वयि रुष्टे विनंक्ष्यति

॥४८॥

अग्निष्टोमादिका यज्ञास्त्वयि सर्वे प्रतिष्ठिताः ॥

अथ सर्वाणि भूतानि जीवंति तव संश्रयात्

॥४९॥

त्वमग्ने सर्वभूतानामन्तश्चरसि सर्वदा ॥

तेनैवान्नं च पानं च जठरस्थं पचत्यलम

॥५०॥

तस्मात्कुरु प्रसादं त्वं सर्वेषां च दिवौकसाम् ॥

कोपस्य कारणं ब्रूहि यतस्त्यक्त्वा प्रगच्छसि

॥५१॥

सूत उवाच

तस्य तद्वचनं श्रुत्वा देवस्य परमेष्ठिनः ॥

प्रोवाच प्रणयात्कोपं कृत्वा नत्वा च पद्मजम्

॥५२॥

अग्निरुवाच

अहं कोपं समाधाय शक्रस्योपरि पद्मज ॥

प्रणष्टो जगदुत्सृज्य यस्मात्तत्कारणं शृणु

॥५३॥

अनावृष्ट्या महेन्द्रस्य संजातश्चौषधीक्षयः ॥

ततोऽस्म्यहं श्वमांसेन विश्वामित्रेण योजितः

॥५४॥

एतस्मात्कारणान्नष्टो न कामान्न च संभ्रमात् ॥

अभक्ष्यभक्षणाद्भीतः सत्यमेतन्मयोदितम्

॥५५॥

तच्छ्रुत्वा स चतुर्वक्त्रः शक्रमाह ततः परम् ॥

युक्तमेव शिखी प्राह किमर्थं न च वर्षसि

॥५६॥

शक्र उवाच

ज्येष्ठं भ्रातरमुल्लंघ्य शंतनुः पृथिवीपतिः ॥

पितृपैतामहे राज्ये स निविष्टः पितामह

॥५७॥

एतस्मात्कारणाद्वृष्टिः संनिरुद्धा मया प्रभो ॥

तद्ब्रूहि किं करोम्यद्य त्वं प्रमाणं पितामह

॥५८॥

पितामह उवाच

तस्याक्रमस्य संप्राप्तं पापं तेन महीभुजा ॥

उपभुक्तमवृष्ट्याद्य तस्माद्वृष्टिं कुरु द्रुतम्

॥५९॥

मद्वाक्याद्याति नो नाशं यावदेतज्जगत्त्रयम् ॥

अकालेनापि देवेन्द्र सस्याभावाद्बुभुक्षया

॥६०॥

एतस्मिन्नंतरे शक्र आदिदेश त्वरान्वितः ॥

पुष्करावर्तकान्मेघान्वृष्ट्यर्थं धरणीतले

॥६१॥

तेऽपि शक्रसमादेशात्समस्तधरणीतलम् ॥

तत्क्षणात्पूरयामासुर्गर्जन्तो विद्युदन्विताः

॥६२॥

अथाब्रवीत्पुनर्ब्रह्मा देवैः सार्धं हुताशनम् ॥

अग्निहोत्रेषु विप्राणां प्रत्यक्षो भव पावक ॥

सांप्रतं त्वं वरं मत्तः प्रार्थयस्वाभिवांछितम्

॥६३॥

अग्निरुवाच

अयं जलाशयः पुण्यो मन्नाम्ना पृथिवीतले ॥

ख्यातिं यातु चतुर्वक्त्र वह्नितीर्थमिति स्मृतम्

॥६४॥

अत्र यः प्रातरुत्थाय स्नात्वा श्रद्धा समन्वितः ॥

अग्निसूक्तं जपित्वा च त्वां प्रपश्यति सादरम् ॥

तस्य तुष्टिस्त्वया कार्या द्रुतं मद्वाक्यतः प्रभो

॥६५॥

श्रीब्रह्मोवाच

अत्र यः प्रातरुत्थाय स्नात्वा वै वेदविद्द्विजः ॥

अग्निसूक्तं जपित्वा च वीक्षयिष्यति मां ततः

॥६६॥

अग्निष्टोमस्य यज्ञस्य सकलं लप्स्यते फलम् ॥

अनेकजन्मजं पापं नाशमेष्यति पावक

॥६७॥

सूत उवाच

एवमुक्त्वा स भगवान्विरराम पितामहः ॥

पावकोऽपि च विप्राणामग्निहोत्रेषु संस्थितः

॥६८॥

एवं तत्र समुद्भूतं वह्नितीर्थं महाद्भुतम् ॥

तत्र स्नातो नरः प्रातः सर्वपापैः प्रमुच्यते

॥६९॥

अग्निरुवाच

ममातृप्तस्य लोकेश तावद्द्वादशवत्सरान् ॥

क्षुत्पीडासंवृते मर्त्ये न प्राप्तं कुत्रचिद्धविः

॥७०॥

भविष्यंति तथा यज्ञा कालेन महता विभो ॥

संजातैः पशुभिर्भूयः सस्यादैरपरैर्भुवि

॥७१॥

श्रीब्रह्मोवाच

अत्र ये ब्राह्मणाः केचिन्निवसंति हुताशन ॥

वसोर्द्धाराप्रदानेन ते त्वां नक्तंदिनं सदा

॥७२॥

तर्पयिष्यंति सद्भक्त्या ततः पुष्टिमवाप्स्यसि ॥

तेऽपि काम्यैर्मनोऽभीष्टैर्भविष्यंति समन्विताः

॥७३॥

संक्रांति समये येषां वसोर्धाराप्रदायिनाम् ॥

भविष्यति क्षुतं वह्ने हूयमाने तवानल

॥७४॥

तेषां पापं च यत्किंचिज्ज्ञानतोऽज्ञानतः कृतम् ॥

तद्यास्यति क्षयं सर्वमाजन्ममरणांतिकम्

॥७५॥

त्वयि तुष्टिं गते पश्चाद्भविष्यति महीपतिः ॥

शिबिर्नाम सुविख्यात उशीनरसमुद्रवः

॥७६॥

स कृत्वा श्रद्धया युक्तः सत्रं द्वादशवार्षिकम् ॥

वसोर्द्धाराप्रदानेन वर्षं त्वां तर्पयिष्यति ॥

कलशस्य च वक्त्रेणाविच्छिन्नेन दिवानिशम्

॥७७॥

ततस्तुष्टिं परां प्राप्य परां पुष्टिमवाप्स्यसि ॥

पूज्यमानो धरापृष्ठे सर्वैर्वेदविदां वरैः

॥७८॥

अद्यप्रभृति यत्किंचित्कर्म चात्र भविष्यति ॥

शांतिकं पौष्टिकं वापि वसोर्द्धारासमन्वितम् ॥

संभविष्यति तत्सर्वं तव तृप्तिकरं परम्

॥७९॥

अपि यद्वैश्वदेवीयं कर्म किंचिद्द्विजन्मनाम् ॥

वसोर्द्धाराविहीनं च निष्फलं संभविष्यति

॥८०॥

यस्माद्भवति संपूर्णं कर्म यज्ञादिकं हि तत् ॥

शांतिकं वैश्वदेवं च पूर्णाहुतिरिहोच्यते

॥८१॥

यः सम्यक्छ्रद्धया युक्तो वसोर्द्धारां प्रदास्यति ॥

स कामं मनसा ध्यातं समवाप्स्यति कृत्स्नशः

॥८२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये वसोर्द्धारामाहात्म्यवर्णनंनाम नवतितमोऽध्यायः ॥ ९० ॥