ब्राह्मणचित्रशर्मलिंगस्थापनवृत्तांतवर्णनम्
ऋषय ऊचुः
अष्टषष्टिरियं प्रोक्ता या त्वया सूतनन्दन ॥
क्षेत्राणां देवदेवस्य कथं सा तत्र संस्थिता ॥
एतत्सर्वं समाचक्ष्व परं कौतूहलं हि नः
॥१॥सूत उवाच
प्रश्नभारो महानेष यो भवद्भिः प्रकीर्तितः ॥
तथापि कीर्तयिष्यामि नमस्कृत्वा पिनाकिनम्
॥२॥चमत्कारपुरेऽवासीत्पूर्वं ब्राह्मणसत्तमः ॥
वत्सस्यान्वयसंभूतश्चित्रशर्मा महायशाः
॥३॥तस्य बुद्धिरियं जाता पाताले हाटकेश्वरम् ॥
अत्रानीय ततो भक्त्या पूजयामि दिवानिशम्
॥४॥एवं स निश्चयं कृत्वा तपश्चके ततः परम् ॥
नियतो नियताहारः परां निष्ठां समाश्रितः
॥५॥तस्यापि भगवाञ्छंभुः कालेन महता ततः ॥
संतुष्टो ब्राह्मण श्रेष्ठास्ततः प्रोवाच सादरम्
॥६॥वरं प्रार्थय विप्रेन्द्र यत्ते मनसि वर्तते ॥
अपि त्रैलोक्यराज्यं ते तुष्टो दास्याम्यसंशयम्
॥७॥तस्मात्प्रार्थय ते नित्यं यत्र चित्ते व्यवस्थितम् ॥
दुर्लभं सर्वदेवानां मनुष्याणां विशेषतः
॥८॥चित्रशर्मोवाच
यदि तुष्टोसि मे देव वरं चेन्मे प्रयच्छसि ॥
तदत्रागच्छ पातालाल्लिंगरूपी सुरेश्वर
॥९॥यत्पाताले स्थितं लिंगं ब्रह्मणा संप्रतिष्ठितम् ॥
हाटकेश्वरसंज्ञं तु तदिहायातु सत्व रम्
॥१०॥श्रीभगवानुवाच
अचलं सर्वलिंगं स्यात्सर्वत्रापि द्विजोत्तम ॥
कि पुनः प्रथमं यच्च ब्रह्मणा निर्मितं स्वयम्
॥११॥तस्मात्थापय लिंगं तद्धाटकेन द्विजोत्तम ॥
हाटकेश्वरसंज्ञं तु लोके ख्यातं भविष्यति
॥१२॥सोमवारे चतुदश्यां शुक्लायां श्रद्धयान्वितः ॥
यस्तद्भक्तिसमायुक्तः पूजयिष्यति मानवः
॥३॥आद्यलिंगोद्भवं श्रेयः पूजया लप्स्यते द्विज ॥
एवमुक्त्वाऽथ भगवांस्ततश्चादर्शनं गतः
॥४॥चित्रशर्माऽपि कृत्वाथ प्रासादं सुमनोहरम् ॥
तत्र हेममयं लिंगं स्थापयामास भक्तितः
॥१५॥शास्त्रोक्तेन विधानेन पूजां चक्रे च नित्यशः ॥
ततस्त्रैलोक्य विख्यातं तल्लिंगं तत्र वै द्विजाः
॥१६॥दूरादभ्येत्य लोकाश्च पूजयंति ततः परम् ॥
अथ तत्र द्विजा येऽन्ये संस्थिता गुणवत्तराः
॥१७॥तेषां स्पर्धा ततो जाता दृष्ट्वा तस्य विचेष्टितम् ॥
एकस्थानप्रसूतानां सर्वेषां गुणशालिनाम्
॥१८॥अयं गुणविहीनोऽपि प्रख्यातो भुवनत्रये ॥
हराराधनमासाद्य यस्मात्तस्माद्वयं हरम् ॥
तदर्थे तोषयिष्यामः साम्यं येन प्रजायते
॥१९॥अष्टषष्टिः स्मृता लोके क्षेत्राणां शूलपाणिनः ॥
यत्र सान्निध्यमभ्येति त्रिकालं परमेश्वरः
॥२०॥अष्टषष्टिश्च गोत्राणामस्माकं चात्र संस्थिता ॥
एतेन मूढमनसा सार्धं सामान्यलक्षणा
॥२२॥तस्मादनेन चाराध्य भगवन्तं त्रिलोचनम् ॥
तच्च लिंगं समानीतमत्र पातालसंस्थितम्
॥२२॥तथा सर्वैश्च सर्वाणि क्षेत्रलिंगानि कृत्स्नशः ॥
आनेतव्यानि चाराध्य तपःशक्त्या महेश्वरम्
॥२३॥एतेषां सर्वगोत्राणामानेष्यति च शंकरः ॥
यद्गोत्रं क्षेत्रसंयुक्तं यच्चान्यद्वा भविष्यति
॥२४॥ततस्ते शर्मसंयुक्ताः सर्व एव द्विजोत्तमाः ॥
चक्रुस्तपःक्रियां सर्वे दुष्करां सर्वजन्तुभिः
॥२५॥जपैर्होमोपवासैश्च नियमैश्च पृथग्विधैः ॥
बलिपूजोपहारैश्च स्नानदानादिभिस्तथा
॥२६॥लिंगं संस्थाप्य देवस्य नाम्ना ख्यातं द्विजेश्वरम् ॥
मनोहरतरे प्रोच्चे प्रासादे पर्वतोपमे
॥२७॥त्यक्त्वा गृहक्रियाः सर्वास्तथा यज्ञसमुद्भवाः ॥
अन्याश्च लोकयात्रोत्थास्तोषयंति महेश्वरम्
॥२८॥एवमाराध्यमानोऽपि सन्तोषं परमेश्वरः ॥
नाभ्यगच्छत्परां तुष्टिं कथंचिदपि स द्विजाः
॥२९॥ततो वर्षसहस्रांते समाराध्य महेश्वरम् ॥
न च किञ्चित्फलं प्राप्ता यावत्क्रुद्धास्ततोऽखिलाः
॥३०॥अस्य मूर्खतमस्याऽपि त्वं शूलिंश्चित्रशर्मणः ॥
सुस्तोकेनाऽपि कालेन सन्तोषं परमं गतः
॥३१॥वयं वार्धक्यमापन्ना बाल्यात्प्रभृति शंकरम् ॥
पूजयन्तोऽपि नो दृष्टस्तथाऽपि परमेश्वर
॥३२॥तस्मात्सर्वे प्रकर्तव्यं हव्यवाहप्रवेशनम् ॥
अस्माभिर्निश्चयो ह्येष तवाग्रे सांप्रतं कृतः
॥३३॥ततश्चाहृत्य काष्ठानि सर्वे ते द्विजसत्तमाः ॥
ईश्वरं मनसि ध्यात्वा चिताश्चक्रुः पृथग्विधाः
॥३४॥तथा सर्वं क्रियाकल्पं स्नानदानादिकं च यत् ॥
कृत्वा ते ब्राह्मणाः सर्वे सुसमिद्धहुताशनम्
॥३५॥यावत्कृत्वा सुतैः सार्धं प्रविशंति समाहिताः ॥
तावत्स भगवांस्तुष्टस्तेषां संदर्शनं ययौ
॥३६॥अब्रवीच्च विहस्योच्चैर्मेघगम्भीरया गिरा ॥
सर्वांस्तान्ब्राह्मणश्रेष्ठान्मृतान्संजीवयन्निव
॥३७॥भो भो ब्राह्मणशार्दूला मा मैवं साहसं महत् ॥
यूयं कुरुत मद्वाक्यात्संतुष्टस्य विशेषतः
॥३८॥तस्माद्वदत यच्चित्ते युष्माकं चैव संस्थितम् ॥
येन दत्त्वा प्रगच्छामि स्वमेव भुवनं पुनः
॥३९॥ब्राह्मणा ऊचुः
अस्मिन्क्षेत्रे सुरश्रेष्ठ पुरस्यास्य च संनिधौ ॥
क्षेत्राणामष्टषष्टिर्या धन्या संकीर्त्यते जनैः
॥४०॥सदाभ्यैतु समं लिंगैस्तैराद्यैः सुरसत्तम ॥
येनामर्षप्रशांतिर्नः सर्वेषामिह जायते
॥४१॥एष संस्पर्धतेऽस्माभिः सर्वैर्गुणविवर्जितः ॥
त्वल्लिंगस्य प्रभावेन तस्मादेतत्समाचर
॥४२॥सूत उवाच
एतस्मिन्नंतरे विप्रो ज्ञात्वा तं वरदं हरम् ॥
उवाच स्पर्धया युक्तश्चित्रशर्मा महेश्वरम्
॥४३॥चित्रशर्मोवाच
एतैः प्राणपरित्यागमारभ्य तदनतरम् ॥
तुष्टिं नीतोऽसि देवश कृत्वा च सुमहत्तपः
॥४४॥मया स्पर्द्धमानैश्च केवलं गुणगर्वितैः ॥
तस्मादेषो न दातव्यत्वं त्वया किंचित्सुरेश्वर
॥४६॥यदि त्वं मामतिक्रम्य संप्रदास्यसि वांछितम् ॥
एतैः पुत्रकलत्रैश्च सार्धं प्रत्यक्षतस्तव ॥
पावकं साधयिष्यामि तस्माद्युक्तं समाचर
॥४६॥सूत उवाच
तस्य तद्वचनं श्रुत्वा भगवाञ्छशिशेखरः ॥
चिन्तयामास चित्तेन किमत्र सुकृतं भवेत्
॥४७॥एते ब्राह्मणशार्दूला विनाशं यांति मत्कृते ॥
एषोऽपि सर्वसंसिद्धो गणतुल्यो द्विजोत्तमः
॥४८॥तस्माद्द्वाभ्यां मया कार्यं क्षेत्रे सौख्यं यथा भवेत् ॥
ब्राह्मणानां विशेषेण तथा चात्र निवासिनाम्
॥४९॥ममापि सर्वदा चित्ते कृत्यमेतद्धि वर्तते ॥
एक स्थाने करोम्येव सर्वक्षेत्राणि यानि मे
॥५०॥भविष्यति तथा कालो रौद्रः कलिसमुद्भवः ॥
तत्र क्षेत्राणि तीर्थानि नाशं यास्यंति भूतले
॥५१॥सत्तीर्थैस्तद्भयात्सर्वैः क्षेत्रमेतत्समाश्रितम् ॥
आनयिष्याम्यहमपि स्वानि क्षेत्राणि कृत्स्नशः
॥५२॥ततस्तं चित्रशर्माणं प्राह चेदं महेश्वरः ॥
शृणु मद्वचनं कृत्स्नं कुरुष्व तदनंतरम्
॥५३॥अत्र क्षेत्राणि सर्वाणि मदीयानि द्विजोत्तम ॥
समागच्छंतु विप्राश्च प्रभवंतु प्रहर्षिताः
॥५४॥तवापि योग्यतां श्रेष्ठां करिष्यामि महामते ॥
यदि मे वर्तसे वाक्ये मुक्त्वा स्पर्द्धां द्विजोद्भवाम्
॥५५॥तुरीयमपि ते गोत्रं वेदोक्तेन क्रमेण च ॥
आद्यतां चापि ते सर्वे कीर्तयिष्यंति ते द्विजाः
॥५६॥तथान्यदपि सन्मानं तव यच्छामि च द्विज ॥
आचन्द्रार्कमसंदिग्धं पुत्रपौत्रादिकं च यत्
॥५७॥त्वदन्वये भविष्यंति पुत्रपौत्रास्तथा परे ॥
कृत्ये श्राद्धे तर्पणे वा क्रियमाणे विधानतः
॥५८॥आद्यस्य वत्ससंज्ञस्य नाम उच्चार्य गोत्रजम् ॥
ततो नामानि चाप्येवं कीर्तयिष्यंति भक्तितः
॥५९॥ततः संतर्पयिष्यंति पितॄनथ पितामहान् ॥
तथान्यानपि बंधूंश्च सुहृत्संबंधिबांधवान्
॥६०॥त्वदन्वये विना नाम्ना त्वदीयेन विमोहिताः ॥
ये पितॄंस्तर्पयिष्यंति तेषां व्यर्थं भविष्यति
॥६१॥श्राद्धं वा यदि वा दानं तर्पणं वा त्वदुद्भवम् ॥
तस्मादहंकृतिं मुक्त्वा मामाराधय केवलम्
॥६२॥येन सिद्धोऽपि संसिद्धिं परामाप्नोषि शाश्वतीम् ॥
एवं संबोध्य तं विप्रं कृत्वाद्यमपि पश्चिमम्
॥६३॥ततस्तान्ब्राह्मणानाह प्रासादः क्रियतामिति ॥
गोत्रंगोत्रं पुरस्कृत्य स्थाप्यं लिंगमनुत्तमम् ॥
येन संक्रमणं तेषु मम संजायतेद्विजाः
॥६४॥अथ ते ब्राह्मणास्तत्र भूमिभागान्मनोहरान् ॥
दृष्ट्वादृष्ट्वा प्रचक्रुश्च प्रासादान्हर्षसंयुताः
॥६५॥अष्टषष्टिमितान्दिव्यान्कैलासशिखरोपमान् ॥
तेषु संस्थापयामासु लिङ्गानि विविधानि च ॥
क्षेत्रेक्षत्रे च यन्नाम तत्तत्संज्ञां प्रचक्रिरे
॥६६॥अथ तेषां पुनर्दृष्टिं गत्वा देवस्त्रिलोचनः ॥
प्रोवाच मधुरं वाक्यं कस्मिंश्चित्कालपर्यये ॥
आराधितस्तपःशक्त्या लिंगसंस्थापनादनु
॥६७॥श्रीभगवानुवाच
परितुष्टोऽस्मि विप्रेंद्रा युष्माकमहमद्य वै ॥
एतन्मम कृतं कृत्यं भवद्भिरखिलं ततः
॥६८॥अस्मदीयानि लिंगानि क्षेत्राणि च कलेर्भयात् ॥
ततो मान्याश्च मे यूयं नान्यैरेतद्भविष्यति
॥६९॥तस्माच्चित्तस्थितं शीघ्रं प्रार्थयंतु द्विजोत्तमाः ॥
संप्रयच्छामि येनाशु यद्यपि स्यात्सुदुर्लभम्
॥७०॥ब्राह्मणा ऊचुः
यदि देव प्रसन्नस्त्वमस्माकं च सुरेश्वर ॥
पश्चिमश्चित्रशर्मा च यथाद्यो भवता कृतः
॥७१॥अस्मदीयं सदा नाम कीर्तनीयमसंशयम् ॥
श्राद्धकृत्येषु सर्वेषु यथा तेन समा वयम् ॥
भवामस्त्वत्प्रसादेन सांप्रतं चित्रशर्मणा
॥७२॥श्रीभगवानुवाच
युष्माकमपि ये केचिद्वशं यास्यंति मानवाः ॥
युवानः शास्त्रसंयुक्ता वेदविद्याविशारदाः
॥७३॥आनयिष्यथ तान्यूयमामुष्यायणसंज्ञितान् ॥
नित्यं स्थिताश्च ते क्षेत्रे श्राद्धस्याक्षय्यकारकाः
॥७४॥एवमुक्त्वाथ देवेशस्ततश्चादर्शनं गतः ॥
तेऽपि विप्राः सुसंतुष्टास्तत्र स्थाने व्यवस्थिताः
॥७५॥एवं तत्र समस्तानि क्षेत्राण्यायतनानि च ॥
कलिभीतानि विप्रेंद्रा निवसंति सदैव हि
॥७६॥एवं ते ब्राह्मणाः प्राप्य सिद्धिं चेश्वरपूजनात् ॥
ख्याताः सर्वत्र भुवने श्राद्धस्याक्षय्यकारकाः
॥७७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्र माहात्म्ये ब्राह्मणचित्रशर्मलिंगस्थापनवृत्तांतवर्णनंनाम सप्तोत्तरशततमोऽध्यायः ॥ १०७ ॥