मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १८१

3
नागरखण्डः · 181

एतस्मिन्नंतरे सर्वेर्नागरैर्ब्राह्मणोत्तमैः

सूत उवाच

एतस्मिन्नंतरे सर्वेर्नागरैर्ब्राह्मणोत्तमैः ॥

प्रेषितो मध्यगस्तत्र गर्तातीर्थसमुद्भवः

॥१॥

रेरे मध्यग गत्वा त्वं ब्रूहि तं कुपितामहम् ॥

विप्रवृत्ति प्रहंतारं नीतिमार्गविवर्जितम्

॥२॥

एतत्क्षेत्रं प्रदत्तं नः पूर्वेषां च द्विजन्मनाम् ॥

महेश्वरेण तुष्टेन पूरिते सर्पजे बिले

॥३॥

तस्य दत्तस्य चाद्यैव पितामहशतं गतम् ॥

पंचोत्तरमसन्दिग्धं यावत्त्वं कुपितामह

॥४॥

न केनापि कृतोऽस्माकं तिरस्कारो यथाऽधुना ॥

त्वां मुक्त्वा पापकर्माणं न्यायमार्गविवर्जितम्

॥५॥

नागरैर्ब्राह्मणैर्बाह्यं योऽत्र यज्ञं समाचरेत् ॥

श्राद्धं वा स हि वध्यः स्यात्सर्वेषां च द्विजन्मनाम्

॥६॥

न तस्य जायते श्रेयस्तत्समुत्थं कथंचन ॥

एतत्प्रोक्तं तदा तेन यदा स्थानं ददौ हि नः

॥७॥

तस्माद्यत्कुरुषे यज्ञं ब्राह्मणैर्नागरैः कुरु ॥

नान्यथा लप्स्यसे कर्तुं जीवद्भिर्नागरैर्द्विजैः

॥८॥

एवमुक्तस्ततो गत्वा मध्यगो यत्र पद्मजः ॥

यज्ञमण्डपदूरस्थो ब्राह्मणैः परिवारितः

॥९॥

यत्प्रोक्तं नागरैः सर्वैः सविशेषं तदा हि सः ॥

तच्छ्रुत्वा पद्मजः प्राह सांत्वपूर्वमिदं वचः

॥१०॥

मानुषं भावमापन्न ऋत्विग्भिः परिवारितः ॥

त्वया सत्यमिदं प्रोक्तं सर्वं मध्यगसत्तम

॥११॥

किं करोमि वृताः सर्वे मया ते यज्ञकर्मणि ॥

ऋत्विजोऽध्वर्यु पूर्वा ये प्रमादेन न काम्यया

॥१२॥

तस्मादानय तान्सर्वानत्र स्थाने द्विजोत्तमान् ॥

अनुज्ञातस्तु तैर्येन गच्छामि मखमण्डपे

॥१३॥

मध्यग उवाच

त्वं देवत्वं परित्यज्य मानुषं भावमाश्रितः ॥

तत्कथं ते द्विजश्रेष्ठाः समागच्छंति तेंऽतिकम्

॥१४॥

श्रेष्ठा गावः पशूनां च यथा पद्मसमुद्भव ॥

विप्राणामिह सर्वेषां तथा श्रेष्ठा हि नागराः

॥१५॥

तत्माच्चेद्वांछसि प्राप्तिं त्वमेतां यज्ञसंभवाम् ॥

तद्भक्त्यानागरान्सर्वान्प्रसादय पितामह

॥१६॥

सूत उवाच

तच्छ्रुत्वा पद्मजो भीत ऋत्विग्भिः परिवारितः ॥

जगाम तत्र यत्रस्था नागराः कुपिता द्विजाः

॥१७॥

प्रणिपत्य ततः सर्वान्विनयेन समन्वितः ॥

प्रोवाच वचनं श्रुत्वा कृतांजलिपुटः स्थितः

॥१८॥

जानाम्यहं द्विजश्रेष्ठाः क्षेत्रेऽस्मिन्हाट केश्वरे ॥

युष्मद्बाह्यं वृथा श्राद्धं यज्ञकर्म तथैव च

॥१९॥

कलिभीत्या मयाऽऽनीतं स्थानेऽस्मिन्पुष्करं निजम् ॥

तीर्थं च युष्मदीयं च निक्षेपोऽ यंसमर्पितः

॥२०॥

ऋत्विजोऽमी समानीता गुरुणा यज्ञसिद्धये ॥

अजानता द्विजश्रेष्ठा आधिक्यं नागरात्मकम्

॥२१॥

तस्माच्च क्षम्यतां मह्यं यतश्च वरणं कृतम् ॥

एतेषामेव विप्राणामग्निष्टोमकृते मया

॥२२॥

एतच्च मामकं तीर्थं युष्माकं पापनाशनम् ॥

भविष्यति न सन्देहः कलिकालेऽपि संस्थिते

॥२३॥

ब्राह्मणा ऊचुः

यदि त्वं नागरैर्बाह्यं यज्ञं चात्र करिष्यसि ॥

तदन्येऽपि सुराः सर्वे तव मार्गानुयायि नः ॥

भविष्यन्ति तथा भूपास्तत्कार्यो न मखस्त्वया

॥२४॥

यद्येवमपि देवेश यज्ञकर्म करिष्यसि ॥

अवमन्य द्विजान्सर्वाक्षिप्रं गच्छास्मदंतिकात्

॥२५॥

ब्रह्मोवाच

अद्यप्रभृति यः कश्चिद्यज्ञमत्र करिष्यति ॥

श्राद्धं वा नागरैर्बाह्यं वृथा तत्संभविष्यति

॥२६॥

नागरोऽपि च यो न्यत्र कश्चिद्यज्ञं करिष्यति ॥

एतत्क्षेत्रं परित्यज्य वृथा तत्संभविष्यति

॥२७॥

मर्यादेयं कृता विप्रा नागराणां मयाऽधुना ॥

कृत्वा प्रसादमस्माकं यज्ञार्थं दातुमर्हथ ॥

अनुज्ञां विधिवद्विप्रा येन यज्ञं करोम्यहम्

॥२८॥

सूत उवाच

ततस्तैर्ब्राह्मणैस्तुष्टैरनुज्ञातः पितामहः ॥

चकार विधिवद्यज्ञं ये वृता ब्राह्मणाश्च तैः

॥२९॥

विश्वकर्मा समागत्य ततो मस्तकमण्डनम् ॥

चकार ब्राह्मणश्रेष्ठा नागराणां मते स्थितः

॥३०॥

ब्रह्मापि परमं तोषं गत्वा नारदमब्रवीत् ॥

सावित्रीमानय क्षिप्रं येन गच्छामि मण्डपे

॥३१॥

वाद्यमानेषु वाद्येषु सिद्धकिन्नरगुह्यकैः ॥

गन्धर्वैर्गीतसंसक्तैर्वेदोच्चारपरैर्द्विजैः ॥

अरणिं समुपादाय पुलस्त्यो वाक्यमब्रवीत्

॥३२॥

पत्नी ३ पत्नीति विप्रेन्द्राः प्रोच्चैस्तत्र व्यवस्थिताः

॥३३॥

एतस्मिन्नंतरे ब्रह्मा नारदं मुनिसत्तमम् ॥

संज्ञया प्रेषयामास पत्नी चानीयतामिति

॥३४॥

सोऽपि मंदं समागत्य सावित्रीं प्राह लीलया ॥

युद्धप्रियोंऽतरं वांछन्सावित्र्या सह वेधसः [

॥३५॥

अहं संप्रेषितः पित्रा तव पार्श्वे सुरेश्वरि ॥

आगच्छ प्रस्थितः स्नातः सांप्रतं यज्ञमण्डपे

॥३६॥

परमेकाकिनी तत्र गच्छमाना सुरेश्वरि ॥

कीदृग्रूपा सदसि वै दृश्यसे त्वमनाथवत्

॥३७॥

तस्मादानीयतां सर्वा याः काश्चिद्देवयोषितः ॥

याभिः परिवृता देवि यास्यसि त्वं महामखे

॥३८॥

एवमुक्त्वा मुनिश्रेष्ठो नारदो मुनिसत्तमः ॥

अब्रवीत्पितरं गत्वा तातांबाऽऽकारिता मया

॥३९॥

परं तस्याः स्थिरो भावः किंचित्संलक्षितो मया ॥

तस्य तद्वचनं श्रुत्वा ततो मन्युसमन्वितः

॥४॥

पुलस्त्यं प्रेषयामास सावित्र्या सन्निधौ ततः ॥

गच्छ वत्स त्वमानीहि स्थानं सा शिथिलात्मिका ॥

सोमभारपरिश्रांतं पश्य मामूर्ध्वसंस्थितम्

॥४१॥

एष कालात्ययो भावि यज्ञकर्मणि सांप्रतम् ॥

यज्ञयानमुहूर्तोऽयं सावशेषो व्यवस्थितः

॥४२॥

तस्य तद्वचनं श्रुत्वा पुलस्त्यः सत्वरं ययौ ॥

सावित्री तिष्ठते यत्र गीतनृत्यसमाकुला

॥४३॥

ततः प्रोवाच किं देवि त्वं तिष्ठसि निराकुला ॥

यज्ञयानोचितः कालः सोऽयं शेषस्तु तिष्ठति

॥४४॥

तस्मादागच्छ गच्छामस्तातः कृच्छ्रेण तिष्ठति ॥

सोमभारार्द्दितश्चोर्ध्वं सर्वैर्देवैः समावृतः

॥४५॥

सावित्र्युवाच

सर्वदेववृतस्तात तव तातो व्यवस्थितः ॥

एकाकिनी कथं तत्र गच्छाम्यहमनाथवत्

॥४६॥

तद्ब्रूहि पितरं गत्वा मुहूर्तं परिपाल्यताम्

॥४७॥

यावदभ्येति शक्राणी गौरी लक्ष्मीस्तथा पराः ॥

देवकन्याः समाजेऽत्र ताभिरेष्याम्यह८द्रुतम्

॥४८॥

सर्वासां प्रेषितो वायुर्निमत्रणकृते मया ॥

आगमिष्यन्ति ताः शीघ्रमेवं वाच्यः पिता त्वया

॥४९॥

सूत उवाच

सोऽपि गत्वा द्रुतं प्राह सोमभारार्दितं विधिम् ॥

नैषाभ्येति जगन्नाथ प्रसक्ता गृहकर्मणि

॥५०॥

सा मां प्राह च देवानां पत्नीभिः सहिता मखे ॥

अहं यास्यामि तासां च नैकाद्यापि प्रदृश्यते

॥५१॥

एवं ज्ञात्वा सुरश्रेष्ठ कुरु यत्ते सुरोचते ॥

अतिक्रामति कालोऽयं यज्ञयानसमुद्रवः ॥

तिष्ठते च गृहव्यग्रा सापि स्त्री शिथिलात्मिका

॥५२॥

तच्छ्रुत्वा वचनं तस्य पुलस्त्यस्य पितामहः ॥

समीपस्थं तदा शक्रं प्रोवाच वचनं द्विजाः

॥५३॥

ब्रह्मोवाच

शक्र नायाति सावित्री सापि स्त्री शिथिलात्मिका ॥

अनया भार्यया यज्ञो मया कार्योऽयमेव तु

॥५४॥

गच्छ शक्र समानीहि कन्यां कांचित्त्वरान्वितः ॥

यावन्न क्रमते कालो यज्ञयानसमुद्भवः

॥५५॥

पितामहवचः श्रुत्वा तदर्थं कन्यका द्विजाः ॥

शक्रेणासादिता शीघ्रं भ्रममाणा समीपतः

॥५६॥

अथ तक्रघटव्यग्रमस्तका तेन वीक्षिता ॥

कन्यका गोपजा तन्वी चंद्रास्या पद्मलोचना

॥५७॥

सर्वलक्षणसंपूर्णा यौवनारंभमाश्रिता ॥

सा शक्रेणाथ संपृष्टा का त्वं कमललोचने

॥५८॥

कुमारी वा सनाथा वा सुता कस्य ब्रवीहि नः

॥५९॥

कन्यो वाच

गोपकन्यास्मि भद्रं ते तक्रं विक्रेतुमागता ॥

यदि गृह्णासि मे मूल्यं तच्छीघ्रं देहि मा चिरम्

॥६०॥

तच्छ्रुत्वा त्रिदिवेन्द्रोऽपि मत्वा तां गोपकन्यकाम् ॥

जगृहे त्वरया युक्तस्तक्रं चोत्सृज्य भूतले

॥६१॥

अथ तां रुदतीं शक्रः समादाय त्वरान्वितः ॥

गोवक्त्रेण प्रवेश्याथ गुह्येनाकर्षयत्ततः

॥६२॥

एवं मेध्यतमां कृत्वा संस्नाप्य सलिलैः शुभैः ॥

ज्येष्ठकुण्डस्य विप्रेन्द्राः परिधाय्य सुवाससी

॥६३॥

ततश्च हर्षसंयुक्तः प्रोवाच चतुराननम् ॥

द्रुतं गत्वा पुरो धृत्वा सर्वदेवसमागमे

॥६४॥

कन्यकेयं सुरश्रेष्ठ समानीता मयाऽधुना ॥

तवार्थाय सुरूपांगी सर्वलक्षणलक्षिता

॥६५॥

गोपकन्या विदित्वेमां गोवक्त्रेण प्रवेश्य च ॥

आकर्षिता च गुह्येन पावनार्थं चतुर्मुख

॥६६॥

श्रीवासुदेव उवाच

गवां च ब्राह्मणानां च कुलमेकं द्विधा कृतम् ॥

एकत्र मंत्रास्तिष्ठंति हविरन्यत्र तिष्ठति

॥६७॥

धेनूदराद्विनिष्क्रांता तज्जातेयं द्विजन्मनाम् ॥

अस्याः पाणिग्रहं देव त्वं कुरुष्व मखाप्तये ॥

६८ यावन्न चलते कालो यज्ञयानसमुद्भवः

॥६९॥

रुद्र उवाच

प्रविष्टा गोमुखे यस्मादपानेन विनिर्गता ॥

गायत्रीनाम ते पत्नी तस्मादेषा भविष्यति

॥७०॥

ब्रह्मोवाच

वदन्तु ब्राह्मणाः सर्वे गोपकन्याप्यसौ यदि ॥

संभूय ब्राह्मणीश्रेष्ठा यथा पत्नी भवेन्मम

॥७१॥

ब्राह्मणा ऊचुः

एषा स्याद्ब्राह्मणश्रेष्ठा गोपजातिविवर्जिता ॥

अस्मद्वाक्याच्चतुर्वक्त्र कुरु पाणिग्रहं द्रुतम्

॥७२॥

सूत उवाच

ततः पाणिग्रहं चक्रे तस्या देवः पितामहः ॥

कृत्वा सोमं ततो मूर्ध्नि गृह्योक्तविधिना द्विजाः

॥७३॥

संतिष्ठति च तत्रस्था महादेवी सुपावनी ॥

अद्यापि लोके विख्याता धनसौभाग्यदायिनी

॥७४॥

यस्तस्यां कुरुते मर्त्यः कन्यादानं समाहितः ॥

समस्तं फलमाप्नोति राजसूयाश्वमेधयोः

॥७९॥

कन्या हस्तग्रहं तत्र याऽऽप्नोति पतिना सह ॥

सा स्यात्पुत्रवती साध्वी सुखसौभाग्यसंयुता

॥७६॥

पिंडदानं नरस्तस्यां यः करोति द्विजोत्तमाः ॥

पितरस्तस्य संतुष्टास्तर्पिताः पितृतीर्थवत्

॥७७॥

इति श्रीस्कादे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये गायत्रीविवाहे गायत्रीतीर्थमाहात्म्यवर्णनंनामैकाशीत्युत्तरशततमोअध्यायः ॥ १८१ ॥