मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १२०

3
नागरखण्डः · 120

कात्यायन्युत्पत्तिवर्णनम्

सूत उवाच

एवं शक्रादयो देवा जितास्ते तु रणाजिरे ॥

महिषेण ततो राज्यं त्रैलोक्येऽपि चकार सः

॥१॥

यत्किञ्चित्त्रिषु लोकेषु सारभूतं प्रपश्यति ॥

गजवाजिरथाश्वादि सर्वं गृह्णाति सोऽसुरः

॥२॥

एवं प्रवर्तमानस्य तस्य देवाः सवासवाः ॥

वधार्थं मिलिताश्चक्रुः कथा दुःखसम न्विताः

॥३॥

एतस्मिन्नंतरे प्राप्तो नारदो मुनिसत्तमः ॥

दृष्ट्वा तं माहिषं सर्वं व्यवहारं महोत्कटम्

॥४॥

ततश्च कथयामास सर्वं तेषां सविस्त रम् ॥

तस्य संचेष्टितं भूरि लोकत्रयप्रपीडनम्

॥५॥

अथ तेषां महाकोपो भूय एवाभ्यवर्धत ॥

नारदस्य वचः श्रुत्वा तादृग्लोककथोद्भवम्

॥६॥

तेषां कोपोद्भवो घर्मो वक्त्रद्वारेण निर्ययौ ॥

येन दिङ्मंडलं सर्वं तत्क्षणात्कलुषीकृतम्

॥७॥

एतस्मिन्नंतरे तत्र कार्तिकेयः समभ्ययात् ॥

पप्रच्छ च किमेतद्धि देवानां कोपकारणम् ॥

येन कालुष्यतां प्राप्तं दिक्चक्रं सकलं मुने ॥

च ॥

नारद उवाच ॥

एतेषां सांप्रतं स्कन्द मया वार्ता निवेदिता ॥

त्रैलोक्यं दानवैः सर्वैर्यथा नीतं मदोत्कटैः

॥९॥

स्त्रीरत्नमश्वरत्नं वा न किंचित्कस्यचिद्गृहे ॥

ते दृष्ट्वा मोक्षयंति स्म दुर्निवार्या मदोत्कटाः

॥१०॥

तच्छ्रुत्वा कार्तिकेयस्य विशेषात्संप्रजायत ॥

वक्त्रद्वारेण देवानां यथा कोपः समागतः

॥११॥

एतस्मिन्नंतरे जाता तत्कोपांते कुमारिका ॥

सर्वलक्षणसंपन्ना दिव्यतेजोऽन्विता शुभा

॥१२॥

कार्तिकेयस्य कोपेन कोपे मिश्रे दिवौकसाम् ॥

यस्माज्जातात्र सा कन्या तस्मात्कात्यायनी स्मृता

॥१३॥

ततस्तस्या ददौ वज्रमायुधं त्रिदशाधिपः ॥

शक्तिं स्कन्दः सुतीक्ष्णाग्रां चापं देवो जनार्दनः

॥१४॥

त्रिशूलं च महादेवः पाशं च वरुणः स्वयम् ॥

आदित्यश्च सितान्बाणांश्चंद्रमाश्चर्म चोत्तमम्

॥१५॥

निस्त्रिंशं निर्ऋतिस्तुष्ट उल्मुकं च हुताशनः ॥

वायुश्च च्छुरिकां तीक्ष्णां धनदः परिघं तथा

॥१६॥

दण्डं प्रेताधिपो रौद्रं वधाय सुरविद्विषाम् ॥

द्वादशैवं समालोक्य साऽऽयुधानि द्विजोत्तमाः

॥१७॥

कात्यायनी ततश्चक्रे भुजद्वादशकं तदा ॥

जग्राह च द्रुतं तानि सुरास्त्राणि दिवौकसाम्

॥१८॥

ततः प्रोवाच तान्सर्वान्संप्रहृष्टतनूरुहा ॥

यदर्थं विबुधश्रेष्ठाः सृष्टा तद्ब्रूत मा चिरम्

॥१९॥

सर्वं कार्यं करिष्यामि युष्माकं नात्र संशयः ॥

देवा ऊचुः ॥

महिषो दानवो रौद्रः समुत्पन्नोऽत्र सांप्रतम्

॥२०॥

अवध्यः सर्वभूतानां मानुषाणां विशेषतः ॥

मुक्त्वैकां योषितं तेन त्वमस्माभिर्विनिर्मिता

॥२१॥

तस्मात्त्वं सांप्रतं गच्छ विंध्याख्यं पर्वतोत्तमम् ॥

तपस्तत्र कुरुष्वोग्र तेजो येनाभिवर्धते

॥२२॥

ततस्तु तेजःसंयुक्तां त्वां ज्ञात्वा वयमेव हि ॥

अग्रे धृत्वा करिष्यामो युद्धं तेन दुरात्मना

॥२३॥

ततस्त्वच्छस्त्रनिर्दग्धः पंचत्वं स प्रयास्यति ॥

वयं च त्रिदशैश्वर्यं लभिष्यामो हतद्विषः

॥२४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये कात्यायन्युत्पत्तिवर्णनंनाम विंशत्युत्तरशततमोऽध्यायः ॥ १२० ॥

छ