मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १७०

3
नागरखण्डः · 170

धारातीर्थोत्पत्तिमाहात्म्यवर्णनम्

सूत उवाच

तथान्यदपि संजातमाश्चर्यं यदभूद्द्विजाः ॥

विश्वामित्रेण सा शक्तिर्वसिष्ठाय विसर्जिता

॥१॥

वधार्थं तस्य विप्रर्षेर्वसिष्ठेन च धीमता ॥

स्तंभिताऽथर्वणैर्मन्त्रैः प्रस्वेदः समजायत

॥२॥

स्वेदात्समभवत्तोयं शीतलं तदजायत ॥

पादाभ्यां निर्गतं तोयमत्र दृश्यमजायत

॥३॥

विदार्य भूमिं संजाता जलधारा सुशीतला ॥

निर्मलं पावनं स्वच्छं गंगांभ इव निःसृतम्

॥४॥

गं गा प्रत्यक्षतां याता तीर्थैः सर्वैः समन्विता ॥

पूरितं वारिणा कुण्डं निर्मलं शीतलं शिवम्

॥५॥

तस्यां या कुरुते स्नानं नारी वंध्या द्विजोत्तमाः ॥

सद्यः पुत्रवती सा स्याद्रौद्रे कलियुगे द्विजाः

॥६॥

अन्योऽपि कुरुते स्नानं सर्वतीर्थफलं लभेत्

॥७॥

स्नात्वा तत्र तु यो देवीं पश्येच्च विधिना नरः ॥

धनं धान्यं तथा पुत्रान्राज्योत्थं च सुखं लभेत्

॥८॥

या नारी दुर्भगा वन्ध्या साऽपि पुत्रवती भवेत् ॥

चैत्रे मासि सिताष्टम्यां भक्तियोगसमन्विता ॥

महानिशायां तत्रैव नैवेद्यबलिपिंडिकाम्

॥९॥

प्रसन्नया कुमार्या तु स्वयं चाऽथ करोति या ॥

गृह्णाति या च वै नारी पिंडिकां बलिसंयुताम्

॥१०॥

शतवर्षा तु या नारी पिंडिकां भक्षयेद्द्विजाः ॥

साऽपि पुत्रवती च स्याद्यदि वृद्धतमा भवेत्

॥११॥

किं पुनर्यौवनोपेता सौभाग्येन समन्विता ॥

पुत्रसौख्यवती नारी देव्या वै दर्शनेन च

॥१२॥

सर्वेषां नागराणां तु भावजा देवता स्मृता ॥

सा सार्धाष्टद्विपंचाशद्गोत्राणां कुलदेवता

॥१३॥

एतस्मात्कारणाद्यात्रा नागरैः सुकृता भवेत् ॥

न विना नागरैर्यात्रां तुष्टिं याति सुरेश्वरी

॥१४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटके श्वरक्षेत्रमाहात्म्ये धारातीर्थोत्पत्तिमाहात्म्यवर्णनंनाम सप्तत्युत्तरशततमोऽध्यायः १७० ॥