मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १११

3
नागरखण्डः · 111

शिवक्षेत्राणि यैर्विप्रैः समानीतानि तत्र च

ऋषय ऊचुः

शिवक्षेत्राणि यैर्विप्रैः समानीतानि तत्र च ॥

तेषां सर्वाणि गोत्राणि वद सूतज विस्तरात्

॥१॥

कस्य गोत्रोद्भवैर्विप्रैः किं क्षेत्रं समुपार्जितम् ॥

शंकरस्य प्रसादेन तस्मिन्काल उपस्थिते

॥२॥

कियत्यपि च गोत्राणि चमत्कारपुरोत्तमे ॥

स्थापितानि सुभक्तेन तेनानर्तेन सूतज

॥३॥

त्वया प्रोक्तं पुरा दत्तं पुरं कृत्वा द्विजन्मनाम् ॥

न च तेषां कृता संख्या तस्मात्तां परिकीर्तय

॥४॥

सूत उवाच

उपदेशः पुरा दत्तो द्विसप्ततिमुनीश्वरैः ॥

आनर्ताधिपतिः पूर्वं कुष्ठरोग प्रपीडितः ॥

शंखतीर्थं समागत्य स्नानं चक्रे त्वरान्वितः

॥५॥

तेन नाशं गतः कुष्ठो भूपतेस्तस्य तत्क्षणात् ॥

तस्य तीर्थस्य माहात्म्यान्निर्वि ण्णस्य तनुं प्रति

॥६॥

ततः स नीरुजो भूत्वा तोषेण महतान्वितः ॥

तानुवाच मुनिश्रेष्ठान् प्रणिपत्य मुहुर्मुहुः

॥७॥

सुवर्णं वा गजाश्वं वा राज्यं सकलमेव वा ॥

भवद्भ्यः संप्रदास्यामि तस्मादब्रूत द्विजोत्तमाः

॥८॥

यद्यस्य रोचते यावन्मात्रमन्यदपि द्विजाः ॥

प्रसादः क्रियतां मह्यं दीनस्य प्रणतस्य च

॥९॥

ब्राह्मणा ऊचुः

निष्परिग्रहधर्माणो वानप्रस्था वयं द्विजाः ॥

सद्यःप्रक्षालकाः किं नो राज्येन विभवेन च

॥१०॥

राजोवाच

उपकारं समासाद्य यः करोति न पापकृत् ॥

उपकारं पुनस्तस्य स कृतघ्न उदाहृतः

॥११॥

ब्रह्मघ्नं च सुरापे च चौरे भग्नव ते शठे ॥

निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः

॥१२॥

तस्मात्कृत्वा प्रसादं मे किंचिद्ब्रूत् द्विजोत्तमाः ॥

येनानृण्यं प्रगच्छामि यद्यपि स्यात्सुजीवितम्

॥३॥

मुनय ऊचुः

सत्यमेतन्महाभाग कृतघ्ने नास्ति निष्कृतिः ॥

परं तत्र भवेद्दोषो यत्र दाता तु सस्पृहः

॥४॥

निःस्पृहो यत्र राजेन्द्र ह्युपकारपरो भवेत् ॥

न तत्र जायते दोषः स्वल्पोऽपि च कथंचन

॥५॥

तस्मात्त्वं गच्छ राज्यं स्वं स्वधर्मेण प्रपालय ॥

इह लोके परे चैव येन सौख्यं प्रजायते

॥१६॥

एवं स भूमिपो विप्रैर्निषिद्धः स सहस्रधा ॥

कृच्छ्रेण तान्प्रणम्योच्चैर्जगाम स्वगृहं ततः

॥७॥

तत्र गत्वा प्रहृष्टा त्माकृत्वा रम्यं महेश्वरम् ॥

गीतनृत्यसवाद्यैश्च रात्रिजागरणादिभिः ॥

चकार पूर्ववद्राज्यं समंताद्धतकंटकम्

॥१८॥

चिंतयानो दिवानक्तं ब्राह्मणान्प्रति तत्सदा ॥

कथं तेषां द्विजेंद्राणामुपकारो भविष्यति ॥

मदीयो मम यैर्दत्तं गात्रमेतत्पुनर्नवम्

॥१९॥

तेऽपि सर्वे मुनिश्रेष्ठाः खेचरत्व समन्विताः ॥

तपःशक्त्या यांति नानातीर्थेषु भक्तितः

॥२०॥

तेषु स्नानं जपं कृत्वा तथैव पितृतर्पणम् ॥

प्राणयात्रां पुनश्चक्रुस्तत्रागत्य स्व आश्रमे

॥२१॥

अन्ये तत्रैव कुर्वंति नित्यकृत्यानि ये द्विजाः ॥

तथान्ये दूरमासाद्य तीर्थं दृष्ट्वा मनोहरम्

॥२२॥

उषित्वा रजनीं तत्र द्विरात्रं वा पुनर्गृहम् ॥

समागच्छंति चान्ये तु त्रिरात्रेण समाययुः

॥२३॥

वाराणस्यां प्रयागे वा पुष्करे वाथ नैमिषे ॥

प्रभासे वाऽथ केदारे ह्यन्यस्मिन्नहि वांछ्यते

॥२४॥

कदाचिदथ ते सर्वे कार्तिक्यां पुष्करत्रये ॥

गता विनिश्चयं कृत्वा स्नानार्थं द्विजसत्तमाः

॥२५॥

पंचरात्रं वसिष्यामो वयं तत्र समाहिताः ॥

तस्माद्वह्निषु दारेषु रक्षा कार्या स्वशक्तितः

॥२६॥

एवं ते समयं कृत्वा गता यावद्द्विजोत्तमाः ॥

तावद्ध पतिना ज्ञाता न कश्चित्तत्र तिष्ठति

॥२७॥

तेषां मध्ये मुनींद्राणां सुतीर्थाश्रमवासिनाम् ॥

दमयंतीति विख्याता चंद्रबिंबसमानना

॥२८॥

तामुवाच रहस्येवं व्रज त्वं चारुहासिनि।

हाटकेश्वरजे क्षेत्रे ममादेशोऽधुना ध्रुवम्

॥२९॥

तत्र तिष्ठंति याः पत्न्यो मुनीनां भावितात्मनाम् ॥

भूषणानि विचित्राणि तासां यच्छ यथेच्छया

॥३०॥

न तासां पतयोऽस्माकं प्रकुर्वंति प्रतिग्रहम् ॥

कथंचिदपि सुश्रोणि लोभ्यमानापि भूरिशः

॥३१॥

स्त्रीणां भूषणजा चिन्ता सदा चैवाधिका भवेत् ॥

लौल्यं च कौतुकं चैव सदा भूषणजं भवेत्

॥३२॥

अपि मृन्मयकं किंचित्काष्ठसूत्रमयं च वा ॥

जतुकाचमयं वापि नारी धत्ते विभूषणम्

॥३३॥

एष एव भवेत्तेषामुपकारस्यसंभवः ॥

उपायः पद्मपत्राक्षि न चान्योऽस्ति कथंचन

॥३४॥

सा तथेति प्रतिज्ञाय विचित्राभरणानि च ॥

गृहीत्वा हर्षसंयुका ततस्तत्क्षेत्रमाययौ

॥३५॥

मणिमुक्तामयान्येव कुण्डलानि शुभानि च ॥

तथा चन्द्रोज्ज्वलाहारान्नूपुराणि बृहंति च

॥३६॥

इन्द्रनीलमहानीलवैडूर्यखचितानि च ।

पद्मरागैस्तथा वज्रैर्माणिक्यैश्च मनोरमैः

॥३७॥

केशैः कंकणैर्दिव्यैः शक्रचापनिभैः शुभैः ॥

हेमसूत्रैश्च जात्यैश्च मेखलाभिस्तथैव च

॥३८॥

अथ सा बोधने विष्णोः संप्राप्ते दिवसे शुभे ।

उपवासपरा स्नाता एकस्मिन्सलिलाशये

॥३९॥

तीरदेशे निवेश्यैव महाभूषणपर्वतम् ॥

यस्य प्रभाभिरुग्राभिर्व्याप्तं गगनमंडलम्

॥४०॥

एतस्मिन्नंतरे प्राप्तास्तापस्यः कौतुकान्विताः ॥

कीदृशा राजपत्नी सा किंरूपा किंविभूषणा

॥४१॥

अथ तास्तां समालोक्य दिव्यभूषणभूषिताम् ॥

सुरूपांगीं समाधिस्थां चित्ते चिन्तां प्रचक्रिरे

॥४२॥

धन्येयं भूपतेर्भार्या यैवं भूषणभूषिता ॥

दमयंती सुरूपाढ्या सर्वलक्षणलक्षिता

॥४३॥

समाध्यंतं समासाद्य तापसीर्वीक्ष्य साऽपि च ॥

दमयंती नमश्चक्रे ताः सर्वा विधिपूर्वकम्

॥४४॥

ताः कृतांजलिना प्राह वल्गुवाक्यं मनोहरम् ॥

मयायं भूषणस्तोम उद्दिश्य गरुडध्वजम् ॥

कल्पितोऽद्य दिने स्नात्वा समुपोष्य दिने हरेः

॥४५॥

तस्माद्गृह्णंतु तापस्यो मया दत्तानि वांछया ॥

भूषणानि विचित्राणि प्रसादः क्रियतां मम

॥४६॥

ततश्चैकाऽब्रवीत्तासामेषा मुक्तावली मम ॥

इमां देहि न मे वांछा विद्यतेऽन्या नृपप्रिये

॥४७॥

ततस्तया विहस्योच्चैः प्रक्षाल्य चरणौ स्वयम् ॥

दत्ता मुक्तावली तस्या वस्त्रैर्दिव्यैः समन्विता ॥

यस्याः षण्माषतुल्यानि मौक्तिकान्यमलानि च

॥४८॥

शरत्काले यथा व्योम्नि नक्षत्राणि द्विजोत्तमाः ॥

तथान्या स्पर्द्धया युक्ता ययाचेऽमलवर्चसम् ॥

हारं निर्मूल्यतायुक्तं चित्ताह्लादकरं परम्

॥४९॥

अथ सा तं करे कृत्वा तस्या हारं प्रयच्छति ॥

तावदन्या प्रजग्राह हारं शृंगारलालसा

॥५०॥

ततः शेषाश्च तापस्यो भूषणार्थं समुत्सुकाः ॥

सस्पर्द्धा जगृहुस्तानि भूषणानि स्वयं द्विजाः

॥५१॥

अन्याश्चान्याकरे कृत्वा भूषणं सुमनोहरम् ॥

बलादाकृष्य जग्राह धर्षयित्वा ततः परम्

॥५२॥

यथायथा प्रगृह्णंति तापस्यो भूषणार्चिताः ॥

तथातथास्याः संजज्ञे दमयंत्या मुदा हृदि

॥५३॥

अन्यानि च प्रचिक्षेप शतशोऽथ सहस्रशः ॥

न तृप्तिर्जायते तासां तथापि द्विजसत्तमाः

॥५४॥

भूषणाभावमासाद्य ततः सा पार्थिवप्रिया ॥

हृष्टा प्रोवाच ताः सर्वाः संतोषः क्रियतामिति

॥५५॥

पुनश्चैवानयिष्यामि प्रभाते नात्र संशयः ॥

अन्यानि च विचित्राणि यस्या रोचंति यानि च

॥५६॥

ततस्ताः सकलाः प्रोचुर्गच्छ त्वं पार्थिवप्रिये ॥

आगंतव्यं च भूयोऽपि प्रगृह्याभरणानि च

॥५७॥

एवमुक्ता ततस्ताभिः प्रणिपत्य नृपप्रिया ॥

प्रहृष्टा प्रययौ तूर्णं स्वपुरं प्रति सद्द्विजाः

॥५८॥

तापस्योपि गृहं गत्वा वस्त्राणि विविधानि च ॥

भूषणानि च गात्रेषु सस्पर्द्धा निदधुस्तदा

॥५९॥

तापसीनां चतुष्कं च परित्यज्य यतव्रतम् ॥

शेषाभिः प्रगृहीतानि मण्डनानि यथेच्छया

॥६०॥

ततः प्रभाते विमले प्रोद्गते रविमण्डले ॥

भूयोपि राजपत्नी सा भूषणान्यंबराणि च

॥६१॥

तथैव प्रददौ तासां जगृहुश्च तथैव ताः ॥

एवं तस्याः प्रयच्छंत्या अहन्यहनि भक्तितः

॥६२॥

पंचरात्रमतिक्रांतं तृप्तास्तास्तापसप्रियाः ॥

न राज्ञी तृप्तिमायाति प्रयच्छंती प्रभक्तितः

॥६३॥

ततः शुश्राव तापस्यश्चतस्रोऽत्र सुनिःस्पृहाः ॥

वल्कलाजिनधारिण्यो न तस्याः पार्श्वमागताः ॥

न चान्या भूषिता दृष्ट्वा चक्रुरीर्ष्यां कथंचन

॥६४॥

अथ सा त्वरितं गत्वा तासां पार्श्वमनिंदिता ॥

भूषणानि महार्हाणि गृहीत्वा पंचमीदिने

॥६५॥

ततः प्रोवाच ताः सर्वाः प्रसादः क्रियतामिति ॥

इमानि भूषणार्थाय भूषणानि प्रगृह्यताम्

॥६६॥

तापस्य ऊचुः

(

॥२॥

नास्माकं भूषणैः कार्यं भूषिता वल्कलैर्वयम् ॥

तस्माद्गच्छ निजं हर्म्यमर्थिभ्यः संप्रदीयताम्

॥६७॥

वदन्तीनां तया सार्धमेवं तासां द्विजोत्तमाः।

चत्वारः पतयः प्राप्ता एकैकस्याः पृथक्पृथक्

॥६८॥

शुनःशेपोऽथ शाक्रेयो बौद्धो दान्तश्चतुर्थकः।

वियन्मार्गं हि चत्वारः स्वाश्रममाययुः

॥६९॥

शेषाः सर्वे गतिभ्रंशं प्राप्य भूमार्गमाश्रिताः ॥

अथ ते स्वाश्रमं दृष्ट्वा विकृताकारभूषणम् ॥

किमिदंकिमिदं प्रोचुर्यत्तापस्यो विडंबिताः

॥७०॥

केनैवं पाप्मनाऽस्माकमाश्रमोऽयं विडंबितः ॥

प्रदत्त्वा तापसीनां च भूषणान्यंबराणि च

॥७१॥

तत्पत्न्य ऊचुः

चमत्कारस्य भूपस्य यैषा भार्या व्यवस्थिता ०९।

अनया संप्रदत्तानि सर्वासां भूषणानि वै

॥७२॥

अस्माकमपि संप्राप्ता गृहे वै नृपवल्लभा ॥

दातुं विभूषणान्येव निषिद्धाऽस्माभिरद्य सा

॥७३॥

सूत उवाच

तासां तद्वचनं श्रुत्वा ततस्ते कोप मूर्च्छिताः ।

ऊचुस्तां नृपतेर्भार्यां शापं दातुं मुहुर्मुहुः

॥७४॥

द्विसप्ततिर्वयं पापे स्नानार्थं पुष्करे गताः ॥

कार्तिक्यां व्योममार्गेण मनोमारुतरंहसा

॥७५॥

चत्वारस्त इमे प्राप्ता येषां दारैः प्रतिग्रहः ॥

न कृतस्तस्य भूपस्य कुभार्यायाः कथंचन

॥७६॥

तस्माद्विडंबितो यस्मादाश्रमोऽयं तपस्विनाम् ॥

शिलारूपा च भवती तस्माद्भवतु कुत्सिता

॥७०७॥

अथ सा तत्क्षणादेव शिलारूपा बभूव ह ॥

निश्चेष्टा तत्क्षणादेव मुनिवाक्यादनंतरम्

॥७८॥

ततः स परिवारोऽस्यास्तद्दुःखेन समाकुलः ॥

वाष्पपूर्णेक्षणो दीनः प्रस्थितः स्वपुरं प्रति

॥७९॥

कथयामास तत्सर्वं दमयंत्याः समुद्भवम् ॥

वृत्तांतं ब्राह्मणश्रेष्ठास्तस्याः शापसमुद्भवम्

॥८०॥

श्रुत्वा स पार्थिवस्तूर्णं वृत्तांतं शापजं तदा ॥

प्रसादनाय विप्राणां दुःखितः स वनं ययौ

॥८१॥

ततस्ते मुनयस्तूर्णं चत्वारोऽपि महीपतिम् ॥

ज्ञात्वा प्रसादनार्थाय भार्यार्थं समुपस्थितम्

॥८२॥

अग्रिहोत्राणि दारांश्च समादाय ततः परम् ॥

कुरुक्षेत्रं समाजग्मुः खमार्गेण द्रुतं तदा

॥८३॥

पार्थिवोऽपि समन्वेष्य यत्नात्तान्सर्वतो मुनीन्।

निर्विण्णः श्रमार्तश्च भार्याव्यसनदुःखितः

॥९४॥

ततो जगाम तं देशं यत्र भार्या शिलामयी ॥

सा स्थिता तापसीवृन्दैः सर्वतोऽपि समन्विता

॥८५॥

अथ तां तादृशीं दृष्ट्वा सेवकैः सकलैर्वृतः ॥

हाहेति स मुहुः प्रोच्य मूर्च्छितः प्रापतत्क्षितौ

॥९६॥

ततः कृच्छ्रात्समासाद्य संज्ञां तोयसमुक्षितः ॥

प्रलापमकरोत्पश्चात्स्मृत्वास्मृत्वा प्रियान्गुणान्

॥८७॥

हा प्रिये मृगशावाक्षि मम प्राणविनाशिनि ॥

मां मुक्त्वाऽद्य प्रियं कांतं क्व गतासि शुभानने

॥८८॥

नाभुक्ते मयि भुक्तासि निद्रां नाऽनिद्रिते गता ॥

न सौभाग्यस्य गर्वेण ममाज्ञा लंघिता क्वचित्

॥८९॥

न स्मरामि त्वया प्रोक्तं कदाचिद्वि कृतं वचः ॥

रहस्यपि विशालाक्षि किमु भोजनसंसदि

॥९०॥

सूत उवाच

एवं प्रलपतस्तस्य भूपतेः करुणं बहु ॥

आयाता मंत्रिणस्तस्य श्रुत्वा भूपं तथाविधम्

॥९१॥

ततः संबोध्य तं कृच्छाद्दृष्टान्तैर्वहुविस्तरैः ॥

राजर्षीणां पुराणानां महद्व्यसनसंभवैः

॥९२॥

निन्युस्तं भूपतिं दीनं वाष्पव्याकुललोचनम् ॥

निश्वसंतं यथानागं तेजसा परिवर्जितम्

॥९३॥

सोऽपि कृत्वाऽऽलयं तस्याः समंतात्सुमनोहरम् ॥

कर्पूरागरुधूपाद्यैर्वस्त्रकुंकुमचन्दनैः ॥

योजयामास तां भार्यां शिलारूपामपि स्थिताम्

॥९४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये दमयन्त्युपाख्याने दमयन्त्या विप्रशापेन शिलात्वप्राप्तावानर्ताधिपतिकृतशोककथनंनामैकादशोत्तर शततमोऽध्यायः ॥ १११ ॥