मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २७७

3
नागरखण्डः · 277

दानमाहात्म्यवर्णनम्

ऋषय ऊचुः

कि नामानो द्विजास्ते च वाराणस्याः समागताः ॥

एकादशप्रकारोऽसौ येषां रुद्रः प्रभक्तितः ॥

तत्संज्ञाश्च समाचक्ष्व विस्तरेण महामुने

॥१॥

सूत उवाच

एकस्तेषां मृगव्याधो विख्यातो भुवनत्रये ॥

द्वितीयः सर्वसंज्ञश्च निंदितश्च तृतीयकः

॥२॥

महायशाश्चतुर्थस्तु कथ्यते मुनिसत्तमाः ॥

अजैकपाद इत्युक्तः पंचमो मुनि सत्तमाः

॥३॥

अहिर्बुध्न्यस्तथा षष्ठः पिनाकी सप्तमस्तथा ॥

परं तपस्तथान्यस्तु दहनो नवमस्तथा

॥४॥

ईश्वरो दशमः प्रोक्तः कपाली चांति मस्तथा ॥

तेषामेतानि नामानि स्थितान्येव हि यानि च ॥

रुद्राणामपि तान्येव विहितानि हरेण तु

॥५॥

ऋषय ऊचुः

कानि दानानि शस्यानि तदर्थं वद नो द्रुतम् ॥

जपश्चैव पुरा प्रोक्तस्त्वया कार्यो यथैव च

॥६॥

सूत उवाच

तदुद्दिश्य प्रदातव्यमेकैकस्य पृथक्पृथक् ॥

प्रत्यक्षाश्च महाभाग दातव्या धेनवः क्रमात्

॥७॥

मृगव्याधाय प्रत्यक्षा गौर्देया च गुडोद्भवा ॥

कपालिने प्रदातव्या नवनीतसमुद्भवा

॥८॥

अजपादाय चाज्योत्था अहिर्बुध्न्याय हेमजा ॥

पिनाकिने प्रदातव्या धेनुर्लवणसम्भवा

॥९॥

परंतपाय विप्रेन्द्रास्तथैव रसस म्भवा ॥

अन्नजा दहनायोक्ता ईश्वराय जलोद्भवा

॥१०॥

एता ददाति यो विप्रा एतेषां च महात्मनाम् ॥

चक्रवर्ती भवेन्नूनमेतदाह पितामहः

॥११॥

अन्यत्रापि प्रदत्ताश्च किं पुनर्भवसंनिधौ ॥

तस्मात्सर्वप्रयत्नेन एता देयाः प्रयत्नतः

॥१२॥

धेनवो यो न शक्तः स्यादेका देया प्रयत्नतः ॥

सर्वेषामेव रुद्राणां भर्तृयज्ञवचो यथा

॥१३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये एकादशरुद्रसमीपे दानमाहात्म्यवर्णनं नाम सप्तसप्तत्युत्तरद्विशततमोऽध्यायः ॥ २७७ ॥