मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २५७

3
नागरखण्डः · 257

द्वादशाक्षरनाममहिमपूर्वकपार्वतीतपोवर्णनम्

पार्वत्युवाच

द्वादशाक्षरमाहात्म्यं मम विस्तरतो वद ॥

यथावर्णं यत्फलं च यथा च क्रियते मया

॥१॥

श्रीमहादेव उवाच

द्विजातीनां सहोंकारसहितो द्वादशाक्षरः ॥

स्त्रीशूद्राणां नमस्कारपूर्वकः समुदाहृतः

॥२॥

प्रकृतीनां रामनाम संमतो वा षडक्षरः ॥

सोऽपि प्रणवहीनः स्यात्पुराणस्मृतिनिर्णयः

॥३॥

क्रमोऽयं सर्ववर्णानां प्रकृतीनां सदैव हि ॥

क्रमेण रहितो यस्तु करोति मनुजो जपम् ॥

तस्य प्रकुप्यति विभुर्नरकादिप्रदायकः

॥४॥

पार्वत्युवाच

मया त्रिमात्रया स्वामिन्सेव्यते जगदीश्वरः ॥

रूपमस्य कथं जाने वचसामप्यगोचरम्

॥५॥

ईश्वर उवाच

प्रणवस्याधिकारो न तवास्ति वरवर्णिनि ॥

नमो भगवते वासुदेवायेति जपः सदा

॥६॥

पार्वत्युवाच

यदि सप्रणवं दद्याद्द्वादशाक्षरचिंतनम ॥

प्रणवे नाधिकारो मे कथं भवति धूर्जटे

॥७॥

ईश्वर उवाच

प्रणवः सर्वदेवानामादिरेष प्रकीर्तितः ॥

ब्रह्मा विष्णुः शिवश्चैव वसंति दयितायुताः

॥८॥

तत्र सर्वाणि भूतानि सर्व तीर्थानि भागशः ॥

तिष्ठंति सर्वतीर्थानि कैवल्यं ब्रह्म एव यः

॥९॥

तस्य योग्या तदा देवि भविष्यसि यदा तपः ॥

चातुर्मास्ये हरिप्रीत्यै करिष्यसि शुभानने

॥१०॥

तपसा प्राप्यते कामस्तपसा च महत्फलम् ॥

तपसा जायते सर्वं तत्तपः सुलभं नरैः

॥११॥

यशः सौभाग्यमतुलं क्षमासत्यादयो गुणाः ॥

सुलभं तपसा नित्यं तपश्चर्त्तुं न शक्यते

॥१२॥

यदा हि तपसो वृद्धिस्तदा भक्तिर्हरौ भवेत् ॥

तदा हि तपसो हानिर्यदा भक्तिं विना कृतम्

॥१३॥

तावत्तपांसि गर्जंति देहेऽस्मिन्सततं नृणाम् ॥

यदा विष्णुं स्मरेन्नित्यं जिह्वाग्रं पावनं भवेत्

॥१४॥

यथा प्रदीपे ज्वलिते प्रणश्यति महत्तमः ॥

तथा हरेः कथायां च याति पापमनेकधा

॥१५॥

तस्मात्पार्वति यत्नेन हरौ सुप्ते तपः कुरु ॥

चातुर्मास्येऽथ संप्राप्ते प्रणवेन समन्वितम्

॥१६॥

विशुद्धहृदया भूत्वा मन्त्रराजमिमं जप।

स एव भगवांस्तुष्टो द्वादशाक्षरसंयुतम्

॥१७॥

प्रदास्यति परं ज्ञानं ब्रह्मरूपमखण्डितम् ।

ब्रह्मकल्पांतकोटीषु जप त्वं द्वादशाक्षरम्

॥१८॥

मन्त्रराजं सप्रणवं ध्यायेत्सोऽपि न पश्यति ॥

इत्युक्ता सा तपोनिष्ठा तपश्चरितुमागता

॥१९॥

हिमाचलस्य शिखरे चातुर्मास्ये समागते ॥

ब्रह्मचर्यव्रतपरा वसनत्रयसंयुता

॥२०॥

प्रातर्मध्येऽपराह्ने च ध्यायन्ती हरिशंकरम् ॥

वपुर्यथा पुरा कृष्टं पूजने शंकरस्य च

॥२१॥

सखीजन समायुक्ता पितुः शृंगे मनोहरे ॥

अतपत्सा विशालाक्षी क्षमादिगुणसंयुता

॥२२॥

गालव उवाच

या हि योगीश्वरध्येया या वन्द्या विश्ववन्दिता ॥

जननी या च विश्वस्य साऽपि कामात्तपोगता

॥२३॥

या हि प्रकृतिसद्रूपा तडित्कोटिसमप्रभा ॥

विरजा या स्वयं वन्द्या गुणातीताचरत्तपः

॥२४॥

पृथ्व्यंबु तेजो वायुश्च गगनं यन्मयं विदुः ॥

मूलप्रकृतिरूपा या सा चकारोत्तम तपः

॥२५॥

या स्थावरं जंगममाशु विश्वं व्याप्य स्थिता या प्रकृतेः पुरापि ॥

स्पृहादिरूपेण च तृप्तिदात्री देवे प्रसुप्ते तपसाऽऽप शुद्धिम्

॥२६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये द्वादशाक्षरनाममहिमपूर्वकपार्वतीतपोवर्णनं नाम सप्तपंचाशदुत्तरशततमोऽध्यायः ॥ २५७ ॥