सांबादित्यमाहात्म्यवर्णनम्
सूत उवाच
तस्यापि नातिदूरस्थं सांबादित्यं सुरेश्वरम् ॥
दृष्ट्वा कामानवाप्नोति सर्वान्मर्त्यो हृदि स्थितान्
॥१॥यस्तु माघस्य शुक्लायां सप्तम्यां रविवासरे ॥
भक्त्या संपश्यते मर्त्यो नरकान्न स पश्यति
॥२॥आसीत्पूर्वं द्विजो नाम गालवः स महामुनिः ॥
स्वाध्यायनिरतो नित्यं वेदवेदांगपारगः
॥३॥शुचिव्रतपरः शांतो देवद्विजपरायणः ॥
कृतज्ञश्च सुशीलश्च यज्ञकर्मविचक्षणः
॥४॥तस्यैवं वर्तमानस्य संप्राप्तं पश्चिमं वयः ॥
अपुत्रस्य द्विजश्रेष्ठास्ततो दुःखं व्यजायत
॥५॥ततः सर्वं परित्यज्य गृहकृत्यं स भक्तिमान् ॥
सूर्यमाराधयामास क्षेत्रेऽत्रैव समाहितः
॥६॥वटवृक्षं समाश्रित्य श्रद्धया परया युतः ॥
स्थापयित्वा रवेरर्चां यथोक्तां पंचरात्रिके
॥७॥वर्षास्वाकाशशायी च हेमंते जलसंश्रयः ॥
पंचाग्निसाधको ग्रीष्मे निराहारो जितेन्द्रियः
॥८॥ततः पंचदशे वर्षे संप्राप्ते भगवान्रविः ॥
वटवृक्षं समाश्रित्य समीपस्थमुवाच तम्
॥९॥श्रीसूर्य उवाच
वरदोस्म्यद्य भद्रं ते वरं प्रार्थय गालव ॥
अतिदुर्लभमप्याशु तव दास्याम्यसंशयम्
॥१०॥गालव उवाच
अपुत्रोऽहं सुरश्रेष्ठ पश्चिमे वयसि स्थितः ॥
तस्माद्देहि सुतं मह्यं वंशवृद्धिकरं परम्
॥११॥श्रीसूर्य उवाच
वंशवृद्धिकरो विप्र पुत्रस्तव भविष्यति ॥
तेजस्वी च यशस्वी च शास्त्रज्ञो वेद पारगः
॥२॥येयं त्वया कृता मेऽर्चा सांबसूर्यस्य संनिधौ ॥
सांबसूर्याभिधानोऽयं भविष्यति धरातले
॥३॥अन्योऽपि श्रद्रयोपेतो य एनं पूजयिष्यति ॥
सप्तम्यां सूर्यवारेण यावद्द्वादश भास्कराः
॥४॥सप्तम्यश्च द्विजश्रेष्ठ निराहारस्तु भक्तितः या ॥
स प्राप्स्यति न संदेहः पुत्रं वंशविवर्धनम्
॥१५॥एवमुक्त्वा च सप्ताश्वो विरराम दिवाकरः ॥
गालवोऽपि प्रहृष्टात्मा जगाम निजमंदिरम्
॥१६॥नातिदीर्घेण कालेन ततस्तस्याभव तत्सुतः ॥
यथोक्तस्तेन देवेन सर्वलक्षणलक्षितः
॥१७॥ततश्चक्रे पिता नाम वटेश्वर इति स्वयम् ॥
वटस्थेन यतो दत्तः संतुष्टेनांशुमालिना
॥१८॥वटेश्वरसुतान्दृष्ट्वा पौत्रांश्च द्विजसत्तमाः ॥
गालवः सूर्यमापन्नः कृत्वा सुविपुलं तपः
॥१९॥वटेश्वरोऽपि संज्ञाय पित्रा संस्थापितं रविम् ॥
तदर्थं कारयामास प्रासादं सुमनोहरम्
॥२०॥ततःप्रभृति लोके च स वटादित्यसंज्ञितः ॥
पुत्रप्रदो ह्यपुत्राणां विख्यातो भुवनत्रये
॥२१॥सप्तम्यां सूर्यवारेण उपवासपरायणः ॥
यस्तं पूजयते भक्त्या सप्तमीर्द्वादश क्रमात् ॥
स प्राप्नोति सुतं श्रेष्ठं स्ववंशस्य विवर्धनम्
॥२२॥निष्कामो वा नरो यस्तु तं पूजयति मानवः ॥
स मोक्षमाप्नुयान्नूनं दुर्लभं त्रिदशैरपि
॥२३॥अथ गाथा पुरा गीता नारदेन सुरर्षिणा ॥
दृष्ट्वा पुत्रप्रदं देवं वटादित्यं सुरेश्वरम्
॥२४॥अपि वर्षशता नारी वंध्या वा दुर्भगापि वा ॥
सांबसूर्यप्रसादेन सद्यो गर्भवती भवेत्
॥२५॥किं दानैः किं व्रतैर्ध्यानैः किं जपैः सोपवासकैः ॥
पुत्रार्थं विद्यमानेऽथ सांबसूर्ये सुरेश्वरे
॥२६॥वर्षमेकं नरो भक्त्या यः पश्येत्सूर्यवासरे ॥
कृतक्षणोऽत्र पुत्रं स लभते चोत्तमं सुखम्
॥२७॥तस्मात्सर्वप्रयत्नेन तं देवं यत्नतो द्विजाः ॥
पश्येदात्महितार्थाय स्ववंशपरिवृद्धये
॥२८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये सांबादित्यमाहात्म्यवर्णनंनाम षट्पञ्चाशत्तमोऽध्यायः ॥ ५६ ॥