मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १४

3
नागरखण्डः · 14

चमत्कारपुरप्रदक्षिणामाहात्म्यवर्णनम्

सूत उवाच

यदन्यत्तत्र सञ्जातमाश्चर्यं द्विजसत्तमाः ॥

तदहं कीर्तयिष्यामि रहस्यं हृदि संस्थितम्

॥१॥

चमत्कारपुरे कश्चिद्वैश्यजातिसमुद्भवः ॥

बभूव पुरुषो मूको दरिद्रेण समन्वितः

॥२॥

यो दौःस्थ्यात्सर्वलोकानां करोति पशुरक्षणम् ॥

कुटुम्बभरणार्थाय संतुष्टो येनकेनचित्

॥३॥

कदाचिद्रक्षतस्तस्य पशूंस्तान्वनभूमिषु ॥

पशुरेको विनिष्क्रांतः स्वयूथात्तृणलोभतः

॥४॥

कृष्ण पक्षे चतुर्दश्यां चैत्रमासे द्विजोत्तमाः ॥

न तदा लक्षितस्तेन गच्छमानो यदृच्छया

॥५॥

अथ यावद्गृहं प्राप्तः स मूकः पशुपालकः ॥

तावत्तस्य च गोः स्वामी भर्त्सयन्समुपागतः

॥६॥

किं पाप न समायातः पशुरेकोऽद्य नो यथा ॥

नूनं त्वया हतः सोऽपि विक्रीतोऽपिहितोऽथवा ॥

तस्मा दानय मे क्षिप्रं निराहारोऽपि गां त्वरात्

॥७॥

तच्छ्रुत्वा भयसंत्रस्तः स मूकः पशुपालकः ॥

निष्क्रांतो यष्टिमादाय निराहारोऽपि मन्दिरात्

॥८॥

ततोऽरण्यं समासाद्य वीक्षांचक्रे समंततः ॥

सूक्ष्मदृष्ट्या स दुर्गाणि गहनानि वनानि च

॥९॥

अथ तेन क्वचिद्दृष्टं पदं तस्य पशोः स्फुटम् ॥

अटव्यां भ्रममाणेन परिज्ञातं च कृत्स्नशः

॥१०॥

ततश्च तत्पदान्वेषी स जगाम वनाद्वनम् ॥

चमत्कारपुरस्यास्य समंताद्द्विजसत्त माः

॥११॥

एवं प्रदक्षिणा तस्य जाता पशुदिदृक्षया ॥

स्थानस्य चैव निर्वेशे पशोश्चापिद्विजोत्तमाः

॥१२॥

प्रदक्षिणावसाने च पशुर्लब्धो हि तेन सः ॥

निशांतेऽथ गृहं नीत्वा स्वामिने विनिवेदितः

॥१३॥

चैत्रे पुण्यतमे मासि कृष्णपक्षे चतुर्दशीम् ॥

क्षेत्रे पुण्यतमे देवास्तीर्थान्या यांति सर्वशः

॥१४॥

एवमज्ञानभावेन कृता ताभ्यां प्रदक्षिणा ॥

पशुपालपशुभ्यां वै सुपुण्ये तत्र वासरे

॥१५॥

निराहारस्य मूकस्य साहारस्य पशोस्तथा

॥१६॥

विना स्नानेन भक्षाच्च दैवाद्द्विजवरोत्तमाः ॥

ततः काले व्यतिक्रांते कियन्मात्रे स्वकर्मतः ॥

उभौ पंचत्वमापन्नौ पृथक्त्वेनायुषः क्षये

॥१७॥

ततश्च पशुपालस्तु दशार्णाधिपतेः सुतः ॥

संजातस्तत्प्रभावेन पूर्वजातिमनुस्मरन्

॥१८॥

सोऽपि जज्ञे पशुस्तस्य सचिवो द्विजसत्तमाः ।

जातिस्मरो यथा राजा सर्वदा नृपसंमतः

॥९॥

अथागत्य स राजेंद्रस्तेनैव सह मंत्रिणा ॥

कृष्णपक्षे चतुर्दश्यां पुरस्तस्याः प्रदक्षिणाम्

॥२०॥

चक्रे संवत्सरस्यांते श्रद्धया परया युतः ॥

निराहारश्च मौनेन पदातिर्द्विजसत्तमाः

॥२१॥

एकदा तत्र चाऽऽयाता मुनयः शंसितव्रताः ॥

तीर्थे पापहरे पुण्ये विश्वामित्रसमुद्भवे

॥२२॥

याज्ञवल्क्यो भरद्वाजः शुनःशेपोऽथ गालवः ॥

देवलो भागुरिर्धौम्यः कश्य पश्च्यवनो भृगुः

॥२३॥

तथान्ये शंसिताऽऽत्मानो ब्रह्मचर्यपरायणाः ॥

तीर्थयात्राप्रसंगेन तस्मिन्क्षेत्रे समागताः

॥२४॥

तान्दृष्ट्वा स महीपालः प्रणिपत्य कृतांजलिः ॥

यथाज्येष्ठं यथाश्रेष्ठं पूजयामास भक्तितः

॥२५॥

ततस्तेषां स मध्ये च संनिविष्टो महीपतिः ॥

तथागतः स भूपालः सर्वै स्तैश्चाभिनंदितः

॥२६॥

ततश्चक्रुः कथा दिव्या मुनयस्ते महीपतेः ।

पुरतो मुनिमुख्यानां चरितानि महात्मनाम्

॥२७॥

राजर्षीणां पुराणानां धर्मशास्त्रसमुद्भवाः ॥

आनंदं तस्य राजर्षेर्जनयंतो द्विजोत्तमाः

॥२८॥

अथ क्वाऽपि कथांते स पार्थिवस्तैर्महर्षिभिः ॥

पृष्टः कौतूहलाविष्टैर्दत्त्वा श्रौतीस्तदाशिषः

॥२९॥

ऋषय ऊचुः

वर्षेवर्षे महीपाल त्वमत्राऽऽगत्य यत्नतः ॥

करोषि मंत्रिणा सार्धं पुरस्याऽस्य प्रदक्षिणाम्

॥३०॥

अस्मिन्क्षेत्रे सुतीर्थानि संति पार्थिवसत्तम ॥

तथाऽन्यानि प्रसिद्धानि देवतायतनानि च

॥३१॥

आदरस्तेषु वै राजन्नास्ति स्वल्पो ऽपि कर्हिचित् ॥

एतन्नः कौतुकं जातं न चेद्गुह्यं प्रकीर्तय

॥३२॥

सूत उवाच

तेषां तद्वचनं श्रुत्वा विनयाऽवनतः स्थितः ॥

स प्रोवाच वचो भूपः किंचिद्व्रीडासमन्वितः

॥३३॥

यत्पृष्टोऽस्मि द्विजश्रेष्ठा युष्माभिः सांप्रतं मम ॥

तद्गुह्यं न मयाऽऽख्यातं कस्यचिद्धरणीतले

॥३४॥

तथाऽपि हि प्रकर्तव्यं युष्माकं सत्यमेव हि ॥

अपि गुह्यतमं चेत्स्याच्छृण्वंतु मुनिसत्तमाः

॥३५॥

सूत उवाच

ततः स कथयामास पूर्वजातिसमुद्भवम् ॥

वृत्तांतं तन्मुनींद्राणां तेषां ब्राह्मणसत्तमाः

॥३६॥

यथा नष्टः पशुस्तस्य कृता यद्वदवेक्षणा ॥

यथा प्रदक्षिणा जाता चमत्कारपुरस्य तु

॥३७॥

जातिस्मृतिर्यथा जाता प्राक्तनी तत्प्रभावतः ॥

राज्यप्राप्तिर्विभूतिश्च तथेष्टाप्तिः पदेपदे

॥३८॥

तच्छ्रुत्वा मुनयः सर्वे प्रहृष्टाः पृथिवीपतेः ॥

आशीर्वादान्बहून्दत्त्वा साधुसाध्विति चाऽब्रुवन्

॥३९॥

समुत्थाय ततश्चक्रुः पुरस्तस्याः प्रदक्षिणाम् ॥

यथोक्तविधिना सर्वे श्रद्धया परया युताः

॥४०॥

गताश्च परमां सिद्धिं तत्प्रभावात्सुदुर्लभाम् ॥

जपयज्ञप्रदानैर्या तीर्थसेवादिकैरपि

॥४१॥

सोऽपि राजा स मन्त्री च जातौ वैमानिकौ सुरौ ॥

अद्याऽपि तौ हि दृश्येते तारारूपौ नभस्तले

॥४२॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये चमत्कारपुरप्रदक्षिणामाहात्म्यवर्णनंनाम चतुर्दशोऽध्यायः ॥ १४ ॥