मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २६३

3
नागरखण्डः · 263

मत्स्येन्द्रनाथोत्पत्तिकथनम्

ईश्वर उवाच

यदि चेत्तामसं कर्म त्यक्त्वा कर्मसु जायते ॥

तदा ज्ञानमयो योगी जीवतां मोक्षदायकः

॥१॥

यदा निर्ममता देहे यदा चित्तं सुनिर्मलम् ॥

यदा हरौ भक्तियोगस्तदा बन्धो न कर्मणा

॥२॥

कुर्वन्नेव हि कर्माणि मनः शांतं नृणां यदा ॥

तदा योगमयी सिद्धिर्जायते नात्र संशयः

॥३॥

गुरुत्वं स्थानमसकृदनुभूय महामतिः ॥

जीवन्विष्णुत्वमासाद्य कर्म संगात्प्रमुच्यते

॥४॥

कर्माणि नित्यजातानि नित्यनैमित्तिकानि च ॥

इच्छया नैव सेव्यानि दुःखतापविवृद्धये

॥५॥

कर्मणामीशितारं च विष्णुं विद्धि महेश्वरि ॥

तस्मिन्संत्यज्य सर्वाणि संसारान्मुच्यतेऽखिलात्

॥६॥

एतदेव परं ज्ञानमेतदेव परं तपः ॥

एतदेव परं श्रेयो यत्कृष्णे कर्मणोऽर्पणम्

॥७॥

अयं हि निर्मलो योगो निर्गुणः स उदाहृतः ॥

तद्विष्णोः कर्म जनितं शुभत्व प्रतिपादनम्

॥८॥

तावद्भ्रमंति संसारे पितरः पिंडतत्पराः ॥

यावत्कुले भक्तियुतः स्तो नैव प्रजायते ९ ॥

तावद्द्विजानि गर्जंति तावद्गर्जति पातकम् ॥

तावत्तीर्थान्यनेकानि यावद्भक्तिं न विंदति

॥१०॥

स एव ज्ञानवाँल्लोके योगिनां प्रथमो हि सः ॥

महाक्रतूनामाहर्ता हरिभक्तियुतो हि सः

॥११॥

निमिषं निर्नयन्मेषं योगः समभिजायते ॥

वाणीजये योगिनस्तु गोमेधश्च प्रकीर्तितः

॥१२॥

मनसो विजये नित्यमश्वमेधफलं लभेत् ॥

कल्पनाविजयान्नित्यं यज्ञं सौत्रामणिं लभेत्

॥१३॥

देहस्योत्सर्जनान्नित्यं नरयज्ञः प्रकीर्तितः ॥

पंचेंद्रियपशून्हत्वाऽनग्नौ शीर्षे च कुण्डले

॥१४॥

गुरूपदेशविधिना ब्रह्मभूतत्वमश्नुते ॥

स योगी नियताहारोदण्डत्रितयधारकः

॥१५॥

त्रिदंडी स तु विज्ञेयो ज्ञाते देवे निरंजने ॥

मनोदण्डः कर्मदण्डो वाग्दंडो यस्य योगिनः

॥१६॥

स योगी ब्रह्मरूपेण जीवन्नेव समाप्यते ॥

अज्ञानी बाध्यते नित्यं कर्मभिर्बंधनात्मकैः

॥१७॥

कुर्वन्नेव हि कर्माणि ज्ञानी मुक्तिं प्रयाति हि ॥

यदा हि गुरुभिः स्थानं ब्रह्मणः प्रतिपाद्यते

॥१८॥

तदैष मुक्तिमाप्नोति देहस्तिष्ठति केवलम् ॥

यावद्ब्रह्मफलावाप्त्यै प्रयाति पुरुषोत्तमः

॥१९॥

तावत्कर्ममयी वृत्तिर्ब्रह्म वृक्षांतराभवेत् ॥

अवांतराणि पर्वाणि ज्ञेयानि मुनिभिः सदा

॥२०॥

मोक्षमार्गो द्विजैश्चैव श्रुतिस्मृतिसमुच्चयात् ॥

मोक्षोऽयं नगराकारश्चतुर्द्वार समाकुलः

॥२१॥

द्वारपालास्तत्र नित्यं चत्वारस्तु शमादयः ॥

त एव प्रथमं सेव्या मनुजैर्माक्षदायकाः

॥२२॥

शमश्च सद्विचारश्च संतोषः साधुसंगमः ॥

एते वै हस्तगा यस्य तस्य सिद्धिर्न दूरतः

॥२३॥

योगसिद्धिर्विष्णुभक्त्या सद्धर्माचरणेन च ॥

प्राप्यते मनुजैर्देवि ह्येतज्ज्ञानमलं विदुः

॥२४॥

ज्ञानार्थं च भ्रमन्मर्त्यो विद्यास्थानेषु सर्वशः ॥

सद्यो ज्ञानं सद्गुरुतो दीपार्चिरिव निर्मला

॥२५॥

मुहूर्तमात्रमपि यो लयं चिंत यति ध्रुवम् ॥

तस्य पापसहस्राणि विलयं यांति तत्क्षणात्

॥२६॥

रागद्वेषौ परित्यज्य क्रोधलोभविवर्जितः ॥

सर्वत्र समदर्शी च विष्णुभक्तस्य दर्शनम्

॥२७॥

सर्वेषामपि जीवानां दया यस्य हृदि स्थिरा ॥

शौचाचारसमायुक्तो योगी दुःखं न विंदति ॥

मायाधिपटलैर्हीनो मिथ्या वस्तुविरागवान् ॥

कुसंसर्गविहीनश्च योगसिद्धेश्च लक्षणम्

॥२९॥

ममतावह्निसंयोगो नराणां तापदायकः ॥

उत्पन्नः शमनं तस्य योगिनां शांतिचारणम्

॥३०॥

इन्द्रियाणामथोद्धृत्य मनसैव निषेधयेत् ॥

यथा लोहेन लोहं च घर्षितं तीक्ष्णतां व्रजेत्

॥३१॥

बुद्धिर्हि द्विविधा देहे देया ग्राह्या विशुद्धिदा ॥

संसारविषया त्याज्या परब्रह्मणि सा शुभा

॥३२॥

अहंकारो यथा देवि पापपुण्यप्रदायकः ॥

ज्ञाते तत्त्वे शुभफले कृतः संधाय नान्यथा

॥३३॥

श्यामलं च उपस्थं च रूपातीतान्नराः शिवम् ॥

हृदिस्थं सिरशिस्थं च द्वयं बद्धविमुक्तये

॥३४॥

एतदक्षरमव्यकममृतं सकलं तव ॥

रूपरूपविष्णुरूपरूपमूर्तिनिवेदितम्

॥३६॥

एवं ज्ञात्वा विमुच्येत योगी संसारबन्धनात् ॥

गुरूपदेशाद्गृहस्थो लभते नान्यथा क्वचित्

॥३६॥

यदा गुरुः प्रसन्नात्मा तस्य विश्वं प्रसीदति ॥

गुरुश्च तोषितो येन संतुष्टाः पितृदेवताः

॥३७॥

गुरूपदेशः प्रतिमा सद्विचारः समे मनः ॥

क्रिया च ज्ञानसहिता मोक्षसिद्धेर्हि लक्षणम् [

॥३८॥

क्रियापतिर्विष्णुरेव स्वयमेव हि निष्क्रि यः ॥

स च प्राणविरूपाय द्वादशाक्षरवीजकः

॥३९॥

द्वादशाक्षरकं चक्रं सर्वपापनिबर्हणम् ॥

दुष्टानां दमनं चैव परब्रह्मप्रदायकम्

॥४०॥

एतदेव परं ब्रह्म द्वादशाक्षररूपधृक् ॥

मया प्रकाशितं देवि स्कन्दे हि विमलं तव

॥४१॥

एतत्सारं योगिनां ध्यानरूपं भक्तिग्राह्यं श्रद्धया चिन्तयेच्च ॥

चातुर्मास्ये जन्मकोट्यां च जातं पापं दग्ध्वा मुक्तिदः कैटभारिः

॥४२॥

ब्रह्मोवाच

एतस्मिन्नगरे तत्र क्षीरसागरमध्यतः ॥

उज्जहार विमानाग्रे तेजोभाराभिपीडितः

॥४३॥

उरो बाहुकृतिं कुर्वन्सान्निध्यं समुपागतः ॥

महामत्स्योऽज्ञातपूर्वः सन्निधानेऽनहंकृतिः

॥४४॥

हुंकारगर्भे मत्स्यं च दृष्ट्वा तं स महेश्वरः ॥

तेजसा स्तंभयामास वाक्यमेतदुवाच ह

॥४५॥

कस्त्वं मत्स्योदरस्थश्च देवो यक्षोऽथ मानुषः ॥

कथं जीवसि देहांतर्गतो मम वद प्रभो

॥४६॥

मत्स्य उवाच

अहं मत्स्योदरे क्षिप्तः समुद्रे क्षीरसंभवे ॥

मात्रा तु पितृवाक्येन नायं मम कुलान्वितः

॥४७॥

कुलक्षयभयात्तेन जातं स्वकुलनाशनम् ॥

गंडांतयोगजनितो बालो न गृहकर्मकृत्

॥४८॥

इति मात्रा दुःखितया निरस्तः शृणु वंशजः ॥

झषेणापि गृहीतोऽस्मि कालो मेऽत्र महानभूत्

॥४९॥

तव वाक्यामृतैरेभिर्ज्ञानयोगो महानभूत् ॥

तेन त्वं सकलो ज्ञातो मया मूर्तोऽथ मूर्त्तगः

॥५०॥

अनुज्ञां मम देवेश देहि निष्क्रमणाय च ॥

यथाऽहं पितृपो ब्रह्मन्भवान्याश्चापि लक्ष्यते

॥५१॥

हर उवाच

विप्रोऽसि सुतरूपोऽसि पूज्योस्यासि बभाषतः ॥

बहिर्निष्क्रम वेगेन स्तंभितोऽसि महाझषः

॥५२॥

ततोऽसौ शिरसा जात उत्क्लेशान्मत्स्ययोजितः ॥

ततो हि विकृतं वक्त्रं क्षणाद्बहिरुपागतः

॥५३॥

रूपवान्प्रतिमायुक्तो मत्स्यगंधेन संयुतः ॥

सोमकांतिसमस्तत्र ह्यभवद्दिव्यगंधभाक्

॥८५४॥

उमापि प्रणतं चामुं सुतं स्वोत्संगभाजनम् ॥

चकार तस्य नामापि हरः परमहर्षितः

॥८९५॥

यस्मान्मत्स्योदराज्जातो योगिनां प्रवरो ह्ययम् ॥

तस्मात्तु मत्स्य नाथेति लोके ख्यातो भविष्यति

॥५६॥

अच्छेद्यः स्यान्नरतनुर्ज्ञानयोगस्य पारगः ॥

निर्मत्सरोऽपि निर्द्वंद्वो निराशो ब्रह्मसेवकः

॥५७॥

जीवन्मुक्तश्च भविता भुवनानि चतुर्दश ॥

इत्युक्तश्च महेशानं प्रणमंश्च पुनःपुनः ॥

महेश्वरेण सहितो मंदराचलमाययौ

॥५८॥

ब्रह्मोवाच

कृत्वा प्रदक्षिणं देवीं स्कन्दमालिंग्य सोऽगमत्

॥५९॥

ततः सा पार्वती हृष्टा प्राप्य ज्ञानमनुत्तमम् ॥

एवं सा परमां सिद्धिं प्रणवस्यप्रभा जनम्

॥६०॥

सा प्राप्य जगतां माता द्वादशाक्षरजांबुना ॥

इमां मत्स्येन्द्रनाथस्य चोत्पत्तिं यः शृणोति च

॥६१॥

चातुर्मास्ये विशेषेण सोऽश्वमेधफलं लभेत्

॥६२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाह्स्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये मत्स्येन्द्रनाथोत्पत्तिकथनं नाम त्रिषष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६३ ॥