सुभद्रात्वप्राप्तिवर्णनम्
ऋषय ऊचुः
यदेतद्भवता प्रोक्तं देवदेवेन विष्णुना ॥
माधवीं भगिनीं प्राप्य जन्मांतरमुपस्थिताम्
॥१॥अश्ववक्त्रां करिष्यामि तपसा सुशुभाननाम् ॥
सा कथं विहिता तेन तपस्तप्तं तथा कथम् ॥
सर्वं विस्तरतो ब्रूहि परं कौतूहलं हि नः
॥२॥सूत उवाच
नारदस्य समाकर्ण्य तं सन्देशं सुरोद्भवम् ॥
गत्वा विष्णुः सुरैः सार्द्धं प्रचक्रे मंत्रनिश्चयम्
॥३॥भारावतरणार्थाय दानवानां वधाय च ॥
वसुदेवगृहे श्रीमान्द्वापरांते ततो हरिः
॥४॥देवक्या जठरे देवः संजातो दैत्यदर्पहा ॥
तथान्या रोहिणीनाम भार्या तस्य च याऽभवत्
॥५॥तस्यां जज्ञे हलीनाम बलभद्रः प्रतापवान् ॥
तृतीया सुप्रभानाम वसुदेवप्रिया च या
॥६॥तस्यां सा माधवी जज्ञे अश्ववक्त्रस्वरूपधृक् ॥
तां दृष्ट्वा विकृताकारां सुतां जातां च सुप्रभा ॥
वासुदेवसमायुक्ता विषादं परमं गता
॥७॥अथ ते यादवाः सर्वे कृतशान्तिकपौष्टिकाः ॥
स्वस्तिस्वस्तीति संत्रस्ताः प्रोचुर्भूयात्कुलेऽत्र नः
॥८॥एवं सा यौवनोपेता तथा दुःखसमन्विता ॥
न कश्चिद्वरयामास वाजिवक्त्रां विलोक्य ताम्
॥९॥ततश्च भगवान्विष्णुर्ज्ञात्वा तां भगिनीं तथा ॥
मातरं पितरं चैव तथा दुःखसमन्वितौ
॥१०॥तामादाय गतस्तूर्णं बलदेवसमन्वितः ॥
हाटकेश्वरजे क्षेत्रे तपस्तप्तुं ततः परम्
॥११॥ब्रह्माणं तोषयामास सम्यग्यज्ञपरायणः ॥
व्रतैश्च विविधैर्दानैर्ब्राह्मणानां च तर्पणैः
॥१२॥ततस्तुष्टिं गतो ब्रह्मा वर्षांते तस्य शार्ङ्गिणः ॥
उवाच वरदोऽस्मीति प्रार्थयस्वाभिवांछितम्
॥१३॥विष्णुरुवाच
एषा मे भगिनी देव जाताऽश्ववदना किल ॥
तव प्रसादात्सद्वक्त्रा भूयादेतन्ममेप्सितम्
॥१४॥श्रीब्रह्मोवाच
एषा शुभानना साध्वी मत्प्रसादाद्भविष्यति ॥
सुभद्रा नाम विख्याता वीरसूः पतिवल्लभा
॥१५॥एतद्रूपां पुमान्योऽत्र पूजयिष्यति भक्तितः ॥
एतां विष्णो त्वया सार्धं तथानेन च सीरिणा
॥१६॥द्वादश्यां माघमासस्य गंधपुष्पानुलेपनैः ॥
सोऽप्यवाप्स्यति यच्चित्ते वर्तते नात्र संशयः
॥१७॥या नारी पतिना त्यक्ता वंध्या वा भक्तिसंयुता ॥
तृतीयादिवसे चैतां पूजयिष्यति केशव
॥१८॥भविष्यति सुपुत्राढ्या सुभगा सा सुखान्विता ॥
ऐश्वर्यसहिता नित्यं सर्वैः समुदिता गुणैः
॥१९॥एवमुक्त्वा चतुर्वक्त्रो विरराम ततः परम् ॥
वासुदेवोऽपि हृष्टात्मा ययौ द्वारवतीं पुरीम्
॥२०॥तामादाय विशालाक्षीं चंद्रबिंबसमाननाम् ॥
बलदेवसमायुक्तो ह्यनुज्ञाप्य पिताम हम्
॥२१॥सूत उवाच
एवं सा माधवी विप्राः सुभगारूपमास्थिता ॥
अवतीर्णा धरापृष्ठे लक्ष्मीशापप्रपीडिता
॥२२॥उपयेमे सुतः पांडोर्यां पार्थश्चारुहासिनीम् ॥
जज्ञे तस्याः सुतो वीरोऽभिमन्युरिति विश्रुतः
॥२३॥एतद्वः सर्वमाख्यातं माधबीजन्मसम्भवम् ॥
सुपर्णाख्यस्य देवस्य कथासंगाद्द्विजोत्तमाः
॥२४॥यश्चैतत्पठते मर्त्यो भक्त्या युक्तः शृणोति वा ॥
मुच्यते स नरः पापात्तद्दिनैकसमुद्भवात्
॥२५॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सुपर्णाख्यतीर्थमाहात्म्ये माधव्या अश्वमुख्याः श्रीकृष्णतपश्चर्यया पद्मादत्तशापविमुक्तिपूर्वक सुभद्रात्वप्राप्तिवर्णनंनाम चतुरशीतितमोऽध्यायः ॥ ८४ ॥