मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २०३

3
नागरखण्डः · 203

नागरविशुद्धिप्रकारवर्णनम्

आनर्त उवाच

एवं शुद्ध्यर्थमायातो नागराणां पुरः स्थितः ॥

नागरः शुद्धिमाप्रोति यथा तन्मे वद द्विजः

॥१॥

विश्वामित्र उवाच

एवं मध्यस्थवचनात्समुदाये स्थिरे सति ॥

स प्रष्टव्यः पितुर्माता कतमा ते वदस्व नः

॥२॥

किं गोत्रः कतमस्तस्याः पिता किंप्रवरः स्मृतः ॥

एवं तस्यान्वयं ज्ञात्वा गोत्रप्रवरसंयुतम्

॥३॥

प्रष्टव्या च ततो माता तस्याश्चापि च या भवेत् ॥

जननी चापि प्रष्टव्या तस्याश्चापि च या भवेत्

॥४॥

ज्ञातव्या सापि यत्नेन ब्राह्मणैः शुद्धि कर्मणि

॥५॥

पिता पितामहश्चैव तथैव प्रपितामहः ॥

शोधनीयाः प्रयत्नेन त्रयश्चैतेऽपि तस्य च

॥६॥

तथा पितामहीपक्षे त्रय एते द्विजोत्तमाः ॥

मातामहस्ततस्तस्य पिता तस्यापि यः पिता

॥७॥

माता मातामही चैव तथैवान्या प्रपूर्विका ॥

पितामह्याश्च या माता सापि शोध्या सभर्तृका

॥८॥

एवं शाखाऽगमं ज्ञात्वा तस्य सर्वं यथाक्रमम् ॥

मूलवंशादधिष्ठानं न्यग्रोधस्येव सर्वतः

॥९॥

ततः शुद्धिः प्रदातव्या सिन्दूरति लकेन तु ॥

चातुश्चरणमंत्रैश्च दत्त्वाशीर्वचनं क्रमात्

॥१०॥

ततो वाच्यं नृपश्रेष्ठ मध्यस्थेन तदग्रतः ॥

दत्त्वा तालत्रयं राजञ्छुद्धोऽयं नागरो द्विजः ॥

सामान्यपदयोग्यश्च संजातः सांप्रतं द्विजः

॥११॥

ततोऽग्निशरणं गत्वा संतर्प्य च हुताशनम् ॥

पञ्चवक्त्रेण मंत्रेण दत्त्वा पूर्णाहुतिं ततः ॥

विप्रेभ्यो दक्षिणां दद्यात्स्वशक्त्या भोजनान्विताम्

॥१२॥

सिन्दूरतिलके जाते ब्रह्माग्रे द्विजवाक्यतः ॥

पितॄणां जायते तुष्टिर्वंशो नोऽद्य प्रतिष्ठि तः

॥१३॥

यस्य नो जायते शुद्धिः शाखाभिर्मूलवंशगा ॥

निग्रहस्तस्य कर्तव्यो द्विजार्हो द्विजसत्तमैः

॥१४॥

यथा नान्यो हि जायेत शुद्धि स्तस्य प्रकल्पिता ॥

एवं संशोधितो विप्रः श्राद्धार्हो जायते ततः

॥१५॥

अपि चाष्टकुलोत्पन्नः सामान्यः किं पुनर्हि यः ॥

अशुद्धेन तु विप्रेण यः श्राद्धा द्यं करोति हि ॥

तस्य भस्महुतं यद्वत्सर्वं तज्जायते वृथा

॥१६॥

तस्मात्सर्वप्रयत्नेन शोध्योऽयं नागरो द्विजः ॥

स्वस्थानस्य विशुद्ध्यर्थं तथैव स्वकु लस्य च

॥१७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये नागरविशुद्धिप्रकारवर्णनंनाम त्र्युत्तरद्विशततमोऽध्यायः ॥ २०३ ॥