महेश्वरस्य चोत्पत्तिर्यथा लिंगत्वमाप सः
गालव उवाच
इति ते कथितं सर्वं शालग्रामकथानकम् ॥
महेश्वरस्य चोत्पत्तिर्यथा लिंगत्वमाप सः
॥१॥तस्माद्वरं लिंगरूपं शालग्रामगतं हरिम् ॥
येऽर्चयंति नरा भक्त्या न तेषां दुःखयातनाः
॥२॥चातुर्मास्ये समायाते विशेषात्पूजयेच्च तौ ॥
अर्चितौ यावभेदेन स्वर्गमोक्षप्रदायकौ
॥३॥देवौ हरिहरौ भक्त्या विप्रवह्निगवां गतौ ॥
येऽर्चयंति महाशूद्र तेषां मोक्षप्रदोहरिः
॥४॥वेदोक्तं कारयेत्कर्म पूर्तेष्टं वेदतत्परः ॥
पंचायतनपूजा च सत्यवादो ह्यलोलता
॥५॥विवेकादिगुणैर्युक्तः स शूद्रो याति सद्गतिम् ॥
ब्रह्मचर्यं तपो नान्यद्द्वादशाक्षरचिंतनात् १
॥६॥मन्त्रैर्विना षोडश सोपचारैः कार्या सुपूजा नरकादिहंतुः ॥
यथा तथा वै गिरिजापतेश्च कार्या महा शूद्र महाघहंत्री
॥७॥ब्रह्मोवाच
एवं कथयतोरेषा रजनी क्षयमाययौ ॥
सच्छूद्रो गालवश्चैव शिष्यैश्च परिवारितः
॥८॥स तेन पूजितो विप्रो ययौ शीघ्रं निजाश्रमम्
॥९॥य इमं श्रुणुयान्मर्त्यो वाचयेत्पाठयेच्च वा ॥
श्लोकं वा सर्वमपि च तस्य पुण्यक्षयो न हि
॥१०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्य माहात्म्ये पैजवनोपाख्याने षष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६० ॥