मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १५१

3
नागरखण्डः · 151

अन्धकोऽपि परां विद्यां ज्ञात्वा शुक्रार्जितां तदा

सूत उवाच

अन्धकोऽपि परां विद्यां ज्ञात्वा शुक्रार्जितां तदा ॥

केलीश्वर्याः प्रसादं च भक्तिजं बलवृद्धिदम्

॥१॥

अवध्यतामात्मनश्च पितामहवरोद्भवम् ॥

महेश्वरं समुद्दिश्य कोपं चक्रे ततः परम्

॥२॥

दूतं च प्रेषयामास कैलासं पर्वतं प्रति ॥

गच्छ दूत हरं ब्रूहि मम वाक्येन सांप्रतम्

॥३॥

शक्रमेनं परित्यज्य सुखं तिष्ठात्र पर्वते ॥

नो चेद्द्रुतं समागत्य सकैलासं सभार्यकम्

॥४॥

सगणं च रणे हत्वा सुखी स्थास्यामि नंदने ॥

त्वामहं नाशयिष्यामि सत्येनात्मानमालभे

॥५॥

एवमुक्तः स दैत्येन दूतो गत्वा द्रुतं ततः ॥

प्रोवाच शंकरं वाक्यैः परुषैः स विशेषतः

॥६॥

ततः कोपपरीतात्मा भगवान्वृषभध्वजः ॥

गणान्संप्रेषयामास वधार्थं तस्य दुर्मतेः

॥७॥

वीरभद्रं महाकालं नंदिं हस्तिमुखं तथा ॥

अघोरं घोरनादं च घोरघंटं महाबलम्

॥८॥

एतेषामनुगाश्चान्ये कोटिरेका पृथक्पृथक् ॥

सर्वान्संप्रेषयामास वधार्थं तस्य दुर्मतेः

॥९॥

अथ संप्रेषितास्तेन गणास्ते विकृताननाः ॥

हर्षेण महताविष्टा गर्जमाना यथा घनाः

॥१०॥

धृतायुधा गताः सर्वे युद्धार्थं यत्र सा पुरी ॥

शक्रस्यासादिता तेन दानवेन बलीयसा

॥११॥

अथ प्राप्तान्गणान्दृष्ट्वा दानवास्ते धृतायुधाः ॥

निश्चक्रमुर्वै सहसा युद्धार्थमतिगर्विताः

॥१२॥

ततः समभवद्युद्धं गणानां दानवैः सह ॥

परस्परं महारौद्रं मृत्युं कृत्वा निवर्तनम्

॥१३॥

ततो हरगणाः सर्वे दानवैस्तै रणाजिरे ॥

जिता जग्मुर्दिशो भीता हरवीक्षणतत्पराः

॥१४॥

हरोऽपि तान्गणान्भग्नान्दृष्ट्वा कोपाद्विनिर्ययौ ॥

हरं दृष्ट्वा ततो दैत्या दुद्द्रुवुस्ते दिशो दश ॥

अन्धकोऽपि हरं दृष्ट्वा युद्धार्थं संमुखो ययौ ।

ततो युद्धं समभवदंधकस्य हरेण तु ॥

वृत्रवासवयोः पूर्वं यथा युद्धमभून्महत्

॥१६॥

चक्रनालीकनाराचैस्तोमरैः खड्गमुद्गरैः ॥

एवं न शक्यते हंतुं दानवो विविधायुधैः

॥१७॥

अस्त्रयुद्धं परित्यज्य बाहु युद्धमुपागतौ ॥

करं करेण संगृह्य मुष्टिप्रहरणौ तदा ॥

दानवेनाथ देवेशो बंधेनाक्रम्य पीडितः ।

निष्पंदभावमापन्नस्ततो मूर्च्छामुपागतः

॥१९॥

मूर्छागतं तु तज्ज्ञात्वा ह्यन्धको निर्ययौ गृहात् ॥

तावत्स्थाणुः क्षणाल्लब्ध्वा चेतनामात्तकार्मुकः

॥२०॥

आयसीं लकुटीं गृह्य प्रभुर्भारसहसि काम् ॥

दानवेन्द्रं ततः प्राप्य ताडयामास मूर्धनि

॥२१॥

सोऽपि खड्गेन देवेशं ताडयामास वेगतः ॥

अथ देवोऽपि सस्मार कौबेरास्त्रं महाहवे

॥२२॥

अस्त्रेण तेन हृदये ताडयामास दानवम् ॥

ततः स ताडितस्तेन रुधिरोद्गारमुद्वमन्

॥२३॥

पतितोऽधोमुखो भूत्वा ततः शूलेन भेदितः ॥

शूलाग्रसंस्थितः पापश्चक्रवद्भ्रमते ततः

॥२४॥

अन्धकोऽपि तदात्मानं तथावस्थमवेक्ष्य च ॥

ततो वाग्भिः सुपुष्टाभिरस्तौद्देवं महेश्वरम्

॥२५॥

अन्धक उवाच

नमस्ते जगतां धात्रे शर्वाय त्रिगुणात्मने ॥

वृषभासनसंस्थाय शशांककृतभूषण

॥२६॥

नमः खट्वांगहस्ताय नमः शूलधराय च ॥

नमो डमरुकोदण्डकपालानलधारिणे

॥२७॥

स्मरदेहविनाशाय मूर्त्यष्टकमयात्मने ॥

नमः स्वरूपदेहाय ह्यरूपबहुरू पिणे

॥२८॥

उत्तमांगविनाशाय विरिंचेः सृष्टिकारिणे ॥

स्मशानवासिने नित्यं नमो भैरवरूपिणे

॥२९॥

सर्वगः सर्वकर्ता च त्वं हर्ता नान्य एव हि ॥

त्वं भूमिस्त्वं रजश्चैव त्वं ज्योतिस्त्वं तमस्तथा

॥३०॥

त्वं वपुः सर्वभूतानां जीवभूतो महेश्वर ॥

अस्तौदेवं दानवेन्द्रो देवशूलाग्र संस्थितः

॥३१॥

सूत उवाच

एवं तस्य स्तुतिं श्रुत्वा परितुष्टो महेश्वरः ॥

ततः प्रोवाच तं हर्षाच्छूलाग्रस्थं दनूत्तमम्

॥३२॥

श्रीभगवानुवाच

नेदं वीरव्रतं दैत्य यच्छत्रुकरपीडनात् ॥

प्रोच्यन्ते सामवाक्यानि विशेषाद्दैत्यजन्मना

॥३३॥

अन्धक उवाच

निर्विण्णोऽस्मि सुरश्रेष्ठ त्रिशूलाऽग्रं समाश्रितः ॥

तस्मात्सूदय मां येन द्रुतं स्यान्मे व्यथाक्षयः

॥३४॥

श्रीभगवानुवाच

न तेऽस्ति मरणं दैत्य कथंचिच्चिंतितं मया ॥

तेनेत्थं विधृतं व्योम्नि भित्त्वा शूलेन वक्षसि

॥३५॥

तस्मात्त्वं गणतां गच्छ सांप्रतं पापवर्जितः ॥

त्यक्त्वा दानवजं भावं श्रद्धया परया युतः

॥३६॥

अन्धक उवाच

गतो मे दानवो भावः सांप्रतं तव किंकरः ॥

भविष्यामि न सन्देहः सत्येनात्मानमालभे

॥३७॥

शंकर उवाच

परितुष्टोऽस्मि ते वत्स ब्रूहि यत्तेऽभिवांछितम् ॥

प्रार्थयस्व प्रयच्छामि यद्यपि स्यात्सुदुर्लभम्

॥३८॥

अन्धक उवाच

अनेनैव तु रूपेण शृलाग्रस्थितमत्तनुम् ॥

यो मर्त्योर्च्चां प्रकृत्वा ते स्थापयिष्यति भूतले

॥३९॥

तस्य मोक्षस्त्वया देयो मद्वाक्यात्सुरसत्तम ॥

तथेत्युक्त्वा महेशस्तं शूलाग्रात्प्रमुमोच ह ॥

अस्थिशेषं कृशांगं च चामुण्डासदृशं द्विजाः

॥४०॥

ततः स गणतां प्राप्तो गीतं चक्रे मनोहरम् ॥

पुरतो देवदेवस्य पार्वत्याश्च विशेषतः

॥४१॥

भृंगवद्रटनं यस्मात्तस्य श्रोत्रसुखा वहम् ॥

भृंगीरिटि इति प्रोक्तस्ततः स त्रिपुरारिणा

॥४२॥

एवं स गणतां प्राप्तो देवदेवस्य शूलिनः ॥

विश्वास्यः सर्वकृत्येषु तत्परं समपद्यत

॥४३॥

ततःप्रभृति लोकेऽत्र देवदेवो महेश्वरः ॥

तादृशेनैव रूपेण स्थाप्यते भूतले जनैः

॥४४॥

प्राप्यतेऽत्र परा सिद्धिस्तत्प्रसादादलौ किकी ॥

कस्यचित्त्वथ कालस्य राज्याद्भ्रष्टो महीपतिः

॥४५॥

सुरथाख्यः प्रसिद्धोऽत्र सूर्यवंशसमुद्भवः ॥

ततो वसिष्ठमासाद्य स चात्मीयं पुरो हितम् ॥

प्रोवाच प्रणतो भूत्वा बाष्पव्याकुललोचनः

॥४६॥

त्वया नाथेन मे ब्रह्मन्संस्थितेनाऽपि शत्रुभिः ॥

बलाच्च यद्धृतं राज्यं मन्द भाग्यस्य सांप्रतम्

॥४७॥

तस्मात्कुरु प्रसादं मे येन मे राज्यसंस्थितिः ॥

भूयोऽपि त्वत्प्रसादेन नान्या मे विद्यते गतिः

॥४८॥

वसिष्ठ उवाच

यद्येवं ते महाराज मद्वाक्यात्सत्वरं व्रज ॥

हाटकेश्वरजं क्षेत्रं सर्वसिद्धिप्रदायकम्

॥४९॥

तत्र भैरवरूपेण स्थापयित्वा महेश्वरम् ॥

भुजोद्यतोग्रशूलाग्रविद्धान्धककलेवरम्

॥५०॥

नारसिंहेन मंत्रेण ततः पूजय तं नृप ॥

रक्तपुष्पैस्तथा धूपै रक्तैश्चैवानुलेपनैः

॥५१॥

ततः सद्वीर्य मासाद्य तेजोवीर्यसमन्वितः ॥

हनिष्यस्यखिलाञ्छत्रूंस्तत्प्रसादादसंशयम्

॥५२॥

परं शौचसमेतेन संपूज्यो भगवांस्त्वया ॥

अन्यथा प्राप्स्यसे विघ्नान्सत्यमेतन्मयोदितम्

॥५३॥

अथ तस्य वचः श्रुत्वा स राजा सत्वरं ययौ ॥

तत्र क्षेत्रे ततो देवं स्थापयामास भैरवम्

॥५४॥

ततः संपूजयामास नारसिंहेन भक्तितः ॥

मन्त्रेण प्रयतो भूत्वा ब्रह्मचर्यपरायणः

॥५५॥

ततो दशसहस्रांते तस्य मंत्रस्य संख्यया ॥

भैरवस्तुष्टिमापन्नः प्रोवा च तदनन्तरम्

॥५६॥

श्रीभैरव उवाच

परितुष्टोऽस्मि ते राजन्मंत्रेणानेन पूजितः ॥

तस्मात्प्रार्थय यच्चेष्टं येन सर्वं ददाम्यहम्

॥५७॥

सुरथ उवाच

शत्रुभिर्मे हृतं राज्यं त्वत्प्रसादात्सुरेश्वर ॥

तन्मे भवतु भूयोऽपि शत्रुभिः परिवर्ज्जितम्

॥५८॥

अन्योऽपि यः पुमानित्थं त्वामिहागत्य पूजयेत् ॥

अनेनैव तु मंत्रेण तस्य सिद्धिस्त्वया विभो

॥५९॥

देया देव सहस्रांते यथा मम सुरेश्वर ॥

तथेति तं प्रतिज्ञाय गतश्चादर्शनं हरः

॥६०॥

सुरथोऽपि निजं राज्यं प्राप हत्वा रणे रिपून्

॥६१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटके श्वरक्षेत्रमाहात्म्ये भैरवक्षेत्रमाहात्म्यवर्णनंनामैकपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५१ ॥