मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ६७

3
नागरखण्डः · 67

एतस्मिन्नंतरे प्राप्तो रामो भ्रातृभिरन्वितः

सूत उवाच

एतस्मिन्नंतरे प्राप्तो रामो भ्रातृभिरन्वितः ॥

फलानि कन्दमूलानि गृहीत्वाऽऽश्रमसम्मुखः

॥१॥

स दृष्ट्वा स्वाश्रमं ध्वस्तं पुलिन्दैर्बहुशो वृतम् ॥

लकुटाश्मप्रहारैस्तु तां धेनुं जर्जरीकृताम्

॥२॥

पप्रच्छ किमिदं सर्वं व्याकुलत्वमुपागतम् ॥

आश्रमास्पदमाभीरैः पुलिन्दैश्च समावृतम्

॥३॥

केनैषा मामिका धेनुः प्रहारैर्जर्जरीकृता ॥

तापस्यस्तापसाः सर्वे कस्मादेते रुदन्ति च

॥४॥

क्व स मेऽद्य पिता वृद्धो माता च सुतवत्सला ॥

न मामद्य यथापूर्वं स्नेहाच्चायाति सम्मुखी

॥५॥

अथ तस्य समाचख्युर्वृत्तांतं सर्वतापसाः ॥

यथादृष्टं सुदुःखार्ता सहस्रार्जुनचेष्टितम्

॥६॥

ततस्ते भ्रातरः सर्वे वज्रपातोपमं वचः ॥

श्रुत्वा दृष्ट्वा च तं शस्त्रैः खंडितं जनकं निजम्

॥७॥

मातरं क्षतसर्वाङ्गीं प्राणशेषां व्यथान्विताम् ॥

रुरुदुः शोकसन्तप्ता मुक्त्वा रामं महाबलम्

॥८॥

रुदित्वाथ चिरं कालं विप्रलप्य मुहुर्मुहुः ॥

अन्त्येष्टिं चक्रिरे तस्य वेदोक्तविधिना ततः

॥९॥

अथ दाहावसाने ते कृत्वा गर्तां यथोचिताम् ॥

मुक्त्वा रामं ददुस्तोयं पितुः पुत्रास्तिलान्वितम्

॥१०॥

अथान्यैस्तापसैः प्रोक्तो रामः शस्त्रभृतां वरः ॥

न प्रयच्छसि कस्मात्त्वं प्रेतपित्रे जलांजलिम्

॥११॥

अथासौ बहुधा प्रो क्तस्तापसैर्जमदग्निजः ॥

प्रहारान्गणयन्मातुः शितशस्त्रविनिर्मितान्

॥१२॥

ततस्तानब्रवीद्रामो विनिःश्वस्य मुनीश्वरान् ॥

निषेधस्तोयदानस्य श्रूयतां यन्मया कृतः

॥१३॥

अपराधं विना तातः क्षत्रियेण हतोमम ॥

एकविंशतिः प्रहाराणां मातुरंगे स्थिता मम

॥१४॥

तस्मान्निःक्षत्रियामुर्वीं यद्यहं न करोमि वै ॥

प्रहारसंख्यया विप्रास्तन्मे स्यात्सर्वपातकम्

॥१५॥

पितृमातृवधाज्जातं यत्कृतं तेन पाप्मना ॥

क्षत्रियापसदेनात्र तथान्यदपि कुत्सितम्

॥१६॥

ततस्तस्यैव चान्येषां क्षत्रियाणां दुरात्मनाम् ॥

रुधिरैः पूरयित्वेमां गर्तां पितृजलोचिताम् ॥

तर्पयिष्यामि रक्तेन पितरं नाहमंभसा

॥१७॥

सूत उवाच

श्रुत्वा ते दारुणां तस्य प्रतिज्ञां तापसोत्तमाः ॥

परं विस्मयमापन्ना नोचुः किंचित्ततः परम्

॥१९॥

अथाशौचांतमासाद्य रामः क्रोधसमन्वितः ॥

तीक्ष्णं परशुमादाय माहिष्मत्युन्मुखं ययौ

॥१९॥

सर्वैस्तैः शबरैः सार्धं पुलिन्दैर्मेदकैस्तथा ॥

बद्धगोधांगुलित्राणैर्वरबाणधनुर्धरैः

॥२०॥

तथाऽर्जुनोऽपि तं श्रुत्वा समायातं भृगूत्तमम् ॥

सैन्येन महता युक्तं प्रतिज्ञाधारिणं तथा

॥२१॥

ततस्तु सम्मुखो दृष्टो युद्धार्थं स विनिर्ययौ ॥

सार्धं नानाविधैर्योधैः सर्वैर्देवासुरोपमैः

॥२२॥

अथाभवन्महायुद्धं पुलिन्दानां द्विजोत्तमाः ॥

हैहयाधिपतेर्योधैः सार्धं देवासुरोपमैः

॥२३॥

ततस्ते हैहयाः सर्वे शरैराशीविषोपमैः ॥

वध्यन्ते शबरैः संख्ये गर्जमानैर्मुहुर्मुहुः

॥२४॥

ब्रह्महत्यासमुत्थेन पातकेन ततश्च ते ॥

जाता निस्तेजसः सर्वे प्रपतंति धरातले

॥२५॥

न कश्चित्पौरुषं तत्र संप्रदर्शयितुं क्षमः ॥

पलायनपरा सर्वे वध्यन्ते निशितैः शरैः

॥२६॥

अथ भग्नं बलं दृष्ट्वा हैहयाधिपतिः क्रुधा ॥

स्वचापं वाञ्छयामास सज्यं कर्तुं त्वरान्वितः ॥

शक्नोति नारोपयितुं सुयत्नमपि चाश्रितः

॥२७॥

ततश्चाकर्षयामास खङ्गं कोशात्सुनिर्मलम् ॥

आक्रष्टुं न च शक्रोति वैलक्ष्यं परमं गतः

॥२८॥

गदया निर्जितो रौद्रो रावणो लोकरावणः ॥

यया साप्यपतद्धस्तात्तत्क्षणात्पृथिवीतले

॥२९॥

नर्मदायाः प्रवाहो यैः सहस्राख्यैः करैः शुभैः ॥

विधृतस्तेन ते सर्वे बभूवुः कम्पविह्वलाः

॥३०॥

न शस्त्रं शेकुरुद्धर्तुं दैवयोगात्कथंचन ॥

दिव्यास्त्राणां तथा सर्वे मन्त्रा विस्मृतिमागताः

॥३१॥

एतस्मिन्नंतरे रामः संप्राप्तः क्रोधमूर्छितः ॥

तीक्ष्णं परशुमुद्यम्य ततस्तं प्राह निष्ठुरम्

॥३२॥

हैहयाधिपते पाप यैः करैर्जनको मम ॥

त्वया विनिहतस्तान्मे शीघ्रं दर्शय सांप्रतम्

॥३३॥

ब्रह्मतेजोहतः सोऽपि प्रोक्तस्तेन सुनिष्ठुरम् ॥

नोवाच चोत्तरं किंचिदालेख्ये लिखितो यथा

॥३४॥

ततो भुजवनं तस्य रामः शस्त्रभृतां वरः ॥

मुहुर्मुहुर्विनिर्भर्त्स्य प्रचकर्त शनैःशनैः

॥३५॥

ततश्छित्त्वा शिरस्तस्य कुठारेण भृगूद्वहः ॥

जग्राह रुधिरं यत्नात्प्रहारेभ्यः स्वयं द्विजाः

॥३६॥

पूरयित्वा महाकुम्भाञ्छबरेभ्यो ददौ ततः ॥

म्लेच्छेभ्यो लुब्धकेभ्यश्च ततः प्रोवाच सादरम्

॥३७॥

हाटकेश्वरजे क्षेत्रे गर्ता मे भ्रातृभिः कृता ॥

पितृसंतर्पणार्थाय सलिलेन परिप्लुता

॥३८॥

प्रक्षिपध्वं द्रुतं गत्वा तस्यां रक्तमिदं महत् ॥

पापस्यास्य सपत्नस्य ममादेशादसंशयम्

॥३९॥

येन तातं निजं भक्त्या तर्पयित्वा विधानतः ॥

ऋणस्य मुक्तिर्भवति येन मे पैतृकस्यच

॥४०॥

इति श्रीस्कांदे महापुराण एकाशातिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सहस्रार्जुनवधवर्णनंनाम सप्तषष्टितमोऽ ध्यायः ॥ ६७ ॥