मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १९६

3
नागरखण्डः · 196

प्रत्यागमनवर्णनम्

सूत उवाच

अथ तां यौवनोपेतां स्वसुतां प्रेक्ष्य पार्थिवः ॥

अनौपम्येन रूपेण संयुक्तां वरवर्णिनीम् ॥

आनर्तश्चिन्तयामास कन्यकां प्रददाम्यहम्

॥१॥

अनर्हाय च यो दद्या द्वराय निजकन्यकाम् ॥

कार्यकारणलोभेन नरकं स प्रगच्छति

॥२॥

एवं चिंतयतस्तस्य महान्कालो व्यवस्थितः ॥

न पश्यति च तद्योग्यं कंचिद्वरमनुत्तमम्

॥३॥

अथ संप्रेषयामास सर्वभूताश्रयेषु ये ॥

चित्रकर्मणि विख्यातान्नरांश्चित्रकरांस्तदा

॥४॥

गच्छध्वं मम वाक्येन सर्वा न्भूमितले नृपान् ॥

लिखित्वा पट्टमध्ये तु दर्शयध्वं ततः परम्

॥५॥

सुताया मम येनाऽसौ दृष्ट्वाऽभीष्टं नराधिपम् ॥

पत्यर्थं वरयेत्साध्वी मम दोषो भवेन्न हि

॥६॥

तस्य तद्वचनं श्रुत्वा सर्वे चित्रकरास्तदा ॥

प्रस्थिता धरणीपृष्ठे पार्थिवानां गृहेषु च

॥७॥

ते लिखित्वा महीपाला न्यौवनस्थान्वयोऽन्वितान् ॥

रूपौदार्यगुणोपेतान्दर्शयामासुरग्रतः ॥

रत्नवत्याः क्रमेणैव तस्य भूपस्य शासनात्

॥८॥

अथ तेषां तु सर्वेषां मध्ये राजा वृहद्बलः ॥

दशार्णाधिपतिर्भव्यः पत्यर्थं च वृतस्तया

॥९॥

तदाऽऽनर्ताधिपो हृष्टः प्रेषयामास तं प्रति ॥

विवाहार्थं सुविज्ञाय वाक्य मेतदुवाच ह

॥१०॥

गच्छध्वं मम वाक्येन दशार्णाधिपतिं प्रति ॥

वाच्यः स विनयाद्गत्वा विवाहार्थं ममांतिकम्

॥११॥

समागच्छ निजां कन्यां येन यच्छाम्यहं तव ॥

नाम्ना रत्नवतीं ख्यातां त्रैलोक्यस्यापि सुन्दरीम्

॥१२॥

गत्वा स सत्वरं तत्र यत्र राजा बृहद्बलः ॥

प्रोवाच सकलं वाक्यमानर्ताधिपतेः स्फुटम्

॥१३॥

सोऽपि तत्सहसा श्रुत्वा तेषां वाक्यमनुत्तमम् ॥

परमां तुष्टिमासाद्य प्रस्थितस्तत्पुरं प्रति ॥

सैन्येन महता युक्तश्चतुरंगेण पार्थिवः

॥१४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये दशार्णाधिपतेर्बृहद्बलस्यानर्तेशपुरं प्रत्यागमनवर्णनंनाम षण्णवत्युत्तरशततमोऽध्यायः ॥ १९६ ॥