वृकोऽपि तत्समासाद्य राज्यं त्रैलोक्यसंभवम्
सूत उवाच
वृकोऽपि तत्समासाद्य राज्यं त्रैलोक्यसंभवम् ॥
यदृच्छया जगत्सर्वं समाज्ञापयत्तदा
॥१॥सोंऽधकस्य बले वीर्ये धैर्ये कोपे च दानवः ॥
सहस्रगुणितश्चासीद्रौद्रः परमदारुणः
॥२॥एतस्मिन्नंतरे कश्चिन्न मर्त्यो यजति क्षितौ ॥
न होमं नैव जाप्यं च दैत्याञ्ज्ञात्वा सुरास्पदे
॥३॥अथ यः कुरुते धर्मं होमं वा जपमेव वा।
सुगुप्तस्थानमासाद्य करोत्यमरतुष्टये
॥४॥अथ स्वर्गस्थिता दैत्या यज्ञभागविवर्जिताः ॥
तथा मर्त्योद्भवैर्भागैः संदेहं परमं गताः
॥५॥ततः कोपपरीतात्मा प्रेषयामास दानवः ॥
मर्त्यलोके चरान्गुप्तान्निपुणांश्चाब्रवीत्ततः
॥६॥यः कश्चिद्देवतानां च प्रगृह्णाति करोति च ॥
तदर्थं यजनं होमं दानं वा पृथिवीतले ॥
स च वध्यश्च युष्माभिर्मम वाक्यादसंशयम्
॥७॥अथ ते तद्वचः श्रुत्वा दानवा बलवत्तराः ॥
गत्वा च मेदिनीपृष्ठं गुप्ताः सर्पंति सर्वतः
॥८॥यं कञ्चिद्वीक्षयंतिस्म जपहोमपरायणम ॥
स्वाध्यायं वा प्रकुर्वाणं तं निघ्नंति शितासिभिः
॥९॥एतस्मिन्नेव काले तु सांकृतिर्मुनिसत्तमः ॥
गुप्तश्चक्रे ततस्तस्यां गर्तायां छन्नवर्ष्मकः ॥
यत्र पूर्वं तपस्तप्तं वृकेण च द्विजाः पुरा
॥१०॥अथ ते तं तदा दृष्ट्वा तद्गुहायां व्यवस्थितम् ॥
भर्त्समानास्तपस्तच्च प्रोचुश्च परुषाक्षरैः
॥११॥दृष्ट्वा तस्याग्रतः संस्थां गन्धपुष्पैश्च पूजिताम् ॥
वासुदेवात्मिकां मूर्तिं चतुर्हस्तां द्विजोत्तमाः
॥१२॥ततस्ते शस्त्रमुद्यम्य निर्जघ्नुस्तं क्रुधान्विताः ॥
न शेकुस्ते यदा हंतुं संवृतं विष्णुतेजसा ॥
कुण्ठतां सर्वशस्त्राणि गतानि विमलान्यपि
॥१३॥अथ वैलक्ष्यमापन्ना निर्विण्णाः सर्व एव ते ॥
तां वार्तां दानवेन्द्राय वृकायोचुश्च ते तदा
॥१४॥कश्चिद्विप्रः समाधाय वैष्णवीं प्रतिमां पुरः ॥
तपस्तेपे महाभाग क्षेत्रे वै हाटकेश्वरे
॥१५॥यत्र त्वया तपस्तप्तं भीत्या सर्वदिवौकसाम् ॥
अपि चौर्येण चास्माकं तपस्तपति तादृशम्
॥१६॥येन सर्वाणि शस्त्राणि कुण्ठतां प्रगतानि च ॥
तस्य गात्रे प्रहारैश्च तस्मात्कुरु यथोचितम्
॥१७॥तेषां तद्वचनं श्रुत्वा वृकः कोपसमन्वितः ॥
जगाम सत्वं तत्र यत्रासौ सांकृतिः स्थितः
॥१८॥स गत्वा वैष्णवीं मूर्तिं तामुत्क्षिप्य सुदूरतः ॥
श्वभ्राद्बहिः प्रचिक्षेप भर्त्समानः पुनः पुनः
॥१९॥जघान पादघातेन दक्षिणेनेतरेण तम् ॥
अब्रवीन्मम वध्यस्त्वं यन्मच्छत्रुं जनार्दनम्
॥२०॥संपूजयसि चौर्येण तेन प्राणान्हराम्यहम् ॥
एवमुक्त्वाथ खड्गेन तं जघान स दैत्यपः
॥२१॥ततस्तस्य स खड्गस्तु तीक्ष्णोऽपि द्विजसत्तमाः ॥
तस्य काये प्रहीणस्तु शतधा समपद्यत
॥२२॥ततः कोपपरीतात्मा तं शशाप स सांकृतिः
॥२३॥यस्मात्पाप त्वयाहं च पादघातैः प्रताडितः ॥
तस्मात्ते पततां पादौ सद्य एव धरातले
॥२४॥सूत उवाच
उक्तमात्रे ततस्तेन पादौ तस्य द्विजोत्तमाः ॥
पतितौ मेदिनीपृष्ठे पंचशीर्षाविवोरगौ
॥२५॥एतस्मिन्नेव काले तु आक्रन्दः सुमहानभूत् ॥
वृकस्य सैनिकानां च नारीणां च विशेषतः
॥२६॥अथ देवाः परिज्ञाय तं तदा पंगुतां गतम् ।
आगत्य मेरुपृष्ठं च निजघ्नुस्तत्परिग्रहम्
॥२७॥हतशेषाश्च दैत्यास्ते पातालांतःसमा गताः ॥
वृकोऽपि पंगुतां प्राप्तस्तस्थौ तपसि सुस्थिरम्
॥२८॥सर्वैरंतःपुरैः सार्धं दुःखशोकसमन्वितः ॥
इन्द्रोऽपि प्राप्तवान्राज्यं तदा निहत कंटकम्
॥२९॥धर्मक्रियाः प्रवृत्ताश्च ततो भूयो रसातले
॥३०॥अथ दीर्घेण कालेन तस्य तुष्टः पितामहः ॥
उवाच तत्र चागत्य गर्त्तामध्ये द्विजोत्तमाः
॥३१॥वृक तुष्टोऽस्मि ते वत्स वरं वरय सुव्रत ॥
अहं दास्यामि ते नूनं यद्यपि स्यात्सुदुर्लभम्
॥३२॥वृक उवाच
यदि तुष्टोऽसि मे देव यदि देयो वरो मम ॥
पाददानं तदा देव मम ब्रह्मन्समाचर ॥
पंगुता याति शीघ्रं मे येनेयं ते प्रसादतः
॥३३॥तच्छ्रुत्वा तं समानीय सांकृतिं तत्र पद्मजः ॥
प्रोवाच सांत्वपूर्वं च वृकस्यास्य द्विजोत्तम
॥३४॥मद्वाक्यात्पंगुता याति येनास्य त्वं तथा कुरु
॥३५॥सांकृतिरुवाच
अनृतं नोक्तपूर्वं मे स्वैरेष्वपि पितामह ॥
ज्ञायते देवदेवेश तत्कथं तत्करोम्यहम्
॥३६॥ब्रह्मोवाच
मम भक्तिपरो नित्यं वृकोऽयं दैत्यसत्तमः ॥
पौत्रस्त्वं दयितो नित्यं तेन त्वां प्रार्थयाम्यहम्
॥३७॥तव वाक्यं च नो मिथ्या कर्तुं शक्नोमि सन्मुने
॥३८॥सांकृतिरुवाच
एष दैत्यः सुदुष्टात्मा देवानामहिते स्थितः ॥
विशेषाद्वासुदेवस्य पुरोर्मम महात्मनः
॥३९॥पंगुतामर्हति प्रायः पापात्मा द्विजदूषकः ॥
बलेन महता युक्तो जरामरणवर्जितः
॥४०॥पुरा कृतस्त्वया देव स चेत्पादाववाप्स्यति ॥
हनिष्यति जगत्सर्वं सदेवासुरमानुषम्
॥४१॥तस्मात्तिष्ठतु तद्रूपो न कल्पं कर्तुमर्हसि ॥
त्वयापि चिन्ता कर्तव्या त्रैलोक्यस्य यतः प्रभो
॥४२॥ब्रह्मोवाच
प्रावृट्काले तु सञ्जाते यानं कर्तुं न युज्यते ॥
विजिगीषोर्विशेषेण मुक्त्वा शीतातपागमम्
॥४३॥तस्माच्च चतुरो मासान्वार्षिकान्पादसंयुतः ॥
अगम्यः सर्वलोकानां कुर्यात्कर्माणि धैर्यतः
॥४४॥तद्भूयात्पादसंयुक्तः स वृको दान वोत्तमः ॥
येन क्षेमं च देवानां द्विजानां जायते द्विज
॥४५॥एवं कृते न मिथ्या ते वाक्यं विप्र भविष्यति ॥
फलं च तपसस्तस्य न वृथा संभविष्यति
॥४६॥सूत उवाच
बाढमित्येव तेनोक्ते सांकृतेन महात्मना ॥
उत्थितौ सहसा पादौ तस्य गात्रात्पुनर्नवौ
॥४७॥पुनश्च दानवो रौद्रः पशुत्वं समपद्यत ॥
तस्यामेव तु गर्तायां संतिष्ठति द्विजोत्तमाः
॥४८॥मासानष्टौ स दुःखेन सकलत्रः सबांधवः ॥
स्मरमाणो महद्वैरं दैवैः सार्धं दिवानिशम्
॥४९॥अन्यांश्च चतुरो मासान्निष्क्रम्य स रुषान्वितः ॥
सदा पीडयते देवान्सहेंद्रान्मानुषानपि
॥५॥विध्वंसयति सर्वाणि धर्मस्थानानि यानि च
॥५१॥विध्वंसयति देवानां स्त्रियो मासचतुष्टयम् ॥
उद्यानानि च सर्वाणि सपुराणि गृहाणि च
॥५२॥ततो देवाः समभ्येत्य देवदेवं जनार्दनम् ॥
क्षीराब्धौ संस्थितं नित्यं शेषपर्यंकशायिनम्
॥५३॥चतुरो वार्षिकान्मासांस्तत्र स्थित्वा तदंतिके ॥
मासानष्टौ पुनर्जग्मुस्त्रिदिवं प्रति निर्भयाः
॥५४॥तस्मिन्पंगुत्वमापन्ने दैत्ये परमदारुणे ॥
कस्यचित्त्वथ कालस्य देवराजो बृहस्पतिम् ॥
प्रोवाच दुःखसंतप्त आषाढांते सुरो त्तमः
॥५५॥गुरो स मासः संप्राप्तः प्रावृट्कालो भयावहः ॥
आगमिष्यति यत्रासौ लब्धपादो वृकासुरः
॥५६॥गन्तव्यं च ततोऽस्माभिः क्षीरोदे केशवालये ॥
मैवं दीनैस्तथा भाव्यं पराश्रयनिवासिभिः
॥५७॥स्वगृहाणि परित्यज्य शयनान्यासनानि च ॥
वाहनानि विचित्राणि यच्चान्य द्दयितं गृहे
॥५८॥तस्मात्कथय चास्माकमुपायं कञ्चिदेव हि ॥
व्रतं वा नियमं वाथ होमं वा मुनिसत्तम
॥५९॥अशून्यं शयनं येन स्वकलत्रेण जायते ॥
तथा न गृहसंत्यागः स्वकीयस्य प्रजायते
॥६०॥निर्विण्णोऽहं निजस्थानभ्रंशाद्द्विजवरोत्तम ॥
वर्षेवर्षे च सम्प्राप्ते स्थानकस्य च्युतिर्भवेत्
॥६१॥पुनर्भूमौ शयिष्यामि यावन्मासचतुष्टयम् ॥
निष्कलत्रो भयोद्विग्नो ब्रह्मचर्यपरायणः
॥६२॥तस्य तद्वचनं श्रुत्वा भयार्तस्य बृहस्पतिः ॥
प्रोवाच सुचिरं ध्यात्वा ततो देवं शतक्रतुम्
॥६३॥अशून्यशयनंनाम व्रतमस्ति महत्तपः ॥
विष्णोराराधनार्थाय तत्कुरुष्व समा हितः
॥६४॥देवो यत्रास्ति विष्णुः स क्षीराब्धौ मधुसूदनः ॥
जलशायी जगद्योनिः स दास्यति हितं च ते
॥६५॥यथा न शून्यं शयनं गृह भंगः प्रजायते ॥
सर्वशत्रुविनाशश्च तत्प्रसादेन वासव
॥६६॥सूत उवाच
तस्मिन्व्रते ततश्चीर्णे ह्यशून्यशयनात्मके ॥
तुतोष भगवान्विष्णुस्ततः प्रोवाच देवपम्
॥६७॥शक्र तुष्टोऽस्मि भद्रं ते वरं वरय सुव्रत ॥
व्रतेनानेन चीर्णेन चातुर्मास्योद्भवेन च ॥
तस्मात्प्रार्थय देवेन्द्र नित्यं यन्मनसि स्थितम्
॥६८॥इन्द्र उवाच
कृष्ण जानासि त्वं चापि यश्च मेऽत्र पराभवः ॥
क्रियते दानवेन्द्रेण वृकेण सुदुरात्मना
॥६९॥ममाष्टमासिकं राज्यं त्रैलोक्येऽपि व्यवस्थितम् ॥
शेषांश्च चतुरो मासान्वर्षेवर्षे समेति सः
॥७०॥एवं ज्ञात्वा सुरश्रेष्ठ दयां कृत्वा ममोपरि ॥
तथा कुरु यथा राज्यं मम स्यात्सार्वकालिकम्
॥७१॥विष्णुरुवाच
अजरश्चामरश्चापि स कृतः पद्मयोनिना ॥
तत्कथं जीवमानेन तेन राज्यं भवेत्तव
॥७२॥परं तथापि देवेन्द्र करिष्यामि हितं तव
॥७३॥क्षीरार्णवं परित्यज्य हाटकेश्वरसंज्ञिते ॥
क्षेत्रे गत्वा समं लक्ष्म्या तस्योपरि ततः परम्
॥७४॥करिष्यामि त्वहं शक्र शयनं यत्नमास्थितः ॥
यावच्च चतुरो मासान्यथा स न चलिष्यति
॥७८५॥तस्मात्स्थानात्सहस्राक्ष मद्भारेण प्रपीडितः ॥
वर्षेवर्षे सदा कार्यं मया तत्सुहितं तव
॥७६॥तस्माद्गच्छाधुना स्वर्गे कुरु राज्यमकंटकम् ॥
प्रावृट् काले तु संप्राप्ते न भीः कार्या तदुद्भवा
॥७७॥यो मां तत्र शयानं तु व्रतेनानेन देवप ॥
पूजयिष्यति सद्भक्त्या तस्य दास्यामि वांछितम्
॥७८॥सूत उवाच
एवमुक्त्वा हृषीकेशो विससर्ज शतक्रतुम् ॥
निःशेषभयनिर्मुक्तं स्वराज्यपरिवृद्धये ७९ ॥
आषाढस्य सिते पक्ष एकादश्या दिने सदा ॥
हाटकेश्वरजे क्षेत्रे तत्रागत्य स्वयं विभुः
॥८०॥वृकोपरि ततश्चक्रे शयनं यत्नमास्थितः ॥
तेनाक्रांतस्ततः सोऽपि शक्नोति चलितुं न हि
॥८१॥मृतप्रायस्ततो नित्यं तद्भारेण प्रपीडितः ॥
कार्तिकस्य सिते पक्ष एकादश्या दिने स्थिते
॥८२॥उत्थानं कुरुते विष्णुः क्षीरोदं प्रति गच्छति ॥
ा।
सोऽपि सांकृतिशापेन वृकः पंगुत्वमाप्नुयात्
॥८३॥एवं च चतुरो मासान्न त्यजेच्छयनं हरिः ॥
भयात्तस्यासुरेंद्रस्य दानवस्य दुरात्मनः
॥८४॥तत्र मर्त्यैः क्रिया सर्वाः क्रियते न मखोद्भवाः ॥
यस्मात्स यज्ञपुरुषो न सुप्तो भागमश्नुते
॥८५॥तथा यज्ञाश्च ये सर्वे क्त्वयादानादि काः शुभाः ॥
ते सर्वे न क्रियंते च चूडाकरणपूर्वकाः
॥८६॥मुक्त्वान्नप्राशनंनाम सीमंतोन्नयनं तथा ॥
तस्मात्सुप्ते जगन्नाथे ताः सर्वाः स्युर्वृथा द्विजाः
॥८७॥व्रतं वा नियमं वाथ तस्मिन्यः कुरुते नरः ॥
प्रसुप्ते देवदेवेशे तत्सर्वं निष्फलं भवेत्
॥८८॥तस्मात्सर्वप्रयत्नेन संप्रसुप्ते जनार्दने ॥
व्रतस्थैर्मानवैर्भाव्यं तस्य देवस्य तुष्टये
॥८९॥एकादश्यां दिने प्राप्ते शयने बोधने हरेः ॥
यत्किंचित्क्रियते कर्म श्रेष्ठं तच्चाक्षयं भवेत्
॥९०॥किंवात्र बहुनोक्तेन क्रियते यद्व्रतं नरैः ॥
तेन तुष्टिं परां याति दैत्योपरि स्थितो हरिः
॥९१॥एवं स भगवान्प्राह सुप्तस्तत्र जनार्दनः ॥
किं वा तस्य ज्वरो जातो महती वेदनापि च
॥९२॥तस्मिन्नहनि पापात्मा योन्नमश्नाति मानवः ॥
तस्मात्सर्वप्रयत्नेन संप्राप्ते हरिवासरे
॥९३॥अन्यस्मिन्नपि भोक्तव्यं न नरेण विजानता ॥
किं पुनः शयनं यत्र कुरुते यत्र बोधनम्
॥९४॥सूत उवाच
एतद्वः सर्वमाख्यातं यत्पृष्टोऽस्मि द्विजो त्तमाः ॥
हाटकेश्वरजे क्षेत्रे यस्माच्छेते जनार्दनः
॥९५॥क्षीराब्धिं संपरित्यज्य सदा मासचतुष्टयम् ॥
श्रूयतां च फलं यत्स्यात्तस्मिन्नाराधिते विभो
॥९६॥चतुरो वार्षिकान्मासान्यस्तं पूजयते विभुम् ॥
व्रतस्थः स नरो याति यत्र देवः स संस्थितः
॥९७॥किं दानैर्बहुभिर्दत्तैः किं व्रतैः किमुपोषितैः ॥
तत्र यः पुंडरीकाक्षं सुप्तं पूजयति ध्रुवम्
॥९८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये जलशाय्युपाख्यान एकादशीव्रतमाहात्म्यवर्णनंनामैकत्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २३१ ॥