केश्वरक्षेत्रमाहात्म्येऽतिथिमाहात्म्यवर्णनम्
ऋषय ऊचुः
भूय एव महाभाग वद माहात्म्यमुत्तमम् ॥
अतिथेः कृत्यमस्माकं विस्तरेण च सूतज
॥१॥सूत उवाच
शृण्वन्तु मुनयः सर्वे माहात्म्यमिदमुत्तमम् ॥
येन संश्रुतमात्रेण नश्येत्पापं दिनोद्भवम्
॥२॥यन्मया च श्रुतं पूर्वं सकाशात्स्वपितुः शुभम्
॥३॥गृहस्थानां परो धर्मो नान्योऽस्त्यतिथिपूजनात् ॥
अतिथेर्न च दोषोस्ति तस्यातिक्रमणेन च
॥४॥अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ॥
स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति
॥५॥सत्यं शौचं तपोऽधीतं दत्तमिष्टं शतं समाः ॥
तस्य सर्वमिदं नष्टमतिथिं यो न पूजयेत्
॥६॥दूरादतिथयो यस्य गृहमायांति निर्वृताः ॥
स गृहस्थ इति प्रोक्तः शेषाश्च गृहरक्षिणः
॥७॥न पुराकृतपुण्यानां नराणामिह भूतले ॥
त्रीनेतान्प्रतिहन्यंते श्राद्धं दानं शुभा गिरः
॥८॥तुष्टेऽतिथौ गृहस्थस्य तुष्टाः स्युः सर्वदेवताः ॥
विमुखे विमुखाः सर्वा भवंति च न संशयः ९ ॥
तस्मात्तोषयितव्यश्च गृहस्थेन सदाऽतिथिः ॥
अप्यात्मनः प्रदानेन यदीच्छेत्पुण्यमात्मनः
॥१०॥त्रिविधस्त्वतिथिः प्रोक्तो गृहस्थानां द्विजोत्तमाः ॥
तस्याहं वच्मि वः कालं शृणुध्वं सुसमाहिताः
॥११॥श्राद्धीयो वैश्वदेवीयः सूर्योढश्च तृतीयकः ॥
ये चान्ये भोजनार्थीयास्ते सामान्याः प्रकीर्तिता
॥१२॥सांकल्पे विहिते श्राद्धे पितॄणां भोजनोद्भवे ॥
समागच्छति यः काले तस्मिञ्छ्राद्धीय एव सः
॥१३॥दूराध्वानं पथि श्रांतं वैश्वदेवांत आगतम् ॥
अतिथिं तं विजानीयान्नातिथिः पूर्वमागतः
॥१४॥प्रियो वा यदि वा द्वेष्यो मूर्खः पंडित एव वा ॥
वैश्वदेवे तु संप्राप्तः सोऽतिथिः स्वर्गसंक्रमः
॥१५॥न पृच्छेद्गोत्रचरणं न स्थानं वेदमेव च ॥
दृष्ट्वा यज्ञोपवीतं च भोजयेत्तं प्रभक्तितः
॥१६॥श्राद्धे वा वैश्वदेवे वा यद्यागच्छति नातिथिः ॥
घृताहुतिं ततो दद्यात्तन्नाम्ना च हविर्भुजि
॥१७॥अशक्त्या भोज्यदानस्य देयं भक्त्या ततः परम् ॥
तस्यान्नमपि तु स्तोकं येन तुष्टिं प्रगच्छति
॥१८॥तथान्यश्च तृतीयस्तु सूर्योढोऽतिथिरुच्यते ॥
कृते तु भोजने यस्तु रात्रौ वा चाधिगच्छति ॥
तस्य शक्त्या प्रदातव्यं सस्यं च गृहमेधिना
॥१९॥सूर्योढो यस्य संप्राप्तो गृहात्पूजां विना व्रजेत् ॥
निराशः पातकं तस्य निजं दत्त्वा प्रयाति सः
॥२॥तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता ॥
एतान्यपि सतां गेहे नोच्छिद्यंते कदाचन
॥२१॥स्वागतेनाग्नयस्तृप्तिं गृहस्थस्य प्रयांति च ॥
आसनेन व्रजेत्तुष्टिं स्वयंभूः प्रपितामहः
॥२२॥अर्घेण शंभुः पाद्येन सर्वे देवाः सवासवाः ॥
भोज्यदानेन विष्णुः स्यात्सर्वदेवमयोऽतिथिः
॥२३॥तस्मात्पूज्यः सदा विप्रा भोजनीयो विशेषतः ॥
नामाप्युच्चार्य भोज्योऽन्यो ब्राह्मणो गृहमेधिना
॥२४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाट केश्वरक्षेत्रमाहात्म्येऽतिथिमाहात्म्यवर्णनंनाम षडशीत्युत्तरशततमोऽध्यायः ॥ १८६ ॥