एतान्भेदान्मम ब्रूहि विस्तरेण तपोधन
पैजवन उवाच
एतान्भेदान्मम ब्रूहि विस्तरेण तपोधन ॥
त्वद्वाक्यामृतपानेन तृषा नैव प्रशाम्यति
॥१॥गालव उवाच
शृणु विस्तरतो भेदान्पुराणोक्तान्वदामि ते ॥
याञ्छ्रुत्वा मुच्यतेऽवश्यं मनुजः सर्वकिल्बिषात्
॥२॥पूर्वं तु केशवः पूज्यो द्वितीयो मधुसूदनः ॥
संकर्षणस्तृतीयस्तु ततो दामोदरः स्मृतः
॥३॥पंचमो वासुदेवाख्यः षष्ठः प्रद्युम्नसंज्ञकः ॥
सप्तमो विष्णुरुक्तश्चाष्टमो माधव एव च
॥४॥नवमोऽनंतमूर्त्तिश्च दशमः पुरुषोत्तमः ॥
अधोक्षजस्ततः पश्चाद्द्वादशस्तु जनार्दनः
॥५॥त्रयोदशस्तु गोविंदश्चतुर्दशस्त्रिविक्रमः ॥
श्रीधरश्च पंचदशो हृषीकेशस्तु षोडशः
॥६॥नृसिंहस्तु सप्तदशो विश्वयोनिस्ततः परम् ॥
वामनश्च ततः प्रोक्त स्ततो नारायणः स्मृतः
॥७॥पुंडरीकाक्ष उक्तस्तु ह्युपेंद्रश्च ततः परम् ॥
हरिस्त्रयोविंशतिमः कृष्णश्चांत्य उदाहृतः
॥९॥शालिग्रामस्य भेदांश्च मयोक्तास्तव शूद्रज ॥
मूर्तिभेदास्तथा प्रोक्ता एत एव महाधन
॥९॥मूर्त्तयस्तिथिनान्म्यः स्युरेकादश्यः सदैव हि ॥
संवत्सरेण पूज्यंते चतुर्विंश तिमूर्तयः
॥१०॥देवावताराश्च तथा चतुर्विंशतिसंख्यकाः ॥
मासा मार्गशिराद्याश्च मासार्द्धाः पक्षसंज्ञकाः
॥११॥अधीशसहितान्नित्यं पूजयन्भक्तिमान्भवेत् ॥
चतुर्विंशतिसंज्ञं च चतुष्टयमुदाहृतम्
॥१२॥एतच्चतुष्टयं नृणां धर्मकामार्थमोक्षदम् ॥
यः शृणोति नरो भक्त्तया पठेद्वापि समाहितः
॥१३॥भूतसर्गस्य गोप्ताऽसौ हरिस्तस्य प्रसीदति
॥१४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्य शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये शालिग्रामशिलासुमूर्त्त्युत्पत्तिवर्णनंनाम चतुश्चत्वारिंशदुत्तरद्वि शततमोध्यायः ॥ २४४ ॥