मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १६७

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 167

मातृकामाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि तत्रस्थां भूतमातृकाम् ॥

सावित्र्या वारूणे भागे शतधन्वंतरे स्थिताम् ॥

नवकोटि गणैर्युक्तां प्रेतभूतसमाकुलाम् ॥

पूजितां सिद्धगंधर्वैर्देवादिभिरनेकशः

॥२॥

देव्युवाच

भूतमातेति संहृष्टा ग्रामेग्रामे पुरेपुरे ॥

गायन्नृत्यन्हसँल्लोकः सर्वतः परिधावति

॥३॥

उन्मत्तवत्प्रलपते क्षितौ पतति मत्तवत् ॥

क्रुद्धवद्धावति परान्मृतवत्कृष्यते हि सः

॥४॥

सुखभंगांश्च कुरुते लोको वातगृहीतवत् ॥

भूतवद्भस्ममूत्रांबुकर्दमानवगाहते

॥५॥

किमेष शास्त्रनिर्दिष्टो मार्गः किमुत लौकिकः ॥

मुह्यते मे मनो देव तेन त्वं वक्तुमर्हसि

॥६॥

कथं सा पुरुषैः पूज्या प्रभासक्षेत्रवासिभिः ॥

कस्मात्तत्र गता देवी कस्मिन्काले समागता ॥

कस्मिन्दिने तु मासे तु तस्याः कार्यो महोत्सवः

॥७॥

ईश्वर उवाच

शृणु देवि प्रवक्ष्यामि यत्ते किंचिन्मनोगतम् ॥

आस्तिकाः श्रद्दधानाश्च भवन्तीति मतिर्मम

॥८॥

चाक्षुषस्यान्तरेऽतीते प्राप्ते वैवस्वतेऽन्तरे ॥

दक्षापमानात्संजाता तदा पर्वतपुत्रिका

॥९॥

द्वापरे तु द्वितीये वै दत्ता त्वं पर्वतेन मे ॥

विवाहे चैव संजाते सर्वदेवमनोरमे

॥१०॥

त्वया च सहितः पूर्वं मन्दरे चारुकंदरे ॥

अक्रीडं च मुदा युक्तो दिव्यक्रीडनकैः प्रिये ॥

पीनोन्नतनितंबेन भ्राजमाना कुचोन्नताम्

॥११॥

सिताब्जवदनां हृष्टां दृष्ट्वाऽहं त्वां महाप्रभाम् ॥

दग्धकामतरोः कन्दकंदलीमिव निःसृताम् ॥

महार्हशयनस्थां त्वां तदा कामितवानहम्

॥१२॥

सुरते तव संजातं दिव्यं वर्षशतं यदा ॥

तदा देवि समुत्थाय निरोधान्निर्गता बहिः

॥१३॥

तवोदकात्समुत्तस्थौ नार्येका गह्वरोदरा ॥

कृष्णा करालवदना पिंगाक्षी मुक्तमूर्धजा

॥१४॥

कपालमालाभरणा बद्धमुण्डार्धपिंडका ॥

खट्वांगकंकालधरा रुण्डमुंडकरा शिवा

॥१५॥

द्वीपिचर्माम्बरधरा रणत्किंकिणिमेखला ॥

डमड्डमरुकारा च फेत्कारपूरिताम्बरा

॥१६॥

तस्याश्च पार्श्वगा अन्यास्तासां नामानि मे शृणु ॥

सख्यो ब्राह्मणराक्षस्यस्तासां चैव सुदर्शनाः

॥१७॥

दशकोटिप्रभेदेन धरां व्याप्य सुसंस्थिताः ॥

मुख्यास्तत्र चतस्रो वै महाबलपराक्रमाः

॥१८॥

रक्तवर्णा महाजिह्वाऽक्षया वै पापकारिणी ॥

एतासामन्वये जाताः पृथिव्यां ब्रह्मराक्षसाः

॥१९॥

श्लेष्मातकतरौ ह्येते प्रायशः सुकृतालयाः ॥

उत्तालतालचपला नृत्यंति च हसंति च

॥२०॥

विज्ञेया इह लोकेऽस्मिन्भूतानां मूलनायकाः ॥

अतिकृष्णा भवन्त्येते व्यंतरान्तरचारिणः

॥२१॥

वृक्षाग्रमात्रमाकाशं ते चरंति न संशयः

॥२२॥

तथैव मम वीर्यात्तु मद्रूपाभरणः पुमान् ॥

कपालखट्वांगधरो जातश्चर्मविगुण्ठितः

॥२३॥

अनुगम्यमानो बहुभिर्भूतैरपि भयंकरः ॥

सिंहशार्दूलवदनैर्वदनोल्लिखितांबरैः

॥२४॥

एवं देवि तदा जातः क्षुधाक्रान्तो बभाष माम् ॥

अतोऽहं क्षुधितं दृष्ट्वा वरं हीमं च दत्तवान्

॥२५॥

युवयोर्हस्तसंस्पर्शान्नक्तमेवास्तु सर्वशः ॥

नक्तं चैव बलीयांसौ दिवा नातिबलावुभौ ॥

पुत्रवद्रक्षतं लोकान्धर्मश्चैवानुपाल्यताम्

॥२६॥

इत्युक्तौ तौ मया तत्र भूतमातृगणौ प्रिये ॥

एकीभूतौ क्षणेनैव तौ भवानीभवोद्भवौ

॥२७॥

दृष्ट्वा हृष्टमनाश्चाहमवोचं त्वां शुचिस्मिते

॥२८॥

कल्याणि पश्यपश्यैतौ ममांशाच्च समुद्भवौ ॥

बीभत्साद्भुतशृंगारधारिणौ हास्यकारिणौ

॥२९॥

भ्रातृभांडा भूतमाता तथैवोदकसेविता ॥

संज्ञात्रयं स्मृतं देवि लोके विख्यातपौरुषम्

॥३०॥

पुनः कृतांजलिपुटौ दृष्ट्वा मामूचतुस्तदा ॥

आवयोर्भगवन्कुत्र स्थाने वासो भविष्यति

॥३१॥

इत्युक्तवन्तौ तौ तत्र वरेण च्छन्दितौ मया ॥

अस्ति सौराष्ट्रविषये भारते क्षेत्रमुत्तमम्

॥३२॥

प्रभासेति समाख्यातं तत्र क्षेमं मम प्रियम् ॥

कूर्मस्य नैर्ऋते भागे स्थितं वै दक्षिणे परे

॥३३॥

स्वाती विशाखा मैत्रं च यत्र ऋक्षत्रयं स्मृतम् ॥

तस्मिन्स्थाने सदा स्थेयं यावन्मन्वन्तरावधि

॥३४॥

अन्यदा जीविकं वच्मि तव भूतप्रिये सदा

॥३५॥

यत्र कण्टकिनो वृक्षा यत्र निष्पाववल्लरी ॥

भार्या पुनर्भूर्वल्मीकस्तास्ते वसतयश्चिरम्

॥३६॥

यस्मिन्गृहे नराः पञ्च स्त्रीत्रयं तावतीश्च गाः ॥

अन्धकारेंधनाग्निश्च तद्गृहे वसतिस्तव

॥३७॥

भूतैः प्रेतैः पिशाचैश्च यत्स्थानं समधिष्ठितम् ॥

एकावि चाष्टबालेयं त्रिगवं पञ्चमाहिषम् ॥

षडश्वं सप्तमातंगं तद्गृहे वसतिस्तव

॥३८॥

उद्दालकान्नपिटकं तद्वत्स्थाल्यादिभाजनम् ॥

यत्र तत्रैव क्षिप्तं च तव तच्च प्रतिश्रयम्

॥३९॥

मुशलोलूखले स्त्रीणामास्या तद्वदुदुंबरे ॥

भाषणं कटुकं चैव तत्र देवि स्थितिस्तव

॥४०॥

खाद्यन्ते यत्र धान्यानि पक्वापक्वानि वेश्मनि ॥

तद्वच्छाखाश्च तत्र त्वं भूतैः सह चरिष्यसि

॥४१॥

स्थालीपिधाने यत्राग्निं ददते विकला नराः ॥

गृहे तत्र दुरिष्टानामशेषाणां समाश्रयः

॥४२॥

मानुष्यास्थि गृहे यत्र अहोरात्रे व्यवस्थितम् ॥

तत्रायं भूतनिवहो यथेष्टं विचरिष्यति

॥४३॥

सर्वस्मादधिकं ये न प्रवदन्ति पिनाकिनम् ॥

साधारणं वदंत्येनं तत्र भूतैः समाविश

॥४४॥

कन्या च यत्र वै वल्ली रोहीनाम जटी गृहे ॥

अगस्त्य पादपो वापि बंधुजीवो गृहेषु वै

॥४५॥

करवीरो विशेषेण नंद्यावर्तस्तथैव च ॥

मल्लिका वा गृहे येषां भूतयोग्यं गृहं हि तत्

॥४६॥

तालं तमालं भल्लातं तिंतिणीखंडमेव वा ॥

बकुलं कदलीखंडं कदंबः खदिरोऽपि वा

॥४७॥

न्यग्रोधो हि गृहे येषामश्वत्थं चूत एव वा ॥

उदुंबरश्च पनसः सर्वभूत प्रियं हि तत्

॥४८॥

यत्र काकगृहं वै स्यादारामे वा गृहेऽपि वा ॥

भिक्षुबिंबं च वै यत्र गृहे दक्षिणके तथा

॥४९॥

बिंबमूर्ध्वं च यत्रस्थं तत्र भूतनिवेशनम्

॥५०॥

लिंगार्चनं न यत्रैव यत्र नास्ति जपादिकम् ॥

यत्र भक्तिविहीना वै भूतानां तान्गृहान्वदेत्

॥५१॥

मलिनास्यास्तु ये मर्त्या मलिनांबर धारिणः ॥

मलदंता गृहस्था ये गृहं तेषां समाविश

॥५२॥

अगम्यनिरता ये तु मैथुने व्यभिचारतः ॥

संध्यायां मैथुनं यांति गृहं तेषां समाविश

॥५३॥

बहुना किं प्रलापेन नित्यकर्मबहिष्कृताः ॥

रुद्रभक्तिविहीना ये गृहं तेषां समाविश

॥५४॥

अदत्त्वा भुंजते योऽन्नं बंधुभ्योऽन्नं तथोदकम् ॥

सपिण्डान्सोदकांश्चैव तत्कालात्तान्नरान्भज

॥५५॥

यत्र भार्या च भर्ता च परस्परविरोधिनौ ॥

सह भूतैर्गृहं तस्य विश त्वं भयवर्ज्जिता

॥५६॥

वासुदेवे रतिर्नास्ति यत्र नास्ति सदा हरिः ॥

जपहोमादिकं नास्ति भस्म नास्ति गृहे नृणाम्

॥५७॥

पर्वस्वप्यर्चनं नास्ति चतुर्दश्यां विशेषतः

॥५८॥

कृष्णाष्टम्यां च ये मर्त्याः संध्यायां भस्मवर्जिताः ॥

पंचदश्यां महादेवं न यजंति च यत्र वै

॥५९॥

पौरजानपदैर्यत्र प्राक्प्रसिद्धा महोत्सवाः ॥

क्रियते पूर्ववन्नैव तद्गृहं वसतिस्तव

॥६०॥

वेदघोषो न यत्रास्ति गुरुपूजादिकं न च ॥

पितृकर्मविहीनं च तद्भूतस्य गृहं स्मृतम्

॥६१॥

रात्रौरात्रौ गृहे यस्मिन्कलहो जायते मिथः ॥

बालानां प्रेक्षमाणानां यत्र वृद्धश्च पूर्वतः ॥

भक्षयेत्तत्र वै हृष्टा भूतैः सह समाविश

॥६२॥

कस्मिन्मासे दिने चापि भवित्री लोकपूजिता ॥

इत्युक्तोऽहं तया देवि तामवोचं पुनः प्रिये

॥६३॥

अमा या माधवे मासि तस्मिन्या च चतुर्दशी ॥

तस्यां महोत्सवस्तत्र भविता ते चिरंतनः

॥६४॥

याः स्त्रियस्तां च यक्ष्यंति तस्मिन्काले महोत्सवे ॥

बलिभिः पुष्पधूपैश्च मा तासां त्वं गृहे विश

॥६५॥

नारायण हृषीकेश पुण्डरीकाक्ष माधव ॥

अच्युतानंत गोविंद वासुदेव जनार्दन

॥६६॥

नृसिंह वामनाचिंत्य केशवेति च ये जनाः ॥

रुद्र रुद्रेति रुद्रेति शिवाय च नमोनमः

॥६७॥

वक्ष्यंति सततं हृष्टास्तेषां धनगृहादिषु ॥

आरामे चैव गोष्ठे च मा विशेथाः कथंचन

॥६८॥

देशाचाराञ्ज्ञा तिधर्माञ्जपं होमं च मंगलम् ॥

दैवतेज्यां विधानेन शौचं कुर्वंति ये जनाः ॥

लोकापवादभीता ये पुमांसस्तेषु मा विश

॥६९॥

देव्युवाच

कदा पूजा प्रकर्तव्या भूतमातुः सुखार्थिभिः ॥

पुरुषैर्देवदेवेश एतन्मे वक्तुमर्हसि

॥७०॥

ईश्वर उवाच

सर्वत्रैषा भगवती बालानां हितकारिणी ॥

नामभेदैः कालभेदैः क्रियाभेदैश्च पूज्यते

॥७१॥

प्रतिपत्प्रभृति वैशाखे यावच्चतुर्दशीतिथिः ॥

तावत्पूजा प्रकर्तव्या प्रेरणीप्रेक्षणीयकैः

॥७२॥

भग्नामपि गतां चैनां जरत्तरुतले स्थिताम् ॥

सेचयिष्यंति ये भक्त्या जलसंपूर्णगंडुकैः

॥७३॥

ग्रीवासूत्रकसिन्दूरैः पुष्पैर्धूपैस्तथार्चयेत् ॥

तत्र सिद्धवटः पूज्यः शाखां चास्य विनिक्षिपेत्

॥७४॥

पूजितां तां नरैर्यत्नादवलोक्य शुभेप्सुभिः ॥

भोजयेत्क्षिप्रासंयावकृशरापूपपायसैः

॥७५॥

एवं विधिं यः कुरुते पुरुषो भक्तिभावतः ॥

स पुत्रपशुवृद्धिं च शरीरारोग्यमाप्नुयात्

॥७६॥

न शाकिन्यो गृहे तस्य न पिशाचा न राक्षसाः ॥

पीडां कुर्वन्ति शिशवो यान्ति वृद्धिमनामयाम्

॥७७॥

अथ देवि प्रवक्ष्यामि प्रतिपत्प्रभृति क्रमात् ॥

यथोत्सवो नरैः कार्यः प्रेरणीप्रेक्षणीयकैः

॥७८॥

विकर्मफलनिर्द्देशैः पाखंडानां विटंबनैः ॥

प्रदर्श्यते हास्यपरैर्नरैरद्भुतचेष्टितैः

॥७९॥

पञ्चम्यां तु विशेषेण रात्रौ कोलाहलः शुभे ॥

जागरं तत्र कुर्वीत देवीं पूज्य प्रयत्नतः

॥८०॥

विश्वस्य धनलोभेन स्वाध्यायो निहतः पतिः ॥

आरोप्यमाणं शूलाग्रमेनं पश्यत भो जनाः

॥८१॥

दृष्टो भवद्भिर्दुष्टः स परदारावमर्शकः ॥

छित्त्वा हस्तौ च खड्गेन खरारूढस्तु गच्छति

॥८२॥

शीर्णश्चैवासिपत्रेण अस्याभरणभूषितः ॥

सुखासन समारूढः सुकृती यात्यसौ सुखम्

॥८३॥

हे जनाः किं न पश्यध्वं स्वामिद्रोहकरं परम् ॥

करपत्रैर्विदार्यंतमुच्छलच्छोणितान्तरम्

॥८४॥

चौरः किलायं संप्राप्तः सर्वोद्वेगकरः परः ॥

दंडप्रहाराभिहतो नीयते दंडपाशकैः

॥८५॥

प्रेक्षकैश्चेष्टितः शश्वदारटन्विविधैः स्वरैः ॥

संयम्य नीयते हन्तुं लज्जितोऽधोमुखो जनाः

॥८६॥

सितकेशं सितश्मश्रुं सितांबरधरध्वजम् ॥

विटंकाद्यैश्च चेटीभिर्हन्यमानं न पश्यथि

॥८७॥

गृहान्निष्क्राम्य मां रंडां गृहं नीत्वाऽकरोद्रतिम् ॥

कस्मादसौ न कुरुते मूढो भरणपोषणम्

॥८८॥

भैरवाभरणो नेता सदा घूर्णितलोचनः ॥

प्रवृत्ततंद्रवन्मूढो वध्यश्चासावितस्ततः

॥८९॥

निर्वेदेकोऽस्य हृदये धनक्षेत्रादिसंभवः ॥

गृहीतं यदनेनाद्य बालेनापि महाव्रतम् ॥

रक्ताक्षं काककृष्णांगं सत्वरं किं न पश्यथि

॥९०॥

तरुकोटरगान्बद्ध्वा अन्याञ्छृंखलया तथा ॥

शरौघैः काष्ठकैश्चैव बहुभिः शकलीकृतान्

॥९१॥

विमुक्तहक्काहुंकारा न्सुप्रहारान्निरीक्षत

॥९२॥

इमां कृष्णार्धवदनां ग्रहीष्यसि दुरात्मिकाम् ॥

विमुक्तकेशां नृत्यन्तीं पश्यध्वं योगिनीमिव

॥९३॥

गम्भीर नूपुरध्वानप्रवृद्धोद्धततांडवा ॥

उन्मत्तनेत्रचरणा यात्येषा डिम्भमण्डली

॥९४॥

कटीतटस्थपिटिकोल्लसत्कंबलधारिणी ॥

अटते नटती ह्युर्वी परितश्च गृहाद्गृहम्

॥९५॥

इत्येवमादिभिर्नित्यं प्रेरणीप्रेक्षणीयकैः ॥

प्रेरयेत्तान्महानित्थं पुत्रभ्रातृसुहृद्वृतः

॥९६॥

एकादश्यां नवम्यां वा दीपं प्रज्वाल्य कुण्डकम् ॥

मुखबिंबानि तत्रैव लेपदारुकृतानि वै

॥९७॥

विचित्राणि महार्हाणि रौद्रशान्तानि कारयेत् ॥

मातृणां चण्डिकादीनां राक्षसानां तथैव च

॥९८॥

भूतप्रेतपिशाचानां शाकिनीनां तथैव च ॥

मुखानि कारयेत्तत्र हावभावकृतानि च

॥९९॥

रक्षिभिर्बहुभिर्गुप्तं तिर्य ग्ध्वनिपुरःसरम् ॥

अमावास्यां महादेवि क्षिपेत्पूजाक्रमैर्नरः

॥१००॥

ततः प्रदोषसमये यत्र देवी जनैर्वृता ॥

तत्र गच्छेन्महारावैः फेत्कारा कुलकीर्तनैः

॥१०१॥

वीरचर्याविधानेन नगरे भ्रामयेन्निशि ॥

वीरचर्या स कथितो दीपः सर्वार्थसाधकः

॥१०२॥

नित्यं निष्क्रामयेद्दीपं याव त्पञ्चदशी तिथिः ॥

पञ्चदश्यां प्रकुर्वीत भूतमातुर्महोत्सवम् ॥

तस्य गृहेश्वरं यावद्गृहे विघ्नं न जायते

॥१०३॥

अथ कालान्तरेऽतीते भूतमातुः शरीरतः ॥

जाताः प्रस्वेदबिन्दुभ्यः पिशाचाः पञ्चकोटयः

॥१०४॥

सर्वे ते क्रूरवदना जिह्वाज्वालाकृशोदराः ॥

पाणिपात्राः पिशाचास्ते निसृष्टबलिभोजनाः

॥१०५॥

धमनीसंतताः शुष्काः श्मश्रुलाश्चर्मवाससः ॥

उलूखलैराभरणैः शूर्पच्छत्रासनांबराः

॥१०६॥

नक्तं ज्वलितकेशाढ्या अंगारानुद्गिरंति वै ॥

अंगारकाः पिशाचास्ते मातृमार्गानुसारिणः

॥१०७॥

आकर्णदारितास्याश्च लंबभ्रूस्थूलनासिकाः ॥

बलाढ्यास्ते पिशाचा वै सूतिकागृहवासिनः

॥१०८॥

पृष्ठतः पाणिपादाश्च पृष्ठगा वातरंहसा ॥

विषादनाः पिशाचास्ते संग्रामे पिशिताशनाः

॥१०९॥

एवंविधान्पिशाचांस्तु दृष्ट्वा दीनानुकम्पया ॥

तेभ्योऽहमवदं किञ्चित्कारुण्यादल्पचेतसाम्

॥११०॥

अन्तर्धानं प्रजादेहे कामरूपित्वमेव च ॥

उभयोः संध्ययोश्चारं स्थानान्याजीवितं तथा

॥१११॥

गृहाणि यानि नग्नानि शून्यान्यायतनानि च ॥

विध्वस्तानि च यानि स्यू रचनारोषितानि च

॥११२॥

राजमार्गोपरथ्याश्च चत्वराणि त्रिकाणि च ॥

द्वाराण्यट्टालकांश्चैव निर्गमान्संक्रमांस्तथा

॥११३॥

पथो नदीश्च तीर्थानि चैत्यवृक्षान्महापथान् ॥

स्थानानि तु पिशाचानां निवासायाददां प्रिये

॥११४॥

अधार्मिका जनास्तेषामा जीवो विहितः पुरा ॥

वर्णाश्रमाचारहीनाः कारुशिल्पिजनास्तथा

॥११५॥

अनुतापाश्च साधूनां चौरा विश्वासघातिनः ॥

एतैरन्यैश्च बहुभिरन्यायोपार्जितैर्धनैः

॥११६॥

आरभ्यते क्रिया यास्तु पिशाचास्तत्र देवताः ॥

मधुमासदिने दध्ना तिलचूर्णसुरासवैः

॥११७॥

पूपैर्हारिद्रकृशरैस्तिलैरिक्षुगुडौदनैः ॥

कृष्णानि चैव वासांसि धूम्राः सुमनसस्तथा

॥११८॥

सर्वभूतपिशाचानां कृता देवी मया शुभा ॥

एवंविधा भूतमाता सर्वभूतगणैर्वृता

॥११९॥

प्रभासे संस्थिता देवी समुद्रादुत्तरेण तु ॥

य एतां वेद वै देव्या उत्पत्तिं पापनाशिनीम्

॥१२०॥

कुत्सिता संतति स्तस्य न भवेच्च कदाचन ॥

भूतप्रेतपिशाचानां न दोषैः परिभूयते

॥१२१॥

सर्वपापविनिर्मुक्तः सर्वसौभाग्यसंयुतः ॥

सर्वान्कामानवाप्नोति नारीहृदयनंदनः

॥१२२॥

ये मानयंति निजहासकलैर्विलासैः संसेवया अभयदा भवभूतमाताम् ॥

ते भ्रातृभृत्यसुतबंधुजनैर्युताश्च सर्वोपसर्ग रहिताः सुखिनो भवन्ति

॥१२३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये भूत मातृकामाहात्म्यवर्णनंनाम सप्तषष्ट्युत्तरशततमोऽध्यायः ॥ १६७ ॥