रुक्मवतीश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
तत्रैव संस्थितं लिंगं रुक्मवत्या प्रतिष्ठितम् ॥
सर्वपापोपशमनं सर्वकामफलप्रदम्
॥१॥तत्र स्नात्वा महातीर्थे लिंगं संप्लाव्य यत्नतः ॥
विप्रेभ्यो दापयेद्वित्तं मुच्यते सर्वपातकैः
॥२॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये रुक्मवतीश्वरमाहात्म्यवर्णनंनाम द्वाविंशत्युत्तरद्विशततमोऽध्यायः ॥ २२२ ॥