मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३६०

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 360

मार्कंडेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि हिरण्यातटसंस्थितम् ॥

घटिकास्थानमिति च यत्र सिद्धः पुरा ऋषिः

॥१॥

नाड्यैकया मृकण्डस्तु ध्यानयोगाद्वरानने ॥

तत्रैव स्थापितं लिंगं मार्कंडेश्वरनामतः ॥

सर्वपापोपशमनं दर्शनात्पूजनादपि

॥२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मार्कंडेश्वरमाहात्म्यवर्णनंनाम षष्ट्युत्तर त्रिशततमोऽध्यायः ॥ ३६० ॥