मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३०२

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 302

गंधर्वेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि गंधर्वेश्वरमुत्तमम् ॥

तस्यैवोत्तरदिग्भागे धनुषां पंचके स्थितम्

॥१॥

तं दृष्ट्वा च महादेवि रूपवाञ्जायते नरः ॥

गंधर्वैः स्थापितं लिंगं स्नात्वा संपूजयेत्सकृत् ॥

सर्वान्कामानवाप्नोति रक्तकण्ठश्च जायते

॥२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये गंधर्वेश्वरमाहात्म्यवर्णनंनाम द्व्युत्तरत्रिशततमोऽध्यायः ॥ ३०२ ॥