प्रभासक्षेत्रमाहात्म्येऽर्कस्थलमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि पुण्यमर्कस्थलं शुभम् ॥
तस्मादाग्नेयकोणस्थं सर्वपातकनाशनम्
॥१॥तं दृष्ट्वा मानुषो देवि न शोच्यः संप्रजायते ॥
सप्त जन्मानि देवेशि दारिद्र्यं नैव जायते
॥२॥कुष्ठानि नाशमायांति तं दृष्ट्वा दशधा प्रिये ॥
गोशतस्य प्रदत्तस्य कुरुक्षेत्रेषु यत्फलम्
॥३॥तत्फलं समवाप्नोति दृष्ट्वा वार्कस्थलं रविम् ॥
स्नात्वा त्रिसंगमे तीर्थे सप्तैव रविवासरान्
॥४॥ब्राह्मणान्भोजयित्वा तु महिषीं तत्र दापयेत् ॥
दिव्यं वर्षसहस्रं तु स्वर्गलोके महीयते
॥५॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येऽर्कस्थलमाहात्म्यवर्णनंनाम पञ्चसप्तत्युत्तरशततमोऽध्यायः ॥ १७५ ॥