प्रभासस्थां महादेवीं देवानां प्रीतिदायिनीम्
ईश्वर उवाच
अथ द्वितीयां ते वच्मि शक्तिं देवि क्रियात्मिकाम् ॥
प्रभासस्थां महादेवीं देवानां प्रीतिदायिनीम्
॥१॥सोमेशाद्वायवे भागे षष्टिधन्वतरे स्थिता ॥
तत्र पीठं महादेवि योगिनीगणवन्दितम्
॥२॥तस्मिन्स्थाने स्थितं देवि पातालविवरं महत् ॥
तस्मिन्महाप्रभे स्थाने रक्षारूपेण संस्थिताम्
॥३॥पातालनिधि निक्षेपदिव्यौषधिरसायनम् ॥
क्षेत्रमध्ये स्थितं सर्वं तदर्चनरतो लभेत्
॥४॥भैरवीति च तद्देव्याः पूर्वं नाम प्रकीर्त्तितम् ॥
अस्मिन्पुनश्चांतरे तु अष्टाविंशे चतुर्युगे ॥
त्रेतायुगमुखे राजा अजापालो बभूव ह
॥५॥तेन चागत्य क्षेत्रेस्मिन्पंचवर्षशतानि च ॥
भैरवी पूजिता देवी व्याधिग्रस्तेन भामिनि
॥६॥ततः प्रोवाच तं देवी संतुष्टा राजसत्तमम् ॥
अलं क्लेशेन राजर्षे तुष्टाहं तव भक्तितः
॥७॥इत्युक्तः स तदा राजा कृताञ्जलिपुटः सुधीः ॥
प्रणम्योवाच तां देवीमानंदास्राविलेक्षणः
॥८॥यदि तुष्टासि मे देवि वरार्हो यदि वाप्यहम् ॥
सर्वे रोगाः शरीरान्मे नाशं यांतु बहिः कृताः
॥९॥एवमुक्ता तु सा देवी पुनः प्रोवाच तं नृपम् ॥
सर्वमेव महाराज यथोक्तं ते भविष्यति
॥१०॥इत्युक्ते तु तदा देव्या तस्य राज्ञः कलेवरात् ॥
निर्गता व्याधयस्तत्र अजारूपेण वै पृथक्
॥११॥सहस्राणां तु पञ्चैव नियतं सार्द्धमेव च ॥
इति वृत्ते महादेव्या पुनः प्रोक्तो नराधिपः
॥१२॥राजन्नेतानजारूपान्व्याधीन्पालय कृत्स्नशः ॥
किंकुर्वाणा भविष्यंति तवैवादेशकारिणः
॥१३॥अजापालेति ते नाम ख्यातं लोके भविष्यति ॥
तव नाम्ना मम नाम अजापालेश्वरीति च ॥
भविष्यति धरापृष्ठे तच्च यावच्चतुर्युगम्
॥१४॥अष्टम्यां च चतुर्द्दश्यां योऽत्र मां पूजयिष्यति ॥
तस्याष्टगुणमैश्वर्यं दास्ये तुष्टा न संशयः
॥१५॥अश्वयुक्छुक्लाष्टम्यां च त्रिः कृत्वा तु प्रदक्षिणाम् ॥
सोमेशं मध्यतः कृत्वा संस्नाप्याभ्यर्च्य मां पृथक् ॥
तस्य वर्षत्रयं राजन्न भीः शोको भविष्यति
॥१६॥या तु वंध्या भवेन्नारी रोगिणी दुर्भगा तथा ॥
तयोक्ता नवमी कार्या ममाग्रे तुष्टिवर्द्धिनी
॥१७॥ईश्वर उवाच
इत्युक्त्वा तु तदा देवी तत्रैवांतर्हिताऽभवत् ॥
प्रभासक्षेत्रमध्यस्थः स राजातुलविक्रमः
॥१८॥पालयामास धर्मात्मा तानजान्व्याधिरूपिणः ॥
औषधीर्विविधाकारास्तेषां याः पुष्टिहेतवः
॥१९॥तत्र वर्षशतं साग्रं पुष्टिं नीता अजाः पृथक् ॥
महानिधानसंस्थानमजापालेन निर्मिंतम्
॥२०॥अथ तस्याः प्रसादेन स राजा पृथुविक्रमः ॥
सप्तद्वीपाधिपो जातः सूर्यवंशविभूषणः
॥२१॥देव्युवाच
अत्याश्चर्यमिदं देव अजा देव्याः समुद्भवम् ॥
पुनश्च श्रोतुमिच्छामि तस्य राज्ञोद्भुतं महत्
॥२२॥कथं राजा स देवेश सप्तद्वीपां वसुन्धराम् ॥
शशास एक एवासौ कथं ते व्याधयः कृताः
॥२३॥ईश्वर उवाच
पुरा बभूव राजर्षिर्दिलीप इति विश्रुतः ॥
दीर्घो नाम सुतस्तस्य रघुस्तस्मादजायत
॥२४॥अजःपुत्रो रघोश्चापि तस्माद्यश्चातिवीर्यवान् ॥
स भैरवीं समाराध्य कृत्वा व्याधीनजागणान्
॥२५॥पालयामास संहृष्टो ह्यजापालस्ततोऽभवत् ॥
तस्मिन्काले बभूवाथ रावणो राक्षसेश्वरः
॥२६॥लंकास्थितः सुरगणान्नियुयोज स्वकर्मसु ॥
अखंडमंडलं चन्द्रमातपत्रं चकार ह
॥२७॥इन्द्रं सेनापतिं चक्रे वायुं पांसुप्रमार्जकम् ॥
वरुणं दूतकर्मस्थं धनदं धनरक्षकम्
॥२८॥यमं संयमनेऽरीणां युयुजे मन्त्रणे मनुम् ॥
मेघाश्छर्दंति लिंपंति द्रुमाः पुष्पाणि चिक्षिपुः
॥२९॥सप्तर्षयः शांतिपरा ब्राह्मणाः शंसिनः प्रियः ॥
नागा यामककक्षायां गन्धर्वा गीततत्पराः
॥३॥प्रेक्षणीयेऽप्सरोवृंदं वाद्ये विद्याधरा वृताः ॥
गंगाद्याः सरितः पाने गार्हपत्ये हुताशनः
॥३१॥विश्वकर्मांगसंस्कारे तेन शिल्पी नियोजितः ॥
तिष्ठंति पार्थिवाः सर्वे पुरः सेवाविधायिनः
॥३२॥दृश्यंते भास्वरै रत्नैः प्रस्खलंतो विभूषणैः ॥
तान्दृष्ट्वा रावणः प्राह प्रहस्तं प्रतिहारकम्
॥३३॥सेवां कर्त्तुं मम स्थाने ब्रूहि केऽत्र समागताः ॥
उवाच स प्रणम्याग्रे दण्डपाणिर्निशाचरः
॥३४॥एष काकुत्स्थो मांधाता धुन्धुमारो नलोऽर्जुनः ॥
ययातिर्नहुषो भीमो राघवोऽयं विदूरथः
॥३५॥एते चान्ये च बहवो राजान इह चागताः ॥
सेवाकरास्तव स्थाने नाजापाल इहो गतः
॥३६॥रावणः कुपितः प्राह शीघ्रं दूत विसर्जय ॥
इत्युक्त्वा प्रहितो दूतो धूम्राक्षो नाम राक्षसः
॥३७॥धूम्राक्ष गच्छ ब्रूहि त्वमजापालं ममा ज्ञया ॥
सेवां कर्त्तुं ममागच्छ करं वा यच्छ पार्थिव
॥३८॥अथवा चन्द्रहासेन त्वां करिष्ये विकंधरम् ॥
रावणेनैवमुक्तस्तु धूम्राक्षो गरुडो यथा
॥३९॥संप्राप्तस्तां पुरीं रम्यां तव राजकुलं गतः ॥
ददर्शायांतमेकं स अजापालमजावृतम्
॥४०॥मुक्तकेशं मुक्तकच्छं स्वर्णकंबलधारिणम् ॥
यष्टिस्कंधं रेणुवृतं व्याधिभिः परिवारितम्
॥४१॥निघ्नंतमिव शार्दूलं सर्वोपद्रवनाशनम् ॥
मह्यामालिख्य नामानि विनिघ्नंतं द्विषां गणम्
॥४२॥स्नातं भुक्तं निजस्थाने कृतकृत्यं मनुं यथा ॥
दृष्ट्वा हृष्टमनाः प्राह धूम्राक्षो रावणोदितम्
॥४३॥अजापालोऽपि साक्षेपं प्रत्यु क्त्वा कारणोत्तरम् ॥
प्रेषयामास धूम्राक्षं ततः कृत्यं समादधे
॥४४॥ज्वरमाकारयित्वा तु प्रोवाचेदं महीपतिः ॥
गच्छ लंकाधिपस्थानमाचर त्वं यथोदितम्
॥४५॥नियुक्तस्त्वजपालेन ज्वरो दिवि जगाम ह ॥
गत्वा च कंपयामास रावणं राक्षसेश्वरम्
॥४६॥रावणस्तं विदित्वा तु ज्वरं परमदारुणम् ॥
प्रोवाच तिष्ठतु नृपस्तेन मे न प्रयोजनम्
॥४७॥ततः स विज्वरो राजा बभूव धनदानुजः ॥
एवं तस्य चरित्राणि संति चान्यानि कोटिशः
॥४८॥अजापालस्य देवेशि सूर्यवत्त्विट्किरीटिनः ॥
तेनैषाऽऽराधिता देवी अजापालेन धीमता ॥
सर्वरोगप्रशमनी सर्वो पद्रवनाशिनी
॥४९॥पूजयेत्तां विधानेन भोगेप्सुर्यदि मानवः ॥
गंधैर्धूपैरलंकारैर्वस्त्रैरन्यैश्च भक्तितः
॥५०॥इति ते कथितं सर्वमजादेव्याः समुद्भवम् ॥
सर्वदुःखोपशमनं सर्वपातकनाशनम्
॥५१॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहिताया सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येऽजापालेश्वरीमाहात्म्यवर्णनंनामाष्टपञ्चाशोऽध्यायः ॥ ५८ ॥