ततो गच्छेन्महादेवि लकुलीशं महाप्रभम्
ईश्वर उवाच
ततो गच्छेन्महादेवि लकुलीशं महाप्रभम् ॥
तस्य पश्चिमदिग्भागे धनुषां सप्तके स्थितम्
॥१॥पापघ्नं सर्वजंतूनां शांतं मूर्तिस्थितं प्रभुम् ॥
समायातं महाक्षेत्रे तत्र कायावरोहणात्
॥२॥कृत्वा तत्र तपश्चोग्रं दीक्षयित्वात्मशिष्य कान् ॥
कुशकादींश्च चतुर उक्त्वा शास्त्राण्यनेकशः
॥३॥न्यायवैशेषिकादीनि ततः सिद्धिं परां गतः ॥
एवं ज्ञात्वा तु यः सम्यक्तं समर्चयते नरः
॥४॥कार्त्तिक्यां तु विशेषेण अयने चोत्तरेपि वा ॥
विद्यादानं च तत्रैव दद्याद्विप्राय शालिने
॥५॥सप्तजन्मानि विप्रस्य धनाढ्यस्य कुले शुभे ॥
जायते मतिमान्धीमाञ्छ्रीमानेवं पुनःपुनः
॥६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभास क्षेत्रमाहात्म्ये लकुलीश्वरमाहात्म्य वर्णनंनामैकोनाशीतितमोऽध्यायः ॥ ७९ ॥