ततो गच्छेन्महादेवीं क्षेत्रदूतीं तु वैष्णवीम्
ईश्वर उवाच
ततो गच्छेन्महादेवीं क्षेत्रदूतीं तु वैष्णवीम् ॥
श्रीदैत्यसूदनाद्देवि पूर्वभागे व्यवस्थिताम्
॥१॥योगेश्वर्यास्तथैशान्यां धनुषां सप्तके स्थिताम् ॥
महादौर्भाग्यदग्धानां स्थितां भेषजरूपिणीम्
॥२॥चाक्षुषस्यांतरे देवि यदा दैत्या बलोत्कटाः ॥
हन्यमाना विष्णुनाऽथ दक्षिणां दिशमाविशन्
॥३॥तत्र वर्षशतं साग्रं दैत्याश्चक्रुर्महाहवम् ॥
विष्णुना सह देवेशि दिव्यास्त्रैश्च पृथग्विधैः
॥४॥दुःखवध्यांस्ततो ज्ञात्वा विष्णुः कमललोचनः ॥
सस्मार भैरवीं शक्तिं महामायां महाप्रभाम्
॥५॥सा स्मृता क्षणमात्रेण विष्णुना प्रभविष्णुना ॥
तत्रागता महादेवी आनंदस्फुरितेक्षणा
॥६॥विशाले तु कृते देव्या लोचने विष्णुदर्शनात् ॥
विशालाक्षी ततो जाता तत्रस्था दैत्यनाशिनी
॥७॥अस्मिन्कल्पेसमाख्याता ललितोमा वरानने ॥
उमाद्वयं समाख्यातं सोमेशे दैत्यसूदने
॥८॥पूर्वं सोमेश्वरे पश्येत्पश्चाच्छ्रीदैत्यसूदने ॥
उमा द्वयं पूजयित्वा तीर्थयात्राफलं लभेत्
॥९॥माघे मासि तृतीयायां विधिना योऽर्चयेत्तु ताम् ॥
न संततिविहीनः स्यात्तस्यकोट्यन्वये नरः
॥१०॥यो नित्यमीक्षते तत्र भक्त्या परमया युतः ॥
आरोग्यसुखसौभाग्यसंयुक्तोऽसौ भवेच्चिरम्
॥११॥इति संक्षेपतः प्रोक्तं माहात्म्यं ललितोद्भवम् ॥
श्रुतं यत्पापनाशाय जायते धर्मवृद्धये
॥१२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभास क्षेत्रमाहात्म्ये ललितोमाविशालाक्षी माहात्म्यवर्णनंनामैकषष्टितमोऽध्यायः ॥ ६१ ॥