कपिलेश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि कपिलेश्वरमुत्तमम् ॥
तस्यैव पूर्वदिग्भागे नातिदूरे व्यव स्थितम्
॥१॥लिंगं महाप्रभावं तु दर्शनात्पापनाशनम् ॥
कपिलोनाम राजर्षिर्यत्र तप्त्वा महातपः
॥२॥संप्राप्तः परमां सिद्धिं प्रतिष्ठाप्य महेश्वरम् ॥
देवसांनिध्यमीशानं तस्मिँल्लिंगे सदा हरिः
॥३॥शुक्लपक्षे चतुर्दश्यां सर्वलोकहितार्थतः ॥
सप्तकृत्वो महादेवं सोमेशं कपिलेश्वरम् ॥
यः पश्येत्प्रयतो भूत्वा स गोदानफलं लभेत्
॥४॥तिलधेनुं च यो दद्यात्तस्मिंस्तीर्थे समाहितः ॥
तिलसंख्यायुगान्येव स स्वर्गे वसति प्रिये
॥५॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कपिलेश्वरमाहात्म्यवर्णनं नाम त्रिपञ्चाशोऽध्यायः ॥ ५३ ॥