मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १५८

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 158

ततो गच्छेन्महादेवि अनंगेश्वरमुत्तमम्

ईश्वर उवाच

ततो गच्छेन्महादेवि अनंगेश्वरमुत्तमम् ॥

रत्नेश्वरादग्रतःस्थं धनुषान्तरमास्थितम्

॥१॥

स्थापितं कामदेवेन तल्लिंगं विष्णुसूनुना ॥

ज्ञात्वा तद्वैष्णवं स्थानं कलौ पातकनाशनम्

॥२॥

तं दृष्ट्वा पूजयित्वा तु कामदेवसमो भवेत् ॥

स्वर्गविद्याधरीणां च जायते चित्तमोहकः

॥३॥

तस्यान्वयेऽपि न भवेत्कुरूपो दुर्भगोऽपि वा

॥४॥

तत्रानंगत्रयोदश्यां व्रतेन वरवर्णिनि ॥

विशेषाराधनं तत्र जन्मसाफल्यकारणम्

॥५॥

शय्यादानं तु दातव्यं तत्र विप्राय शीलिने ॥

विशेषाद्विष्णुभक्ताय सम्यग्यात्राफलं लभेत्

॥६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये रत्नेश्वरमाहात्म्येऽनंगेश्वरमाहात्म्यवर्णनंनामाष्टपंचाशदुत्तरशततमोऽध्यायः ॥ १५८ ॥