मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १०२

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 102

ततो गच्छेन्महादेवि देवीं कंटकशोधिनीम्

ततो गच्छेन्महादेवि देवीं कंटकशोधिनीम् ॥

तस्यैवोत्तरदिग्भागे धनुर्द्वितयसंस्थिताम्

॥१॥

महिषघ्नीं महाकायां ब्रह्मदेवर्षिपूजिताम् ॥

पुरा ये कल्मषोपेता दानवा देवकंटकाः

॥२॥

युगेयुगे शोधयेत्तांस्तेन कंटकशोधिनी ॥

आश्वयुक्छुक्लपक्षे तु नवम्यां तामथार्चयेत्

॥३॥

पशुपुष्पोपहारैश्च दीपधूपैस्तथोत्तमैः ॥

तस्याऽरयो न जायंते यावद्वर्षं वरानने

॥४॥

यस्तां पश्यति सद्भक्त्या भूताया नित्यमेव वा ॥

तं पुत्रमिव कल्याणी संरक्षति न संशयः

॥५॥

इति संक्षेपतः प्रोक्तं माहात्म्यं पापनाशनम् ॥

देवि कंटकशोधिन्याः श्रुतं रक्षाकरं परम्

॥६॥

इति श्रीस्कांदे महा पुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सांबादित्यसमीपवर्तिकंटकशोधिनीमाहात्म्यवर्णनंनाम द्व्युत्तरशततमोध्यायः ॥ १०२ ॥