मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १५२

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 152

नारदेश्वरभैरवमाहात्म्यवर्णनम्

ईश्वर उवाच

तृतीयो भैरवः प्रोक्तश्चतुर्थं भैरवं शृणु ॥

ब्रह्मेशात्पश्चिमे भागे धनुषां त्रितये स्थितम्

॥१॥

सर्वपापप्रशमनं सर्व कामप्रदं नृणाम् ॥

नारदेश्वरनामानं स्थापितं नारदेन वै

॥२॥

ब्रह्मलोके स्थितः पूर्वं नारदो भगवानृषिः ॥

तत्र दृष्ट्वा महावीणां दिव्यां तंत्र्ययुतै र्युताम्

॥३॥

सरस्वत्या विनिर्मुक्तां ब्रह्मलोके महाप्रभाम् ॥

तेनासौ कौतुकाविष्टो वादयामास तां तदा

॥४॥

तंत्रीभ्यो वाद्यमानाभ्यो ब्राह्मणाः पतिता भुवि ॥

सप्त स्वरास्ते विख्याता मूर्च्छिताः षड्जकादयः

॥५॥

तान्दृष्ट्वा विस्मयाविष्टो मुक्त्वा वीणां प्रयत्नतः ॥

पप्रच्छ देवं ब्रह्माणं किमिदं कौतुकं विभो

॥६॥

वाद्यमानासु तन्त्रीषु पतिता ब्राह्मणा भुवि ॥

क एते ब्राह्मणा देव किं मृता इव शेरते

॥७॥

ब्रह्मोवाच

एते स्वरा महाभाग मूर्च्छिताः पतिता भुवि ॥

अज्ञानवादनेनैव पापं जातं तवाधुना

॥८॥

सप्तब्राह्मणविध्वंसपातकं ते समा गतम् ॥

तस्माच्छीघ्रं व्रज मुने प्रभासं क्षेत्रमुत्तमम्

॥९॥

समाराधय देवेशं सर्वपापविशुद्धये ॥

इत्युक्तो नारदस्तत्र संतप्य च मुहुर्मुहुः

॥१०॥

कृत्वा विषादं बहुशः प्रभासं क्षेत्रमागतः ॥

तत्रैव ब्रह्मकुण्डं तु समासाद्य प्रयत्नतः

॥११॥

भैरवं पूजयामास दिव्याब्दानां शतं प्रिये ॥

ततो निष्कल्मषो भूत्वा गीतज्ञश्चाभवत्तथा

॥१२॥

ततः प्रभृति तल्लिंगं नारदेश्वरभैरवम् ॥

ख्यातं लोके महादेवि सर्वपातकनाशनम्

॥१३॥

अज्ञानाद्वादयेद्यस्तु वीणां चैव तथा स्वरान् ॥

स तत्पातकशुद्ध्यर्थं तत्र गच्छेन्महेश्वरि

॥१४॥

माघे मासि जिताहारस्त्रिकालं योऽर्चयेत्ततः ॥

नारदेशं भैरवं स स्वर्गरामामनोहरः

॥१५॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये ब्रह्मकुण्डमाहात्म्ये नारदेश्वरभैरवमाहात्म्यवर्णनंनाम द्विपंचाशदुत्तरशततमोऽध्यायः ॥ १५२ ॥