मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १४४

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 144

पुष्करकुण्डमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि तृतीयं पुष्करं महत् ॥

तस्यैव पूर्वदिग्भागे किञ्चिदीशानगोचरे ॥

कनीयः संस्मृतं कुंडं पुष्करंनाम नामतः

॥१॥

यत्र मध्याह्नसमये ब्रह्मणा समुपासिता ॥

सन्ध्या त्रैलोक्यजननी प्रतिष्ठार्थं गतेन च

॥२॥

तत्र यः कुरुते स्नानं पौर्णमास्यां समाहितः ॥

सम्यक्कृतं भवेत्तेन स्नानं तत्रादिपुष्करे

॥३॥

हिरण्यं तत्र दातव्यं सर्वपापापनुत्तये

॥४॥

इति संक्षेपतः प्रोक्तं माहात्म्यं तव पौष्करम् ॥

श्रुतं पापहरं नॄणां सर्वकामप्रदं तथा

॥५॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पुष्करकुण्डमाहात्म्य वर्णनंनाम चतुश्चत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४४ ॥