मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३३६

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 336

गोष्पदतीर्थमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि गोष्पदं तीर्थमुत्तमम् ॥

यत्र श्राद्धं नरः कृत्वा गयासप्तगुणं फलम् ॥

लभते नात्र संदेहो यदि श्रद्धा दृढा भवेत्

॥१॥

यत्र श्राद्धं पृथुः कृत्वा पितरं पापयोनितः ॥

उद्दधार महादेवि वेनंनाम महाप्रभुम्

॥२॥

देव्युवाच

कस्मिन्स्थाने स्थितं तीर्थमुत्पत्तिस्तस्य कीदृशी ॥

कथं स वेनराजो वा उद्धृतः पापयोनितः

॥३॥

गयासप्तगुणं पुण्यं कथं तत्र प्रजायते ॥

श्राद्धस्य किं विधानं तु के मंत्रास्तत्र के द्विजाः ॥

एतन्मे कौतुकं देव यथावद्वक्तुमर्हसि

॥४॥

ईश्वर उवाच

इदं रहस्यं देवेशि यत्त्वया परिपृच्छितम् ॥

अप्रकाश्यमिदं तीर्थमस्मिन्पापयुगे प्रिये

॥५॥

तथापि संप्रवक्ष्यामि तव स्नेहात्सुरेश्वरि ॥

न पापिन इदं ब्रूयान्नैव तर्करताय वै

॥६॥

न नास्तिकाय देवेशि न सुवर्णेतराय च ॥

अस्ति देवि महासिद्धा पुण्या न्यंकुमती नदी

॥७॥

मर्यादार्थं मयाऽऽनीता क्षेत्रस्यास्य महेश्वरि ॥

संस्थिता पापशमनी पर्णादित्याच्च दक्षिणे

॥८॥

नारायणगृहात्सौम्ये नातिदूरे व्यवस्थिता ॥

तस्या मध्ये महादेवि तीर्थं त्रैलोक्यविश्रुतम्

॥९॥

गोष्पदं नाम विख्यातं कोटिपापहरं नृणाम् ॥

गोष्पदस्य समीपे तु नातिदूरे व्यवस्थितः

॥१०॥

अनन्तो नाम नागेन्द्रः स्वयंभूतो धरातले ॥

तस्य तीर्थस्य रक्षार्थं विष्णुना सन्नियोजितः

॥११॥

कांक्षंति पितरः पुत्रान्नरकादतिभीरवः ॥

गंता यो गोष्पदे पुत्रः स नस्त्राता भविष्यति ॥

गोष्पदे च सुतं दृष्ट्वा पितॄणामुत्सवो भवेत्

॥१२॥

पद्भ्यामपि जलं स्पृष्ट्वा अस्मभ्यं किं न दास्यति ॥

अपि स्यात्स कुलेऽस्माकं यो नो दद्याज्जलांजलिम् ॥

प्रभासक्षेत्रमासाद्य गोष्पदे तीर्थ उत्तमे

॥१३॥

अपि स्यात्स कुलेऽस्माकं खड्गमांसेन यः सकृत् ॥

श्राद्धं कुर्यात्प्रयत्नेन कालशाकेन वा पुनः

॥१४॥

अपि स्यात्स कुलेऽस्माकं गोष्पदे दत्तदीपकः ॥

आकल्पकालिका दीप्तिस्तेनाऽस्माकं भविष्यति

॥१५॥

गोष्पदे चान्नशता यः पितरस्तेन पुत्रिणः ॥

दिनमेकमपि स्थित्वा पुनात्यासप्तमं कुलम्

॥१६॥

पिण्डं दद्याच्च पित्रादेरात्मनोऽपि स्वयं नरः ॥

पिण्याकेंगुदकेनापि तेन मुच्येद्वरानने

॥१७॥

ब्रह्मज्ञानेन किं योगैर्गोग्रहे मरणेन किम् ॥

किं कुरुक्षेत्रवासेन गोष्पदे यदि गच्छति

॥१८॥

सकृत्तीर्थाभिगमनं सकृत्पिण्डप्रपातनम् ॥

दुर्ल्लभं किं पुनर्नित्यमस्मिंस्तीर्थे व्यवस्थितम्

॥१९॥

अर्द्धकोशं तु तत्तीर्थं तदर्द्धार्द्धं तु दुर्ल्लभम् ॥

तन्मध्ये श्राद्धकृत्पुण्यं गयासप्तगुणं लभेत्

॥२०॥

श्राद्धकृद्गोष्पदे यस्तु पितॄणामनृणो हि सः ॥

पदमध्ये विशेषेण कुलानां शतमुद्धरेत्

॥२१॥

गृहाच्चलितमात्रस्य गोष्पदे गमनं प्रति ॥

स्वर्गारोहणसोपानं पितॄणां तु पदेपदे

॥२२॥

पायसेनैव मधुना सक्तुना पिष्टकेन च ॥

चरुणा तंदुलाद्यैर्वा पिंडदानं विधीयते

॥२३॥

गोप्रचारे तु यः पिण्डा ञ्छमीपत्रप्रमाणतः ॥

कन्दमूलफलाद्यैर्वा दत्त्वा स्वर्गं नयेत्पितॄन्

॥२४॥

गोष्पदे पिण्डदानेन यत्फलं लभते नरः ॥

न तच्छक्यं मया वक्तुं कल्पकोटिशतैरपि

॥२५॥

अथातः संप्रवक्ष्यामि सम्यग्यात्राविधिं शुभम् ॥

यात्राविधानं च तथा सम्यक्छ्रद्धान्विता शृणु

॥२६॥

यदि तीर्थं नरो गच्छेद्गयाश्राद्धफलेप्सया ॥

तथाविधविधानेन यात्रा कुर्याद्विचक्षणः

॥२७॥

ब्रह्मचारी शुचिर्भूत्वा हस्तपादेषु संयतः ॥

श्रद्धावानास्तिको भावी गच्छेत्तीर्थं ततः सुधीः

॥२८॥

न नास्तिकस्य संसर्गं तस्मिंस्तीर्थे नरश्चरेत् ॥

सर्वोपस्करसंयुक्तः श्राद्धार्ह द्रव्यसंयुतः ॥

गच्छेत्तीर्थं साधुसंगी गयां मनसि मानयन्

॥२९॥

एवं यस्तु द्विजो गच्छेत्प्रतिग्रहविवर्जितः ॥

पदेपदेऽश्वमेधस्य फलं प्राप्नोत्य संशयम्

॥३०॥

तत्र स्नात्वा न्यंकुमत्यां सिद्धये पितृमुक्तये ॥

स्नात्वाथ तर्प्पणं कुर्याद्देवादीनां यथाविधि

॥३१॥

ब्रह्मादिस्तंबपर्यंता देवर्षि मनुमानवाः ॥

तृप्यन्तु पितरः सर्वे मातृमातामहादयः

॥३२॥

एवं संतर्प्य विधिना कृत्वा होमादिकं नरः ॥

श्राद्धं सपिण्डकं कुर्यात्स्वतंत्रोक्तविधानतः

॥३३॥

आमन्त्र्य ब्राह्मणांस्तत्र शास्त्रजान्दोषवर्जितान् ॥

एवं कृतोपचारस्तु इमं मन्त्रमुदीरयेत्

॥३४॥

कव्यवाडनलः सोमो यमश्चैवार्यमा तथा ॥

अग्निष्वात्ता बर्हिषदः सोमपाः पितृदेवताः ॥

आगच्छन्तु महाभागा युष्माभी रक्षिता स्त्विह

॥३५॥

मदीयाः पितरो ये च कुले जाताः सनाभयः ॥

तेषां पिण्डप्रदाताऽहमागतोऽस्मिन्पितामहाः

॥३६॥

एवमुक्त्वा महादेवि इमं मन्त्रमुदीरयेत्

॥३७॥

पिता पितामहश्चैव तथैव प्रपितामहः ॥

माता पितामही चैव तथैव प्रपितामही

॥३८॥

मातामहः प्रमाता च तथा वृद्धप्रमातृकः ॥

तेषां पिंडो मया दत्तो ह्यक्षय्यमुपतिष्ठताम्

॥३९॥

ॐ नमो भानवे भर्त्रेऽब्जभौमसोमरू पिणे ॥

एवं नत्वाऽर्चयित्वा तु इमां स्तुतिमथो पठेत्

॥४०॥

तत्र गोष्पदसामीप्ये चरुणा सुशृतेन च ॥

पितॄणामनाथानां च मंत्रैः पिंडांश्च निर्वपेत्

॥४१॥

अस्मत्कुले मृता ये च गतिर्येषां न विद्यते ॥

रौरवे चांधतामिस्रे कालसूत्रे च ये गताः ॥

तेषामुद्धरणार्थाय इमं पिंडं ददाम्यहम्

॥४२॥

अनेकयातनासंस्थाः प्रेतलोकेषु ये गताः ॥

तेषामुद्धरणार्थाय इमं पिंडं ददाम्यहम्

॥४३॥

पशुयोनिगता ये च ये च कीटसरी सृपाः ॥

अथवा वृक्षयोनिस्थास्तेभ्यः पिंडं ददाम्यहम्

॥४४॥

असंख्या यातनासंस्था ये नीता यमशासकैः ॥

तेषामुद्धरणार्थाय इमं पिंडं ददाम्यहम्

॥४५॥

येऽबांधवा बांधवा ये येऽन्यजन्मनि बांधवाः ॥

ते सर्वे तृप्तिमायांतु पिंडेनानेन सर्वदा

॥४६॥

ये केचित्प्रेतरूपेण वर्त्तंते पितरो मम ॥

ते सर्वे तृप्तिमायांतु पिंडेनानेन सर्वदा

॥४७॥

दिव्यांतरिक्षभूमिस्थपितरो बांधवादयः ॥

मृताश्चासंस्कृता ये च तेषां पिंडोस्तु मुक्तये

॥४८॥

पितृवंशे मृता ये च मातृवंशे तथैव च ॥

गुरुश्वशुरबंधूनां ये चान्ये बांधवा मृताः

॥४९॥

ये मे कुले लुप्तपिंडाः पुत्रदारविवर्जिताः ॥

क्रियालोपगता ये च जात्यंधाः पंगवस्तथा

॥५०॥

विरूपा आमगर्भा येऽज्ञाता ज्ञाताः कुले मम ॥

तेषां पिंडो मया दत्तो ह्यक्षय्यमुपतिष्ठताम्

॥५१॥

प्रेतत्वात्पितरो मुक्ता भवंतु मम शाश्वतम् ॥

यत्किंचिन्मधुसमिश्रं गोक्षीरं घृतपायसम्

॥५२॥

अक्षय्यमुपतिष्ठेत्त्वत्त्वस्मिंस्तीर्थे तु गोष्पदे ॥

स्वाध्यायं श्रावयेत्तत्र पुराणान्यखिलान्यपि

॥५३॥

ब्रह्मविष्ण्वर्करुद्राणां स्तवानि विविधानि च ॥

ऐंद्राणि सोमसूक्तानि पावमानीश्च शक्तितः

॥५४॥

बृहद्रथंतरं तद्वज्ज्येष्ठसाम सरौरवम् ॥

तथैव शांतिकाध्यायं मधुब्राह्मणमेव च

॥५५॥

मंडलं ब्राह्मणं तत्र प्रीतकारि च यत्पुनः ॥

विप्राणामात्मनश्चैव तत्सर्वं समुदीरयेत्

॥५६॥

एवं न्यंकुमतीमध्ये गोष्पदे तीर्थ उत्तमे ॥

दत्त्वा पिंडांश्च विधिवत्पुनर्मंत्रमिमं पठेत्

॥५७॥

साक्षिणः संतु मे देवा ब्रह्माद्या ऋषिपुंगवाः ॥

मयेदं तीर्थमासाद्य पितॄणां निष्कृतिः कृता

॥५८॥

आगतोऽस्मि इदं तीर्थं पितृकार्ये सुरोत्तमाः ॥

भवंतु साक्षिणः सर्वे मुक्तश्चाहमृणत्रयात्

॥५९॥

एवं प्रदक्षिणीकृत्य गोष्पदं तीर्थमुत्तमम् ॥

विप्रेभ्यो दक्षिणां दत्त्वा नद्यां पिंडान्विसर्जयेत्

॥६०॥

गोदानं तत्र देयं तु तद्वत्कृष्णाजिनं प्रिये ॥

अष्टकासु च वृद्धौ च गयायां मृतवासरे

॥६१॥

अत्र मातुः पृथक्छ्राद्धमन्यत्र पतिना सह ॥

वृद्धिश्राद्धे तु मात्रादि गयायां पितृपूर्वकम्

॥६२॥

गयावदत्रैव पुनः श्राद्धं कार्यं नरोत्तमैः ॥

तस्माद्गुप्तगया प्रोक्ता इयं सा विष्णुना स्वयम्

॥६३॥

गंधदानेन गंधाप्तिः सौभाग्यं पुष्पदानतः ॥

धूपदानेन राज्याप्तिर्दीप्तिर्दीपप्रदानतः

॥६४॥

ध्वजदानात्पापहानिर्यात्राकृद्ब्रह्मलोकभाक् ॥

श्राद्धपिंडप्रदो लोके विष्णुर्नेष्यति वै पितॄन्

॥६५॥

एकं यो भोजयेत्तत्र ब्राह्मणं शंसितव्रतम् ॥

गोप्रचारे महातीर्थे कोटिर्भवतिभोजिता

॥६६॥

इति संक्षेपतः प्रोक्तस्तत्र श्राद्धविधिस्तव ॥

अथ ते कथयिष्यामि इतिहासं पुरातनम्

॥६७॥

वेनस्य राज्ञश्चरितं पृथोश्चैव महात्मनः ॥

यथा तत्राभवन्मुक्तिस्तस्य चांडालयोनितः ॥

तत्सर्वं शृणु देवेशि सम्यक्छ्रद्धासमान्विता

॥६८॥

पिशुनाय न पापाय नाशिष्यायाहिताय च ॥

कथनीयमिदं पुण्यं नाव्रताय कथंचन

॥६९॥

स्वर्ग्यं यशस्यमायुष्यं धन्यं वेदेन संमितम् ॥

रहस्यमृषिभिः प्रोक्तं शृणुयाद्योऽनसूयकः

॥७०॥

यश्चैनं श्रावयेन्मर्त्यः पृथो र्वैन्यस्य संभवम् ॥

ब्राह्मणेभ्यो नमस्कृत्वा न स शोचेत्कृताऽकृते

॥७१॥

गोप्ता धर्मस्य राजाऽसौ बभौ चात्रिसमप्रभः ॥

अत्रिवंशसमुत्पन्नो ह्यंगो नाम प्रजापतिः

॥७२॥

तस्य पुत्रोऽभवेद्वेनो नात्यर्थं धार्मिकस्तथा ॥

जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः

॥७३॥

समातामह दोषेण तेन कालात्मकाननः ॥

स धर्मं पृष्ठतः कृत्वा पापबुद्धिरजायत

॥७४॥

स्थितिमुत्थापयामास धर्मोपेतां सनातनीम् ॥

वेदशास्त्राण्यतिक्रम्य ह्यधर्म निरतोऽभवत्

॥७५॥

निःस्वाध्यायवषट्काराः प्रजास्तस्मिन्प्रशासति ॥

डिंडिमं घोषयामास स राजा विषये स्वके

॥७६॥

न दातव्यं न यष्टव्यं मयि राज्यं प्रशासति ॥

आसीत्प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते

॥७७॥

अहमीड्यश्च पूज्यश्च सर्वयज्ञैर्द्विजोत्तमैः ॥

मयि यज्ञा विधातव्या मयि होतव्यमित्यपि

॥७८॥

तमतिक्रांतमर्यादं प्रजापीडनतत्परम् ॥

ऊचुर्महर्षयः क्रुद्धा मरीचिप्रमुखास्तदा

॥७९॥

माऽधर्मं वेन कार्षीस्त्वं नैष धर्मः सनातनः ॥

अत्रेर्वंशे प्रसूतोऽसि प्रजापतिरसंशयम्

॥८०॥

पालयिष्ये प्रजाश्चेति पूर्वं ते समयः कृतः ॥

तांस्तथावादिनः सर्वान्ब्रह्मर्षीनब्रवीत्तदा

॥८१॥

वेनः प्रहस्य दुर्बुद्धिरिदं वचनकोविदः ॥

स्रष्टा धर्मस्य कश्चान्यः श्रोतव्यं कस्य वा मया

॥८२॥

वीर्यश्रुततपःसत्यैर्मयान्यः कः समो भुवि ॥

मदात्मानो न नूनं मां यूयं जानीथ तत्त्वतः

॥८३॥

प्रभवं सर्वलोकानां धर्माणां च विशेषतः ॥

इत्थं देहेन पृथिवीं भावेन यजनेन च

॥८४॥

सृजेयं च ग्रसेयं च नात्र कार्या विचारणा ॥

यदा न शक्यते स्तंभान्मत्तश्चैव विमोहितः

॥८५॥

अनुनेतुं नृपो वेनस्तत्र क्रुद्धा महर्षयः ॥

आथर्वणेन मंत्रेण हत्वा तं ते महाबलम्

॥८६॥

ततोऽस्य वामबाहुं ते ममंथुर्भृशकोपिताः ॥

तस्माच्च मथ्यमानाद्वै जज्ञे पूर्वमिति श्रुतिः

॥८७॥

ह्रस्वोऽतिमात्रः पुरुषः कृष्णश्चापि तदा प्रिये ॥

स भीतः प्राञ्जलिश्चैव तस्थिवान्संमुखे प्रिये

॥८८॥

तमात्तं विह्वलं दृष्ट्वा निषीदेत्यब्रुवन्किल ॥

निषादो वंशकर्ता वै तेनाभूत्पृथुविक्रमः

॥८९॥

धीवरानसृजच्चापि वेनपापसमुद्भवान् ॥

ये चान्ये विन्ध्यनिलयास्तथा वै तुंबराः खसाः

॥९०॥

अधर्मे रुचयश्चापि वर्द्धिता वेनपापजाः ॥

पुनर्महर्षयस्तेथ पाणिं वेनस्य दक्षिणम्

॥९१॥

अरणीमिव संरब्धा ममंथुर्जात मन्यवः ॥

पृथुस्तस्मात्समुत्पन्नः कराज्ज्वलनसंनिभः

॥९२॥

पृथोः करतलाच्चापि यस्माजातस्ततः पृथुः ॥

दीप्यमानश्च वपुषा साक्षादग्निरिव ज्वलन्

॥९३॥

धनुराजगवं गृह्य शरांश्चाशीविषोपमान् ॥

खङ्गं च रक्षन्रक्षार्थं कवचं च महाप्रभम्

॥९४॥

तस्मिञ्जातेऽथ भूतानि संप्रहृष्टानि सर्वशः ॥

संबभूवुर्महादेवि वेनश्च त्रिदिवं गतः

॥९५॥

ततो नद्यः समुद्राश्च रत्नान्यादाय सर्वशः ॥

अभिषेकाय ते सर्वे राजानमुपतस्थिरे

॥९६॥

पितामहश्च भगवानृषिभिश्च सहामरैः ॥

स्थावराणि च भूतानि जंगमानि च सर्वशः

॥९७॥

समागम्य तदा वैन्यमभ्यषिंचन्नराधि पम् ॥

सोऽभिषिक्तो महातेजा देवैरंगिरसादिभिः

॥९८॥

अधिराज्ये महाभागः पृथुर्वैन्यः प्रतापवान् ॥

पित्रा न रंजिताश्चास्य प्रजा वैन्येन रंजिताः

॥९९॥

ततो राजेति नामास्य अनुरागादजायत ॥

आपः स्तस्तंभिरे चास्य समुद्रमभियास्यतः

॥१००॥

पर्वताश्चापि शीर्यंते ध्वजसंगोऽपि नाऽभवत् ॥

अकृष्टपच्या पृथिवी सिध्यंत्यन्नानि चिंतया ॥

सर्वकामदुघा गावः पुटकेपुटके मधु

॥१०१॥

तस्मिन्नेव तदा काले पुन र्जज्ञेऽथ मागधः ॥

सामगेषु च गायत्सु स्रुग्भांडाद्वैश्वदेविकात्

॥१०२॥

सामगेषु समुत्पन्नस्तस्मान्मगध उच्यते ॥

ऐंद्रेण हविषा चापि हविः पृक्तं बृहस्पतिः

॥१०३॥

यदा जुहाव चेंद्राय ततस्ततो व्यजायत ॥

प्रमादस्तत्र संजज्ञे प्रायश्चित्तं च कर्मसु

॥१०४॥

शेषहव्येन यत्पृक्तमभिभूतं गुरोर्हविः ॥

अधरोत्तरस्वारेण जज्ञे तद्वर्णवैकृतम्

॥१०५॥

यज्ञस्तस्यां समभवद्ब्राह्मण्यां क्षत्रयोनितः ॥

ततः पूर्वेण साधर्म्यात्तुल्यधर्माः प्रकीर्त्तिताः

॥१०६॥

मध्यमो ह्येष तत्त्वस्य धर्मः क्षत्रोपजीवनम् ॥

रथनागाश्वचरितं जघन्यं च चिकित्सितम्

॥१०७॥

पृथोः कथार्थं तौ तत्र समा हूतौ महर्षिभिः ॥

तावूचुर्मुनयः सर्वे स्तूयतामिति पार्थिवः

॥१०८॥

कर्मभिश्चानुरूपो हि यतोयं पृथिवीपतिः ॥

तानूचतुस्तदा सर्वानृषींश्च सूतमागधौ

॥१०९॥

आवां देवानृषींश्चैव प्रीणयाव स्वकर्मभिः ॥

न चास्य विद्वो वै कर्म न तथा लक्षणं यश

॥११०॥

स्तोत्रं येनास्य संकुर्वो राज्ञस्तेजस्विनो द्विजाः ॥

ऋषिभिस्तौ नियुक्तौ तु भविष्यैः स्तूयतामिति

॥१११॥

यानि कर्माणि कृतवान्पृथुः पश्चान्महाबलः ॥

तानि गीतानि बद्धानि स्तुवद्भिः सूतमागधैः

॥११२॥

ततः श्रुतार्थः सुप्रीतः पृथुः प्रादात्प्रजेश्वरः ॥

अनूपदेशं सूताय मागधान्मागधाय च ॥

तदादि पृथिवीपालाः स्तूयन्ते सूतमागधैः ॥

आशीर्वादैः प्रशंस्यंते सूतमागधबंदिभिः

॥११४॥

तं दृष्ट्वा परमं प्रीताः प्रजा ऊचुर्महर्षयः ॥

एष वो वृत्तिदो वैन्यो विहितोऽथ नराधिपः

॥११५॥

ततो वैन्यं महाभागं प्रजाः समभिदुद्रुवुः ॥

त्वं नो वृत्तिविधातेति महर्षिवचनात्तथा

॥११६॥

सोऽभीहितः प्रजाभिस्तु प्रजाहितचिकीर्षया ॥

धनुर्गृहीत्वा बाणांश्च वसुधामार्दयद्बली

॥११७॥

ततो वैन्यभयत्रस्ता गौर्भूत्वा प्राद्रवन्मही ॥

तां धेनुं पृथुरादाय द्रवन्तीमन्वधावत

॥११८॥

सा लोकान्ब्रह्मलोकादीन्गत्वा वैन्यभयात्तदा ॥

ददर्श चाग्रतो वैन्यं कार्मुकोद्यतपाणिनम्

॥११९॥

ज्वलद्भिर्विशिखैस्तीक्ष्णैर्दीप्ततेजःसमन्वितैः ॥

महायोगं महात्मानं दुर्द्धर्षममरैरपि

॥१२०॥

अलभंती तु सा त्राणं वैन्यमेवाभ्यपद्यत ॥

कृतांजलिपुटा देवी पूज्या लोकैस्त्रिभिस्सदा

॥१२१॥

उवाच चैनं नाधर्म्यं स्त्रीवधं परिपश्यसि ॥

कथं धारयिता चासि प्रजा राजन्मया विना

॥१२२॥

मयि लोकाः स्थिता राजन्मयेदं धार्यते जगत् ॥

मदृते तु विनश्येयुः प्रजाः पार्थिव विद्धि तत्

॥१२३॥

स मां नार्हसि हंतुं वै श्रेयश्चेत्त्वं चिकीर्षसि ॥

प्रजानां पृथिवीपाल शृणुष्वेदं वचो मम

॥१२४॥

उपायतः समारब्धाः सर्वे सिध्यंत्युपक्रमाः ॥

हत्वा मां त्वं न शक्तो वै प्रजाः पालयितुं नृप

॥१२५॥

अनुकूला भविष्यामि त्यज कोपं महाद्युते ॥

अवध्याश्च स्त्रियः प्राहुस्तिर्यग्योनिगता अपि

॥१२६॥

एकस्मिन्निधनं प्राप्ते पापिष्ठे क्रूरकर्मणि ॥

बहूनां भवति क्षेमस्तत्र पुण्यप्रदो वधः ॥

सत्येवं पृथिवीपाल धर्म्मं मा त्यक्तुमर्हसि

॥१२७॥

एवंविधं तु तद्वाक्यं श्रुत्वा राजा महाबलः ॥

क्रोधं निगृह्य धर्मात्मा वसुधामिदमब्रवीत्

॥१२८॥

एकस्यार्थे च यो हन्यादात्मनो वा परस्य वा ॥

एकं वापि बहून्वापि कामतश्चास्ति पातकम्

॥१२९॥

यस्मिंस्तु निधनं प्राप्ता एधन्ते बहवः सुखम् ॥

तस्मिन्हते च भूयो हि पातकं नास्ति तस्य वै

॥१३०॥

सोऽहं प्रजानिमित्तं त्वां हनिष्यामि वसुन्धरे ॥

यदि मे वचनं नाद्य करिष्यसि जगद्धितम्

॥१३१॥

त्वां निहत्याद्य बाणेन मच्छासनपराङ्मुखीम् ॥

आत्मानं पृथुकृत्वेह प्रजा धारयितास्म्यहम्

॥१३२॥

सा त्वं वचनमास्थाय मम धर्मभृतांवरे ॥

सञ्जीवय प्रजा नित्यं शक्ता ह्यसि न संशयः

॥१३३॥

दुहितृत्वं हि मे गच्छ एवमेतन्महच्छरम् ॥

नियच्छे त्वद्वधार्थं च प्रयुक्तं घोरदर्शनम् ॥

प्रत्युवाच ततो वैन्यमेवमुक्ता महासती

॥१३४॥

सर्वमेतदहं राजन्विधास्यामि न संशयः ॥

वत्सं तु मम संयुक्ष्व क्षरेयं येन वत्सला

॥१३५॥

समां च कुरु सर्वत्र मां त्वं सर्वभृतां वर ॥

यथा विस्यन्दमानाहं क्षीरं सर्वत्र भावये

॥१३६॥

ईश्वर उवाच

तत उत्सारयामास शिलाजालानि सर्वशः ॥

धनुष्कोट्या ततो वैन्यस्तेन शैला विवर्द्धिताः

॥१३७॥

मन्वतरेष्वतीतेषु चैवमासीद्वसुन्धरा ॥

स्वभावेनाभवत्तस्याः समानि विषमाणि च

॥१३८॥

न हि पूर्वनिसर्गे वै विषमं पृथिवीतलम् ॥

प्रविभागः पुराणां च ग्रामाणां चाथ विद्यते

॥१३९॥

न सस्यानि न गोरक्षं न कृषिर्न वणिक्पथः

॥१४०॥

चाक्षुषस्यांतरे पूर्वमासीदेतत्पुरा किल ॥

वैवस्वतेऽन्तरे चास्मिन्सर्वस्यैतस्य संभवः ॥

समत्वं यत्रयत्रासीद्भूमेः कस्मिंश्चिदेव हि

॥१४१॥

तत्रतत्र प्रजास्ता वै निवसन्ति स्म सर्वदा ॥

आहारः फलमूलं तु प्रजानामभवत्किल

॥१४२॥

कृच्छ्रेणैव तदा तासामित्येवमनुशुश्रुम ॥

वैन्यात्प्रभृतिलोकेऽस्मिन्सर्वस्यैतस्य संभवः

॥१४३॥

संकल्पयित्वा वत्सं तु चाक्षुषं मनुमीश्वरम् ॥

पृथुर्दुदोह सस्यानि स्वहस्ते पृथिवीं ततः

॥१४४॥

सस्यानि तेन दुग्धा वै वेन्येनेयं वसुन्धरा ॥

मनुं वै चाक्षुषं कृत्वा वत्सं पात्रे च भूमये

॥१४५॥

तेनान्नेन तदा ता वै वर्त्तयन्ते सदा प्रजाः ॥

ऋषिभिः श्रूयते चापि पुनर्दुग्धा वसुन्धरा

॥१४६॥

वत्सः सोमस्ततस्तेषां दोग्धा चापि बृहस्पतिः ॥

पात्रमासन्हि च्छन्दांसि गायत्र्यादीनि सर्वशः

॥१४७॥

क्षीरमासीत्तदा तेषां तपो ब्रह्म च शाश्वतम् ॥

पुनस्ततो देवगणैः पुरंदरपुरोगमैः

॥१४८॥

सौवर्णं पात्रमादाय दुग्धेयं श्रूयते मही ॥

वत्सस्तु मघवा चासीद्दोग्धा च सविताऽभवत्

॥१४९॥

क्षीरमूर्जामधु प्रोक्तं वर्तंते तेन देवताः ॥

पितृभिः श्रूयते चापि पुनर्दुग्धा वसुन्धरा

॥१५०॥

राजतं पात्रमादाय स्वधा त्वक्षय्यतृप्तये ॥

वैवस्वतो यमस्त्वासीत्तेषां वत्सः प्रतापवान्

॥१५१॥

अंतकश्चाभवद्दोग्धा पितृणां भगवा न्प्रभुः ॥

असुरैः श्रूयते चापि पुनर्दुग्धा वसुन्धरा

॥१५२॥

आयसं पात्रमादाय बलमाधाय सर्वशः ॥

विरोचनस्तु प्राह्लादिस्तेषां वत्सः प्रतापवान्

॥१५३॥

ऋत्विग्द्विमूर्द्धा दैत्यानां दोग्धा तु दितिनन्दनः ॥

मायाक्षीरं दुदोहासौ दैत्यानां तृप्तिकारकम्

॥१५४॥

तेनैते माययाऽद्यापि सर्वे मायाविदोऽसुराः ॥

वर्त्तयंति महावीर्यास्तदेतेषां परं बलम्

॥१५५॥

नागैश्च श्रूयते दुग्धा वत्सं कृत्वा तु तक्षकम् ॥

अलाबुपात्रमादाय विषं क्षीरं तदा महत्

॥१५६॥

तेषां वै वासुकिर्दोग्धा काद्रवेयो महायशाः ॥

नागानां वै महादेवि सर्पाणां चैव सर्वशः

॥१५७॥

तेन वै वर्त्तयन्त्युग्रा महाकाया विषोल्बणाः ॥

तदाहारास्तदाचारास्तद्वीर्यास्तदपाश्रयाः

॥१५८॥

आमपात्रे पुनर्दुग्धा त्वंतर्द्धानमियं मही ॥

वत्सं वैश्रवणं कृत्वा यक्षपुण्यजनैस्तथा

॥१५९॥

दोग्धा रजतनागस्तु चिन्तामणिचरस्तु यः ॥

यक्षाधिपो महातेजा वशी ज्ञानी महातपाः

॥१६०॥

तेन ते वर्त्तयं तीति यक्षा वसुभिरूर्जितैः ॥

राक्षसैश्च पिशाचैश्च पुनर्दुग्धा वसुन्धरा

॥१६१॥

ब्रह्मोपेन्द्रस्तु दोग्धा वै तेषामासीत्कुबेरतः ॥

वत्सः सुमाली बलवान्क्षीरं रुधिरमेव च

॥१६२॥

कपालपात्रे निर्दुग्धा त्वंतर्द्धानं तु राक्षसैः ॥

तेन क्षीरेण रक्षांसि वर्त्तयन्तीह सर्वशः

॥१६३॥

पद्मपत्रेषु वै दुग्धा गंधर्वाप्सरसां गणैः ॥

वत्सं चैत्ररथं कृत्वा शुचिगन्धान्मही तदा

॥१६४॥

तेषां वत्सो रुचिस्त्वासीद्दोग्धा पुत्रो मुनेः शुभः ॥

शैलैस्तु श्रूयते देवि पुनर्दुग्धा वसुंधरा

॥१६५॥

तदौषधीर्मूर्तिमती रत्नानि विविधानि च ॥

वत्सस्तु हिमवांस्तेषां दोग्धा मेरुर्महागिरिः

॥१६६॥

पात्रं शिलामयं ह्यासीत्तेन शैलाः प्रतिष्ठिताः ॥

श्रूयते वृक्षवीरुद्भिः पुनर्दुग्धा वसुन्धरा

॥१६७॥

पालाशं पात्रमादाय च्छिन्नदग्धप्ररोहणम् ॥

दोग्धा तु पुष्पितः शालः प्लक्षो वत्सो यशस्विनि ॥

सर्वकामदुघा दोग्धा पृथिवी भूतभाविनी

॥१६८॥

सैषा धात्री विधात्री च धरणी च वसुन्धरा ॥

दुग्धा हितार्थं लोकानां पृथुना इति नः श्रुतम्

॥१६९॥

चराचरस्य लोकस्य प्रतिष्ठा योनिरेव च ॥

आसीदियं समुद्रांता मेदिनीति परिश्रुता

॥१७०॥

मधुकैटभयोः पूर्वं मेदोमांसपरिप्लुता ॥

वसुन्धारयते यस्माद्वसुधा तेन कीर्तिता

॥१७१॥

ततोऽभ्युपगमाद्राज्ञः पृथोर्वैन्यस्य धीमतः ॥

दुहितृत्वमनुप्राप्ता पृथिवीत्युच्यते ततः

॥१७२॥

प्रथिता प्रविभक्ता च शोभिता च वसुन्धरा ॥

दुग्धा हि यत्नतो राज्ञा पत्तनाकरमालिनी

॥१७३॥

एवं प्रभावो राजासीद्वैन्यः स नृपसत्तमः ॥

ततः स रंजयामास धर्मेण पृथिवीं तदा

॥१७४॥

ततो राजेति शब्दोऽथ पृथिव्यां रंजनादभूत् ॥

स राज्यं प्राप्य वैन्यस्तु चिंतयामास पार्थिवः

॥१७५॥

पिता मम ह्यधर्मिष्ठो यज्ञाद्युच्छित्तिकारकः ॥

कस्मिन्स्थाने गतश्चासौ ज्ञेयं स्थानं कथं मया

॥१७६॥

कथं तस्य क्रिया कार्या हतस्य ब्राह्मणैः किल ॥

कथं गतिर्भवेत्तस्य यज्ञदानक्रियाबलात्

॥१७७॥

इत्येव चिंतया तस्य नारदोभ्याजगाम ह ॥

तस्यैवमासनं दत्त्वा प्रणिपत्य च पृष्टवान्

॥१७८॥

भगवन्सर्वलोकस्य जानासि त्वं शुभाशुभम् ॥

पिता मम दुराचारो देवब्राह्मणनिंदकः

॥१७९॥

स्वकर्मणा हतो विप्रैः परलोकमवाप्तवान् ॥

कस्मिंस्थाने गतस्तातः श्वभ्रं वा स्वर्गमेव च

॥१८०॥

ततोऽब्रवीन्नारदस्तु ज्ञात्वा दिव्येन चक्षुषा ॥

शृणु राजन्महाबाहो यत्र तिष्ठति ते पिता

॥१८१॥

अत्र देशो मरुर्नाम जलवृक्षविवर्जितः ॥

तत्र देशे महारौद्रे जनकस्ते नरोत्तम

॥१८२॥

म्लेच्छमध्ये समुत्पन्नो यक्ष्मी कुष्ठसमन्वितः ॥

उच्छिष्टभोजी म्लेच्छानां कृमिभिः संयुतो व्रणैः

॥१८३॥

तच्छ्रुत्वा वचनं तस्य नारदस्य महात्मनः ॥

हाहाकारं ततः कृत्वा मूर्छितो निपपात ह

॥१८४॥

चिंतयामास दुःखार्तः कथं कार्यं मया भवेत् ॥

इत्येवं चिंतयानस्य मतिर्जाता महात्मनः ॥

पुत्रः स कथ्यते लोके पितरं त्रायते तु यः

॥१८५॥

स कथं तु मया तातः पापान्मुक्तो भविष्यति ॥

एवं संचिंत्य स ततो नारदं पर्यपृच्छत

॥१८६॥

भगवन्कथितं सर्वं पितुर्मम विचेष्टितम् ॥

केन तस्य भवेन्मुक्तिः कर्मणा द्विजसत्तम ॥

व्रतैर्दानैस्तपोभिर्वा तीर्थानां यात्रया वद

॥१७७॥

नारद उवाच

गच्छ राजन्प्रधानानि तीर्थानि मनुजेश्वर ॥

पितरं तेषु चानीय तस्माद्राजन्मरुस्थलात्

॥१८८॥

यत्र देवाः सप्रभावास्तीर्थानि विमलानि च ॥

तत्र गच्छ महाराज तीर्थयात्रां कुरु प्रभो

॥१८९॥

एवं ह्यवितथं विद्धि मोक्षस्ते भविता पितुः ॥

तच्छ्रुत्वा वचनं राजा नारदस्य महात्मनः ॥

सचिवे भारमाधाय स्वराजस्य जगाम ह

॥१९०॥

स गत्वा मरुभूमिं तु म्लेच्छमध्ये ददर्श ह ॥

कुष्ठरोगेण महता क्षयेण च समावृतम्

॥१९१॥

गव्यूतिमात्रं तत्रैव शून्यं मानुषवर्जितम् ॥

एवं दृष्ट्वा स राजा तु संतप्तो वाक्यमब्रवीत्

॥१९२॥

हे म्लेच्छ रोगिपुरुषं स्वगृहं च नयाम्यहम् ॥

तत्राहमेनं निरुजं करोमि यदि मन्यथ

॥१९३॥

ज्ञात्वेति सर्वे ते म्लेच्छाः पुरुषं तं दयापरम् ॥

ऊचुः प्रणतसर्वांगाः शीघ्र नय जगत्पते ॥

अस्मद्भाग्यवशान्नाथ त्वमेवात्र समागतः

॥१९४॥

दुर्गंधोपहता लोकास्त्वया नाथ सुखीकृताः ॥

तत आनाय्य पुरुषाञ्छिबिकावाहनोचितान्

॥१९५॥

ततः श्रुत्वा तु वचनं तस्य राज्ञो दयावहम् ॥

प्रापुस्तीर्थान्यनेकानि केदारादीनि कोटिशः

॥१९६॥

यत्रयत्र स गच्छेत वैन्यो वेनेन संयुतः ॥

तत्र तत्रैव तीर्थानामाक्रंदः श्रूयते महान्

॥१९७॥

हा दैव रिपुरायाति अस्माकं नाशहेतवे ॥

अधुना क्व गमिष्याम इति चिंता पुनःपुनः

॥१९८॥

दर्शनेनापि तस्यैव हाहाकारं विधाय वै ॥

पलायंते च तीर्थानि देवा नश्यंति तत्क्षणात्

॥१९९॥

एवं वर्षत्रयं राजा तीर्थयात्रां चकार वै ॥

न तस्य मुक्तिर्ददृशे ततः शोकमगात्परम्

॥२००॥

ततस्तु प्रेरिता भृत्याः कुरुक्षेत्रे महाप्रभे ॥

यदि वापि पुनस्तत्र पापमुक्तिर्भवेत्ततः

॥२०१॥

गृहीत्वा शिबिकां स्कन्धे कुरुक्षेत्रे गताः प्रिये ॥

तत्र नीत्वा स्थाणुतीर्थमवतार्य च ते गताः

॥२०२॥

ततः स राजा मध्याह्ने चिकीर्षुः स्नानमादरात् ॥

तस्यैव तु पितुस्तत्र तथा दानानि षोडश

॥२०३॥

ब्राह्मणेभ्यस्तथा दित्सुः श्रद्धावान्भावतत्परः ॥

ततो वायुश्चांतरिक्ष इदं वचनमब्रवीत्

॥२०४॥

मा तात साहसं कुर्यास्तीर्थं रक्ष प्रयत्नतः ॥

अयं पापेन घोरेण समंतात्परिवेष्टितः

॥२०५॥

वेदनिन्दासमाचारो ब्रह्महत्याशतैर्युतः ॥

सोऽयं पापो दुराचारस्तीर्थं नाशं नयिष्यति

॥२०६॥

मा तीर्थं नाशय विभो महदेनो भविष्यति ॥

एतद्वायोर्वचः श्रुत्वा दुःखेन महतार्दितः ॥

उवाच शोकसंतप्तः पितुर्दुःखेन दुःखितः

॥२०७॥

हा दैवेति च चुक्रोश ऊर्द्ध्वबाहुः पुनःपुनः ॥

एष घोरेण पापेन अतीव परिवेष्टितः

॥२०८॥

यदनेनापि तीर्थेन शुद्धः कर्त्तुं न शक्यते ॥

प्रायश्चित्तं करिष्येऽहं पितुरर्थे न संशयः

॥२०९॥

एवं तस्य वचः श्रुत्वा दयां कृत्वा महीयसीम् ॥

अन्तरिक्षभवां वाचं खेचराः पुनरब्रुवन्

॥२१०॥

भोभो राजन्नृपश्रेष्ठ त्यक्त्वा शोकं वचः शृणु ॥

येन ते जनकस्यास्य भवेत्पापक्षयो महान्

॥२११॥

अस्ति क्षेत्रं महासिद्धं प्रभासमिति विश्रुतम् ॥

सर्वपापप्रशमनं महापातकनाशनम्

॥२१२॥

ब्रह्मतत्त्वं हरितत्त्वं रुद्रतत्त्वं तृतीयकम् ॥

तस्मिन्नेव महाक्षेत्रे प्रभासे शंकरप्रिये

॥२१३॥

शाक्तेयं यदि वा चांद्रं सौरं सारस्वतं तथा ॥

आग्नेयं वारुणं चापि स्मृतं क्षेत्रमनुत्तमम्

॥२१४॥

ब्रह्माण्डे यानि तीर्थानि पुरा क्षेत्राणि यानि तु ॥

प्रभासमागमिष्यन्ति संप्राप्ते तु कलौ युगे

॥२१५॥

अष्टौ कोटिसहस्राणि अष्टौ कोटिशतानि च ॥

क्षेत्रं रक्षंति तत्रस्थाः प्रभासं शांकरा गणाः

॥२१६॥

इयं सरस्वती पुण्या सर्वत्रैव हि विद्यते ॥

पञ्चस्रोताः प्रभासे तु दुष्प्राप्या त्रिदशैरपि

॥२१७॥

तस्या यत्पञ्चमं स्रोतन्यंकुमत्यास्तटानि च ॥

तस्य मध्ये स्थितं तीर्थं गोष्पदेति च विश्रुतम्

॥२१८॥

तत्र प्रेतशिला मध्ये प्रेतानां मुक्तिदायिका ॥

यत्र प्रेताः पुरा मुक्ता अष्टाविंशतिकोटयः

॥२१९॥

पापिनां मुक्तिदं तीर्थमाद्या रुद्रगया स्मृता ॥

तदस्मिन्गोष्पदंनाम कलौ ख्यातं धरातले

॥२२०॥

यदा क्षीरोदमथनान्निःसृता लोकमातरः ॥

तदा देवैः समेतास्तु आगतास्तीर्थसन्निधौ

॥२२१॥

पदं तत्र निमग्नं च नन्दायाश्च शिलातले ॥

शिलां खुरांकितां दृष्ट्वा जानुदेशांकितां तथा

॥२२२॥

विस्मिताः सर्वदेवा वै पप्रच्छुर्गां च नन्दिनीम् ॥

किमेतद्दृश्यते देवि पदं प्रेतशिलातले ॥

कथं तु खेदः सञ्जातश्चास्माकं स्खलनं कथम्

॥२२३॥

नन्दिन्युवाच

इदं मम पदं देवाः शिलासंस्थं विराजते ॥

गगनांगणभूमिस्थं चन्द्रबिंबमिवापरम्

॥२२४॥

अद्यप्रभृति भो देवास्त्रैलोक्ये सचराचरे ॥

गोष्पदंनाम विख्यातं लोके ख्यातिं गमिष्यति

॥२२५॥

अत्रागत्य नरो यस्तु स्नानं श्राद्धं करिष्यति ॥

गयासप्तगुणंतस्य फलं देवा भविष्यति

॥२२६॥

न वारो न च नक्षत्रं न कालस्तत्र कारणम् ॥

यदैव दृश्यते तीर्थं तदा पर्वसहस्रकम्

॥२२७॥

अथवा पर्वकांक्षा चेत्तानि मे शृणुपार्वति ॥

अयने विषुवे युग्मे सामान्ये चार्कसंक्रमे

॥२२८॥

अमावास्याष्टकायां च कृष्णपक्षे विशेषतः ॥

आर्द्रामघारोहिणीषु द्रव्यब्राह्मणसंगमे

॥२२९॥

गजच्छाया व्यतीपाते वैधृते धृतचामरे ॥

वैशाखस्य तृतीयायां नवम्यां कार्तिकस्य तु

॥२३०॥

पञ्चदश्यां च माघस्य नभस्ये च त्रयोदशीम् ॥

युगादयः स्मृता ह्येतास्तस्मिन्काले च वा पुनः

॥२३१॥

मन्वन्तरादौ कार्यं च तत्र श्राद्धं विजानता ॥

आश्वयुक्छुक्लनवमी द्वादशी कार्तिके तथा

॥२३२॥

तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥

फाल्गुनस्य त्वमावास्या पौषस्यैकादशी तथा

॥२३३॥

आषाढस्यापि दशमी माघमासस्य सप्तमी ॥

श्रावणस्याष्टमी कृष्णा तथाऽऽषाढी च पूर्णिमा

॥२३४॥

कार्तिकी फाल्गुनी चैव ज्यैष्ठी पञ्चदशी तथा ॥

मन्वन्तरादयश्चैता दत्तस्या क्षयकारिकाः

॥२३५॥

वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च ॥

पञ्चमी चैत्रमासस्य तस्यैवांत्या तथा परा

॥२३६॥

शुक्ला त्रयो दशी माघे कार्तिकस्य तु सप्तमी ॥

नवमी मार्गशीर्षस्य सप्तैताः कल्पकादिमाः

॥२३७॥

कल्पतृप्तिर्भवेच्छ्राद्धे कल्पादौ तु कृते पुरा ॥

इत्येवमुक्त्वा सा नन्दा देवानां प्रतिनन्दिनी ॥

अन्तर्द्धानं जगामाशु दीपो वातहतो यथा

॥२३८॥

इतीदं कौतुकं दृष्ट्वा सर्वे देवाः सवासवाः ॥

ब्रह्मर्षयो देवर्षयः श्लोकं पौराणिकं जगुः

॥२३९॥

अहो तीर्थस्य माहात्म्यं नन्दायास्तपसो बलम् ॥

सकृच्छ्राद्धेन दत्तेन गयासप्तगुणं फलम्

॥२४०॥

एवमुक्त्वा ततोदेवाश्चक्रुः श्राद्धादिकां क्रियाम् ॥

यथोक्तं फलमापुस्ते नंदिन्या पूर्वभाषितम्

॥२४१॥

इत्थं त्वमपि राजेन्द्र गच्छ शीघ्रं हि गोष्पदम् ॥

तत्र श्राद्धादिकं कृत्वा लप्स्यसे फलमीप्सितम्

॥२४२॥

अयं ते जनको राजन्पापिनां प्रवरः स्मृतः ॥

नान्यैस्तीर्थशतैः शक्यः प्रोद्धर्तुं गोष्पदं विना

॥२४३॥

तस्माद्व्रज महाराज मा कार्षीस्त्वं विलंबनम् ॥

एवं श्रुत्वा तदा राजा प्रभासं क्षेत्रमागतः

॥२४४॥

तत्र स्थानस्थितान्विप्रांस्तीर्थमाहात्म्यकोविदान् ॥

अग्रेकृत्य महाराजो ययौ न्यंकुमतीं नदीम्

॥२४५॥

तै राज्ञो दर्शितं तीर्थं पदं प्रेतशिलास्थितम् ॥

तद्दृष्ट्वा विमलं तीर्थं विस्मयोत्फुल्ललोचनः ॥

चक्रे कुण्डानि वेदीश्च मण्डपान्यज्ञसिद्धये

॥२४६॥

ततो यज्ञः समारब्धो विधिवद्भूरिदक्षिणः ॥

प्रत्यक्षं पितर स्तस्य बभूवुर्ज्वलनप्रभाः

॥२४७॥

ततः श्रद्धां समास्थाय श्राद्धैर्यज्ञैर्महोदयम् ॥

ते चाब्रुवन्वचस्तुष्टाः पितरो राजसत्तमम्

॥२४८॥

धन्योऽसि राजन्पुण्योऽसि वयं धन्यतरास्त्वया ॥

यदत्र तीर्थे श्राद्धेन उद्धृता भवता वयम्

॥२४९॥

एवमुक्त्वा ततः सर्वे वेनेन पितरः सह ॥

विमानवरसंस्थाश्च जग्मुस्ते त्रिदिवालयम्

॥२५०॥

गच्छन्नुवाच वेनस्तं राजानं पृथुवक्षसम् ॥

राजञ्जन्मानि चत्वारि अभूवं चान्यजन्मनि

॥२५१॥

कुष्ठी पापो दुराचारश्चांडालोच्छिष्टभुक्तथा ॥

सोऽहं पापविनिर्मुक्तो गच्छामि त्रिदिवालयम्

॥२५२॥

तद्गच्छ त्वं महाभाग राज्यं भुंक्ष्व चिराय च ॥

कृतं ते सकलं कार्यं पुत्रेण क्रियते च यत्

॥२५३॥

एवं श्रुत्वा तदा राजा मुमुदे ज्ञातिसंयुतः ॥

ब्राह्मणान्हर्षयामास दानैर्भूकांचनादिभिः

॥२५४॥

न तदस्ति जगत्यस्मिंस्तत्र यन्न ददौ नृपः ॥

दृष्ट्वा प्रभावं तीर्थस्य प्रत्यक्षं पितृदर्शनम्

॥२५५॥

एवं राजा स कृत्वा तु स्वकीयं स्थान माययौ ॥

भुक्त्वा भूमिं तु सकलां प्रेत्य स्वर्गं समाप्तवान्

॥२५६॥

एवं प्रभावं तत्क्षेत्रं प्रभासं पापनाशनम् ॥

यस्मिन्नायांति तीर्थानि देवास्तिष्ठंति कोटिशः

॥२५७॥

प्रभासं क्षेत्रमासाद्य योन्यत्तीर्थं हि मार्गते ॥

स करस्थं समुत्सृज्य कूर्परेण समालिहेत्

॥२५८॥

अब्रुवन्पितरश्चैनां गाथां पौराणिकीं प्रिये ॥

गयां गंतुं न शक्नोति यदि पुत्रः कथंचन ॥

तदा यत्नेन गंतव्यं गोष्पदं तीर्थमुत्तमम्

॥२५९॥

कन्दैर्मूलैः फलैर्वापि पिण्याकेंगुदकेन वा ॥

अपि नः स कुले भूयाद्योऽत्र श्राद्धं प्रदास्यति

॥२६०॥

तत्र स्नात्वा प्रयत्नेन ब्राह्मणान्वेदवित्तमान् ॥

आमंत्र्य विधिवच्छ्राद्धे भोजयित्वा प्रयत्नतः ॥

पिंडदानं तु कर्त्तव्यं पितृणां तृप्तिमिच्छताम्

॥२६१॥

न तिथिर्न च नक्षत्रं पर्व मासादिकं न हि ॥

सर्वदा तत्र गंतव्यं श्रद्धा युक्तेन चेतसा

॥२६२॥

न कालनियमस्तत्र प्रमाणं दर्शनं यतः ॥

तत्राक्षयतृतीयायां दुर्ल्लभं गमनं प्रिये

॥२६३॥

कार्त्तिक्यां माघसप्तम्यां पद्मके वाऽथ पर्वणि

॥२६४॥

हिरण्यदानं गोदानं वस्त्रं रूप्यं घृतं तिलाः ॥

दातव्यास्तत्र युक्तेन पितॄणां तृप्तिमिच्छता

॥२६५॥

एवं ते कथितं देवि तीर्थगुह्यं महोदयम् ॥

न कथ्यं दुष्टबुद्धीनां पापिनां क्रूरचेतसाम्

॥२६६॥

श्रद्धायुक्ताय दातव्यं पितृभक्तिरताय च ॥

श्राद्धकाले विशेषेण पठे द्भक्त्या पुराणवित्

॥२६७॥

पितॄणां जायते तृप्तिस्तेन द्वादशवार्षिकी ॥

श्रोतव्यं प्रयतैर्नित्यं नरैर्नरकभीरुभिः ॥

पठितव्यं सदा भक्त्या विप्राणां भुंजता पुरः

॥२६८॥

पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः ॥

श्राद्धं कृतं तेन समासहस्रं रहस्यमेतत्पितरो वदंति

॥२६९॥

इदं रहस्य यशसो निधानमिदं पितॄणामतिवल्लभं च ॥

इदं च वेदेष्वमृताय नित्यमिदं महापापहरं च पुंसाम्

॥२७०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये न्यंकुमतीनदीमाहात्म्ये गोष्पदतीर्थमाहात्म्यवर्णनंनाम षट्त्रिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३३६ ॥