मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १६०

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 160

रैवंतकराजभट्टारकमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि राजभट्टारकं परम् ॥

रैवन्तकं सूर्यपुत्रमश्वारूढं महाबलम्

॥१॥

संस्थितं क्षेत्रमध्ये तु सावित्र्या नैर्ऋते प्रिये ॥

तं दृष्ट्वा मानवो देवि सर्वापद्भ्यो विमुच्यते

॥२॥

रविवारेण सप्तम्यां यस्तं पूजयते नरः ॥

तस्याऽन्वयेऽपि नो देवि दरिद्री जायते नरः

॥३॥

तस्मात्सर्वप्रयत्नेन तमेवाराधयेन्मनाक् ॥

निर्विघ्नं क्षेत्रवासार्थं राजा वाऽश्वविवृद्धये

॥४॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये रैवंतकराजभट्टारकमाहात्म्यवर्णनंनाम षष्ट्युत्तरशततमोऽध्यायः ॥ १६० ॥