मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३११

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 311

ततो गच्छेन्महादेवि गोपालस्वामिनं हरिम्

ईश्वर उवाच

ततो गच्छेन्महादेवि गोपालस्वामिनं हरिम् ॥

चण्डीशात्पूर्वदिग्भागे धनुषां विंशतौ स्थितम्

॥१॥

सर्वपापोपशमनं दारिद्र्यौघविनाशनम् ॥

तं दृष्ट्वा पूजयित्वा च माघे मासि विशेषतः ॥

पूजा जागरणं कृत्वा तत्र गच्छेत्परं पदम्

॥२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गोपाल स्वामिहरिमाहात्म्यवर्णनंनामैकादशोत्तरत्रिशततमोऽध्यायः ॥ ३११ ॥