ततो गच्छेन्महादेवि स्थानं शृंगसरोऽभिधम्
ईश्वर उवाच
ततो गच्छेन्महादेवि स्थानं शृंगसरोऽभिधम्
॥१॥शृंगारेश्वरनामा च तत्र देवः प्रतिष्ठितः ॥
शृङ्गारं विधिवच्चक्रे यत्र गोपीयुतो हरिः
॥२॥शृङ्गारेश्वरनामा च तेन पापौघनाशनः ॥
पूजयेद्यो विधानेन तत्र स्थाने स्थितं भवम् ॥
दारिद्र्यदुःखसंयुक्तो न स भूयाद्भवे क्वचित्
॥३॥इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शृंगारेश्वरमाहात्म्यवर्णनंनामैकोनषष्ट्युत्तरत्रिशततमोऽध्यायः ॥ ३५९ ॥