भैरवेश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि भैरवेश्वरमुत्तमम् ॥
योगेश्वर्या दक्षिणतो नातिदूरे व्यवस्थितम्
॥१॥सर्वपापप्रशमनं दिब्यैश्वर्यप्रदायकम् ॥
पुरा दैत्यविनाशार्थं यदा देवी कृतोद्यमा
॥२॥तदा भैरवमाहूय दूतत्वे नियुयोज ह ॥
शिवदूती तदा ख्याता पश्चाद्योगेश्वरीति च
॥३॥भैरवो यत्र वै देव्या दूतत्वे विनियोजितः ॥
तेन लिंगं समाख्यातं भैरवेश्वरनामकम्
॥४॥पूजितं देवदैत्यैश्च भैरवेण प्रतिष्ठितम् ॥
यस्तत्पूजयते भक्त्या कार्तिक्यां विधिना नरः ॥
निरंतरं वा षण्मासं सोऽभीष्टं लभते फलम्
॥५॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये भैरवेश्वरमाहात्म्यवर्णनंनाम त्रिषष्टितमोऽध्याय ॥ ६३ ॥