मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ११४

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 114

वामनस्वामिमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि विष्णुं पापप्रणाशनम् ॥

वामनस्वामिनामानं सर्वपातकनाशनम्

॥१॥

पुष्करान्नैर्ऋते भागे धनुर्विशतिभिः स्मृतम् ॥

यदा बद्धो बलिर्देवि विष्णुना प्रभविष्णुना

॥२॥

तदा तत्र पदं न्यस्तं दक्षिणं विश्वरूपिणा ॥

द्वितीयं मेरुशृंगे तु तृतीयं गगने प्रिये

॥३॥

यावदूर्ध्वं चोत्क्षिपति तावद्भिन्नं सुदूरतः ॥

पादाग्रेण तु ब्रह्माण्डं निष्क्रान्तं सलिलं ततः

॥४॥

ततः स्वजानुमात्रेण संप्राप्तं पृथिवीतले ॥

ततो विष्णुपदी गंगा प्रसिद्धिमगमत्क्षितौ

॥५॥

पूर्वं सा पुष्करे प्राप्ता पुष्करात्सा महानदी ॥

पुष्करं कथ्यते व्योम पुष्करं कथ्यते जलम् ॥

तेन तत्पुष्करं ख्यातं संनिधानं प्रजापतेः

॥६॥

तत्र स्नानं नरः कृत्वा यः पश्यति हरेः पदम् ॥

स याति परमं स्थानं यत्र देवो हरिः स्वयम्

॥७॥

तत्र पिंडप्रदानेन तृप्तिः स्यात्कोटिवार्षिकी ॥

पितॄणां च वरारोहे ह्येतदाह हरिः स्वयम्

॥८॥

अत्र गाथा पुरा गीता वसिष्ठेन महर्षिणा ॥

वामनस्वामिनं दृष्ट्वा तां शृणुष्व समाहिता

॥९॥

स्नात्वा तु पुष्करे तीर्थे दृष्ट्वा विष्णुपदं ततः ॥

अपि कृत्वा महत्पापं किमतः परितप्यते

॥१०॥

यस्तत्रोपानहौ दद्याद्ब्राह्मणाय यतव्रतः ॥

स यानवरमारूढो विष्णुलोके महीयते

॥११॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्र माहात्म्ये वामनस्वामिमाहात्म्यवर्णनंनाम चतुर्दशोत्तरशततमोऽध्यायः ॥ ११४ ॥